शम्बु
śambuपुं · masc.In 5 kośas: 5 synonym verses.
कुवेनिश्च कुवेनी च कुवेना च समं त्रयम् ।स्यात् शम्बूकाश्च (शम्बूका च?) शम्बूकः शम्बुकः शम्बुशाम्बुकौ ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
धर्मशास्त्रं स्मृतिर्धर्मसंहिता च स्त्रियावु(मु)भौ ।पञ्चाङ्गवाक्यं ग्रन्थः स्याच्छम्बुर्ना ग्रन्थविस्तरम् ।काव्यं कावा(?)च कविता रसवत्पदबन्धनम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.doubtful
शम्बवः शम्बुकाश्चैव शम्बूकाः शाम्बुकाः पुनः ।नामान्येतानि मन्यन्ते जलमात्रभवानि वै ॥ २१७३ ॥
अनुष्टुप्
genderपुंmasc.
अम्बुमात्रजशङ्खे तु शम्बुः शम्बूश्च शम्बुकः ।शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥
अनुष्टुप्
genderपुंmasc.
शम्बुकः शम्बुको ज्ञेयः पूर्वः कान्तस्तु सर्वदा ।ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.