कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चर्षणि

carṣaṇiपुं · masc.

In 3 kośas: 3 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.2 · p. 20
अण्डीरा जगतः पञ्चजनाश्चर्षणयः पुनः ।मन्तवो भूतलस्थाना द्विपदाश्चेतना जनाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.36 · p. 24
चर्षणिर्वर्षणी रण्डा पांशुलापि निगद्यते ।दुःशृङ्गी पुंश्चली बन्धुरा स्वैरिण्यसतीत्यथ ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 210
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.734 · p. 111
चक्राङ्गो हंसविहगे चक्राङ्गी तु स्त्रियामियम् ।उक्ता कटुकरोहिण्यामथाग्नौ चर्षणिः पुमान् ॥ ७३४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.735 · p. 111
वध्वां बुद्धौ मनुष्ये च व्यवसाये च ना पुनः ।चतुष्पाद्रावणे त्रिस्तु चतुरङ्घ्रौ पुमान् पुनः ॥ ७३५ ॥
अनुष्टुप्
doubtful