कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दायाद

dāyādaपुं · masc.

In 13 kośas: 9 synonym verses, 9 as a nānārtha head word, 2 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.80 · p. 29
आत्मनीनः सुतोऽपि स्यादुद्वहो नन्दनोऽपि च ।दायादः पिण्डदश्च स्यादङ्गभूर्यस्तु पञ्चमः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.99 · p. 31
सपिण्डश्चापि दायादः सनाभिः स्वेऽप्यथ स्त्रियाम् ।जातिता बन्धुता पुंसि ज्ञातिभावो नपुंसकम् ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 207
आत्मजस्तनयः सूनुर्दायादश्चोद्वहश्च सः ।द्वितीयः कुलकृच्चासौ पुत्राद्यास्तु स्त्रियाममी ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 210
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.551 · p. 129
दायादश्चेति नामापि कथ्यते सूनुनामनि ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.169 · p. 94
अपत्यसूनुदायादकुलाधारकनन्दनाः ।आत्मजन्मा द्वितीयश्च प्रसूतिः स्वात्मजः स्वजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.186 · p. 95
ज्ञातिस्वबन्धुदायादगोत्रस्वजनबान्धवाः ।ज्ञातेयं ज्ञातिभावे स्याद् बन्धुवृन्दे च बन्धुता ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.32 · p. 37
-----------------------------------ईश्वरश्चार्धनारीशो नरः शङ्खान्तराकृतः(तिः) ।दायादोऽङ्गुलिमूलञ्च ढ-श्च सङ्कोचकारकः ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.9 · p. 50
श्वश्रुर्वृद्धः शतानीको जरन्तः स्यादथांशकः ।सगन्धाज्ञातिदायादा मातुलो मातुकेशटः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.172
अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.836 · p. 96
अवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः ।कुलीनश्रेष्ठयोर्जात्यं कोटिरुत्कर्षसंख्ययोः ॥ ८३६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दपादः Dharaṇikośa 17.1.6 · p. 93
आमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ ।तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.35 · p. 236
प्रह्लादः प्रमदे तथा दितिसुते दायाद उक्तः सुत-ज्ञात्योच्छाग बिडाल केकिषु पुनर्मेनाद उक्तो बुधैः ।वृद्ध्याजीवनके कुसीद * * * त्रय्यां कुसीदप्रदेगोविन्दो गरुडध्वजे सुरगुरौ गोष्ठाधिपे वाच्यवत् ॥ ३५ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.918 · p. 127
त्रिस्तु स्याद्दमयितरि दमयत् तनये पुनः ।दायादो द्वे सपिण्डेऽपि यस्त्वन्यो दायभाग्भवेत् ॥ ९१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्द (wrong syllable)
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.243 · p. 193
दग्धभासितयोश्चाथ दायादो ज्ञातिपुत्रयोः ।दुकूलं पट्टकूले स्याद्दले भूर्जस्य सम्मतम् ॥ २४३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.15 · p. 230
तरत्प्लवे स्त्रियामेव कारण्डविहायसि ।दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥दारदः पारदे पुंसि विषभेदे च हिङ्गुले ।दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2102 · p. 255
द्विजेन्द्रो ब्राह्मणे चन्द्रे सुपर्णे द्वापरो युगे ।संदेहेऽथ सपिण्डे स्याद्दायादस्तनयेऽपि च ॥ २१०२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.30 · p. 241
सपिण्डपुत्रौ दायादौ द्वापरौ युगसंशयौ ।दिवौकाश्चातके देवे द्रुघणौ धातृमुद्गरौ ॥ ३० ॥
अनुष्टुप्

दायाद as a meaning in nānārtha verses