कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भागधेय

bhāgadheyaक्ली · neut.

In 14 kośas: 25 synonym verses, 6 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.528 · p. 31
बलिः करो भागधेयो द्विपाद्यो द्विगुणो दमः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1379 · p. 52
धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः ।दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥ १३७९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.42
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.43
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.126 · p. 16
इष्टानिष्टफलं प्राज्ञैः स्मृतं दैवमयानयम् ।भागधेयं तथा भाग्यं विपाको भवितव्यता ॥ १२६ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.433 · p. 50
रक्षिवर्गो ह्यनीकस्थः सेनानीर्वाहिनीपतिः ।अर्थागमो भवेदायो भागधेयो बलिः करः ॥ ४३३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.103 · p. 100
इति यः क्रियते सन्धिः प्रतीकारः पुमानयम् ।द्विपाद्यो द्विगुणो दण्डो भागधेयोऽस्त्रियां बलिः ॥ १०३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.41 · p. 5
विधिर्विपाकोऽपि च तत्र चित्रा-टीरः स्त्रियां स्यात्त्रिपतिर्नृकर्म ।अदृष्टदिष्टे अपि भागधेय-भाग्ये च दैवं भवितव्यता च ॥ ४१ ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 210
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 250
करो बलिर्भागधेयी द्वयोर्धर्मादितः पुनः ।शौचाशौचपरिज्ञानममात्यानां मतोपधा ॥मायोपेक्षेन्द्रजालानि क्षुद्रोपाया अमी त्रयः ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ६७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.27 · p. 110
कूपः कलम्बः कलशे तु कुम्भोगन्त्र्यङ्गके नाभिरथोर्मिशम्यौ ।भ्रमश्च मोहेऽथ च जित्य-मृत्यूस्याद्भागधेयोऽपि च राजदेये ॥ २७ ॥
उपजातिः
genderपुंस्त्रीm. f.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 130 · p. 65
खमिन्द्रियं हृषीकं च श्रो(स्रो)तोऽक्षं करणं विदुः ।पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.273 · p. 86
भागधेयविधी भाग्यं दैवं च नियतिस्तथा ।अयो दिष्टमथालक्ष्मीर्निर्ऋतिः कालकर्णिका ॥ २७३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.364 · p. 147
अपराधो व्यलीकं च मन्तुः स्याद्विप्रियागसी ।भागधेयो बलिश्चैव करे सेना पताकिनी ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.107 · p. 224
लाजा वस्त्रदशार्थे च भूम्नि पुंसि स्त्रियामपि ।राजदेये भागधेय ईहाद्याः प्रत्ययान्तरात् ॥ १०७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.273 · p. 59
राज्ञां क्षेत्रादिभागे तु भागधेयं बलिः करः ।नद्यादितरणादौ यद्द्रव्यं शुल्कं तदिष्यते ॥ २७३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1041 · p. 190
करो बलिर्भागधेयो द्विपाद्यो द्विगुणो दमः ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2507 · p. 406
भागधेयं तथा भाग्यं दिष्टं दैवं पुनर्विधिः ।नियतिश्चेति नामानि मन्यन्ते नियतेर्बुधैः ॥ २५०७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.308 · p. 21
शुभावहो विधिर्यः स्यादय इत्यभिधीयते ।भागं भाग्यं भागधेयं नियतिः स्त्री विधिः पुमान् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.207 · p. 125
अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि ।अथ बन्धनमुद्दानं बन्धः संयमनन्तथा ॥उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते ।राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.255 · p. 209
शौर्ये शौण्डीर्य-शौण्डीरे नय-न्यायौ समञ्जसे ।भागधेयो भागधेयी भागोऽपि कारवत् करः ॥ २५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.8 · p. 250
भागो भाग्यं भागधेयं, शुभकर्मण्यपोऽप्तसा ।सान्ते षण्ढे, पापं पाप्मा किल्बिषं कलुषं समे ॥ ८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.281 · p. 38
भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः ।श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1288 · p. 157
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.45 · p. 107
पर्याहारः प्रजास्वायो भागधेयो बलिः करः ।उपदा तूपहारः स्यादुपग्राह्यमुपायनम् ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.113 · p. 473
यष्ट्यर्कांशुसमुद्रेषु तरणिर्भूपदेयके ।भागधेयः करेणुस्तु करिणीकरिणोरपि ॥ ११३ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.86 · p. 300
स्याद्भागधेयोऽयुजि राजभागेशुभेऽन्तिमे चाथ बिलेशयोऽहौ ।आखावुशीरे तु जलाशयं स्या-त्तोयाश्रये पुंसि बुधैः प्रदिष्टः ॥ ८६ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.434 · p. 63
भरद्वाजस्य वंश्येषु सम्बन्धिनि पुनस्त्रिषु ।भागधेयं तु भाग्ये क्ली दायादे तु पुमानयम् ॥ ४३४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.435 · p. 63
राजदेयकरे न क्ली भागधेयी द्वयोः पुनः ।जाते भागवतो व्रात्याद्वैश्या क्षत्त्रिपूर्विका ॥ ४३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास भकारादयः Paramānandīyanāmamālā 5.20.337 · p. 204
भारतं तु पुराणे स्याद् द्वीपभेदेऽपि सम्मतम् ।भागधेयं करे भाग्ये भोगवत्यपि सर्पपूः ॥ ३३७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.19 · p. 278
भागधेयं नपुं भाग्ये दायादे ना करे न षण् ।मस्तुलुंगः शिरः स्नेहे न स्त्री क्ली दधिमण्डके ॥ १९ ॥
अनुष्टुप्

भागधेय as a meaning in nānārtha verses