कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdārṇava

शब्दार्णव Śabdārṇava

272 verses · 970 words tagged · 145 marked doubtful (dashed)

Part 1 (1/3)

I. Rāyamukuṭa of AK I.1.6

यदाह शब्दार्णवकारः -

वक्तॄणामस्वतन्त्रत्वात् काव्यादिषु दर्शनात् ।मुख्यवच्च प्रसिञ्चत्वात् प्रथमालक्षणाश्रितः ॥ १ ॥
1 · p. 531
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

II. Hemacandra on Abhidhānacintāmaṇi II.1

यद्वाचस्पतिः -

त्रिपिष्टपं देवलोको भुविः स्त्री द्योदिवौ स्त्रियौ ॥ २ ॥
2 · p. 531

III. Rāyamukuṭa on AK I.1.10

आदित्याः पितरो विश्वे साध्याश्च वसवोऽपि च ।भृगवोऽङ्गिरसश्चेति स्वर्लोकस्य परिच्छदाः ॥ ३ ॥
3 · p. 531
अनुष्टुप्

इति शब्दार्णवः ।

IV. Rāyamukuṭa on AK I.1.10

शब्दार्णवे -

सत्या जयाश्च पितरो वैकुण्ठा हरयोऽजिताः ।मरीचयः सुशर्माणः स्वरूपा अमृतौजसः ॥
4 · p. 531
अनुष्टुप्
सुशाखा रोहिताः पाराः स्वभावा हरिता अपि ॥ ४ ॥
4 · p. 531

इति ।

V. Sarvānanda on AK I.1.17, Rāyamukuṭa on AK I.1.17, Bhānujīdīkṣita on AK I.1.17

विरिञ्चो द्रुघणः संजो विरिञ्चिर्द्रुहिणो मतः ॥ ५ ॥
5 · p. 531

इति शब्दार्णवः (वात्) ।

VI. Rāyamukuṭa on AK I.1.18, Bhānujīdīkṣita on AK I.1.18

अथ नारायणो विष्णुरूर्ध्वकर्मा नरायणः ॥ ६ ॥
6 · p. 531

इति शब्दार्णवः (वात्) ।

VII. Rāyamukuṭa on AK I.1.22, Bhānujīdīkṣita on AK I.1.22, Rāmanātha (Borooah AK, p. 35)

शौरिश्रीवत्सदैत्यारिविष्वक्सेनजनार्दनाः ।षड्बिन्दुः श्रीपतिः शौरिर्दैवकिनन्दनोऽच्युतः ॥ ७ ॥
7 · p. 531
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कि (wrong syllable)

VIII. Rāyamukuṭa on AK I.1.27, Bhānujīdīkṣita on AK I.1.27, V. D. Sharma on AK I.1.27

ब्रह्मसूरनिरुद्धः स्यात् ॥ ८ ॥
8 · p. 531

इति शब्दार्णवाच्च ।

IX. Hemacandra on Abhidhānacintāmaṇi II.136

वाचस्पतिस्तु -

चक्रं सुदर्शनोऽस्त्रियाम् ॥ ९ ॥
9 · p. 532

इत्याह ।

X. Rāyamukuṭa on AK I.1.35, Bhānujīdīkṣita on AK I.1.35, V. D. Sharma on AK I.1.35

धनुस्त्वजगवं युग्ममजकावमजीकवम् ॥ १० ॥
10 · p. 532

इति शब्दार्णवात् ।

XI. Rāyamukuṭa on AK I.1.36, Bhānujīdīkṣita on AK I.1.36, V. D. Sharma on AK I.1.36

उमा कात्यायनी दुर्गा काली हैमवतीश्वरी ।काला कालञ्जरी गौरी … ॥ ११ ॥
11 · p. 532
अनुष्टुप्metre not read in every line

इति वाचस्पतिः ।

XII. Rāmanātha (Borooah AK p. 67)

वामेयः सूर्यतनयो रेवन्तो रुद्रदैवतः ॥ १२ ॥
12 · p. 532

इति शब्दार्णवः ।

XIII. Rāyamukuṭa on AK I.1.51, Bhānujīdīkṣita on AK I.1.52, Jñānendrasarasvatī on Uṇ. 676, V. D. Sharma on AK I.1.52

स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि ॥ १३ ॥
13 · p. 532

इति शब्दार्णवाच्च ।

XIV. Hemacandra on Abhidhānacintāmaṇi II.97, Rāyamukuṭa on AK I.1.51, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa I.105, Bhānujīdīkṣita on AK I.1.52, V. D. Sharma on AK I.1.52

हंसो हहाहुहू च द्वौ वृषणाश्वश्च तुम्बुरुः ॥ १४ ॥
14 · p. 532

XV. Sarvānanda on AK I.1.52, Rāyamukuṭa on AK I.1.51, Bhānujīdīkṣita on AK I.1.52, V. D. Sharma on AK I.1.52

अपि गन्धर्वगान्धर्वदिव्यगायनगातवः ॥ १५ ॥
15 · p. 532

इति शब्दार्णवः (वात्) ।

XVI. Rāyamukuṭa on AK I.1.53, Bhānujīdīkṣita on AK I.1.54, V. D. Sharma on AK I.1.54

इति शब्दार्णवात् ।

XVII. Bhānujīdīkṣita on AK I.1.59

शब्दार्णवेऽपि कृदध्याये -

सदान्नादकणादौ च स्यात् क्रव्यादाममांसभुक् ।क्रव्यादः कृत्तविकृतपक्वमांसभुगुच्यते ॥ १७ ॥
17 · p. 532
अनुष्टुप्

इत्युक्तेः ।

XVIII. Bhānujīdīkṣita on AK I.1.60, Jñānendrasarasvatī on Uṇ. 279, V. D. Sharma on AK I.1.60

नैरृतः कर्बरः क्रव्यात् कर्बुरो यातुरक्षसी ॥ १८ ॥
18 · p. 532

इति शब्दार्णवः ।

XIX. Sarvānanda AK I.1.62

मारुतः स्पर्शनः प्राणः समीरो मरुतो जगत् ॥ १९ ॥
19 · p. 532

इति शब्दार्णवसंसारावर्तौ ।

XX. Bhānujīdīkṣita on AK I.1.70, V. D. Sharma on AK I.1.70

विमानं तु पुष्पकोऽस्त्री नगरी त्वलका प्रभा ॥ २० ॥
20 · p. 532

इति शब्दार्णवात् ...।

XXI. Hemacandra on Abhidhānacintāmaṇi II.106, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa III.11

... वाचस्पतिः यदाह -

निधिः शेवधिरस्त्रियाम् ॥ २१ ॥
21 · p. 532

XXII. Hemacandra on Abhidhānacintāmaṇi II.107, Bhānujīdīkṣita on AK I.1.71, V. D. Sharma on AK I.1.71

पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ २२ ॥
22 · p. 532
अनुष्टुप्

इति शब्दार्णवः ।

XXIII. Bhānujīdīkṣita on AK I.3.1, V. D. Sharma on AK I.3.1

दिक् तु स्त्रियां दिशा दान्ती ककुब्देववधूः पविः ॥ २३ ॥
23 · p. 533

इति शब्दार्णवः ।

XXIV. Bhānujīdīkṣita on AK I.3.7, V. D. Sharma on AK I.3.7

यद्यपि शब्दार्णवे -

मेघास्तु त्रिविधास्तत्र वह्निजा धूमयोनयः ।निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः ॥
24 · p. 533
अनुष्टुप्
यज्ञजास्तु घना घोराः पुष्करावर्तकादयः ॥ २४ ॥
24 · p. 533

इति ...।

XXV. Bhānujīdīkṣita on AK I.3.10, V. D. Sharma on AK I.3.10

मेघाग्न्यादिरिरम्मदः ॥ २५ ॥
25 · p. 533

इति शब्दार्णवः ।

XXVI. Hemacandra on Abhidhānacintāmaṇi II.80, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa III.26, Bhānujīdīkṣita on AK I.3.11, V. D. Sharma on AK I.3.11

अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम् ॥ २६ ॥
26 · p. 533

XXVII. Ujjvaladatta on Uṇ. II.13, Bhaṭṭojīdīkṣita on Uṇ. 170, Bhānujīdīkṣita on AK I.3.13, Jñānendrasarasvatī on Uṇ. 170, V. D. Sharma on AK I.3.13

हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः ॥ २७ ॥
27 · p. 533

इति शब्दार्णवः (वात्) ।

XXVIII. Hemacandra on Abhidhānacintāmaṇi II.21, Bhānujīdīkṣita on AK I.3.16, V. D. Sharma on AK I.3.16

इति शब्दार्णवः ।

XXIX. Bhānujīdīkṣita on AK I.3.20, V. D. Sharma on AK I.3.20

अथागस्त्यः कुम्भयोनिरगस्तिः कलशीसुतः ॥ २९ ॥
29 · p. 533

इति शब्दार्णवः ।

XXX. Hemacandra on Abhidhānacintāmaṇi II.23

यद्वाचस्पतिः -

सौम्यं मृगशिरोऽस्त्रियाम् ॥ ३० ॥
30 · p. 533

XXXI. Bhānujīdīkṣita on AK I.3.26, V. D. Sharma on AK I.3.26

शनैश्चरे मन्दः ॥ ३१ ॥
31 · p. 533

इति वाचस्पतिः ।

XXXII. Bhānujīdīkṣita on AK I.3.29, V. D. Sharma on AK I.3.29

अथ मार्तण्डमार्ताण्डौ ॥ ३२ ॥
32 · p. 533

इति नामनिधानाच्छब्दार्णवाच्च ।

XXXIII. Sarvānanda on AK I.3.30

हेलिर्हंसं सहस्रांशुस्तपनस्तापनो रविः ॥ ३३ ॥
33 · p. 533

इति शब्दार्णवः ।

XXXIV. Bhānujīdīkṣita on AK I.3.33, V. D. Sharma on AK I.3.33

द्वयोर्मरीचिः किरणो भानुरुस्रः करः पदम् ॥ ३४ ॥
34 · p. 533

इति शब्दार्णवः ।

XXXV. Bhānujīdīkṣita on AK I.4.3, V. D. Sharma on AK I.4.3

इति शब्दार्णवः ।

XXXVI. Sarvānanda on AK I.4.3, Bhānujīdīkṣita on AK I.4.3, V. D. Sharma on AK I.4.3

इति शब्दार्णवः ।

XXXVII. Bhānujīdīkṣita on AK I.4.4, V. D. Sharma on AK I.4.4

रात्री रात्रिस्तमस्विनी ॥ ३७ ॥
37 · p. 533

इति शब्दार्णवः ।

XXXVIII. Bhānujīdīkṣita on AK I.4.8, V. D. Sharma on AK I.4.8

अप्यमावस्यमावासी चामामास्यपि अमामसी ॥ ३८ ॥
38 · p. 533

इति शब्दार्णवः ।

XXXIX. Sarvānanda on AK I.4.14, Bhānujīdīkṣita on AK I.4.14, V. D. Sharma on AK I.4.14

तत्र मार्गे सहः सहाः ॥ ३९ ॥
39 · p. 533

इति शब्दार्णवः ।

XL. Hemacandra on Abhidhānacintāmaṇi II.25

यद्वाचस्पतिः -

पूर्वफल्गुनी योनिदेवता ॥ ४० ॥
40 · p. 533

XLI. Sarvānanda on AK I.4.16, Bhānujīdīkṣita on AK I.4.16, V. D. Sharma on AK I.4.16

स्यादाषाढे त्वषाढकः ॥ ४१ ॥
41 · p. 533

इति शब्दार्णवः ।

XLII. Hemacandra on Abhidhānacintāmaṇi II.70

यद्वाचस्पतिः -

वसन्ते त्वस्त्रियामिष्यः ॥ ४२ ॥
42 · p. 533

XLIII. Bhānujīdīkṣita on AK I.5.1, V. D. Sharma on AK I.5.1

इति शब्दार्णवात् ।

XLIV. Bhānujīdīkṣita on AK I.5.12, V. D. Sharma on AK I.5.12

शब्दार्णवे तु -

कस्तूरिकायामामोदः कर्पूरे मुखवासनः ।बकुले स्यात्परिमलश्चम्पके सुरभिस्तथा ॥ ४४ ॥
44 · p. 533
अनुष्टुप्

इति ।

XLV. Bhānujīdīkṣita on AK I.5.13, V. D. Sharma on AK I.5.13

शब्दार्णवे तु -

श्वेतस्तु समपीतोऽसौ रक्तेतरजपारुचिः ।वलक्षस्तु सितश्यावः कदलीकुसुमोपमः ॥
46 · p. 534
अनुष्टुप्
अर्जुनस्तु सितः कृष्णवेशवान् कुमुदच्छविः ॥ ४५ ॥
45 · p. 534

इत्युक्तम् ।

XLVI. Bhānujīdīkṣita on AK I.5.13, V. D. Sharma on AK I.5.13

पाण्डुस्तु पीतभागार्धः केतकीधूलिसन्निभः ॥ ४६ ॥
46 · p. 534

इति शब्दार्णवः ।

XLVII. Bhānujīdīkṣita on AK I.5.13, V. D. Sharma on AK I.5.13

धूसरस्तु सितः पीतलेशवान् बकुलच्छविः ॥ ४७ ॥
47 · p. 534

इति शब्दार्णवः ।

XLVIII. Bhānujīdīkṣita on AK I.5.14, V. D. Sharma on AK I.5.14

शब्दार्णवे तु -

मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः ॥ ४८ ॥
48 · p. 534

इत्युक्तम् ।

XLIX. Bhānujīdīkṣita on AK I.5.16, V. D. Sharma on AK I.5.16

शब्दार्णवे तु -

सितपीतहरिद्रक्तः कडारस्तृणवह्निवत् ।अयं तूद्रिक्तपीताङ्गः कपिलो गोविभूषणः ॥
51 · p. 534
अनुष्टुप्
हरितांशेऽधिकेऽसौ तु पिशङ्गः पद्मधूलिवत् ।पिशङ्गस्त्वसितावेशात् पिङ्गो दीपशिखादिषु ॥
52 · p. 534
अनुष्टुप्
पिङ्गलस्तु परच्छायः पिङ्गे शुक्लाङ्गखण्डवत् ॥ ४९ ॥
49 · p. 534

इति

L. Bhānujīdīkṣita on AK I.6.1, V. D. Sharma on AK I.6.1

इति शब्दार्णवः ।

LI. Mallinātha on Meghadūta II.54

उक्तिराभाषणं वाक्यमादेशो वचनं वचः ॥ ५१ ॥
51 · p. 534

इति शब्दार्णवे ।

LII. Hemacandra on Abhidhānacintāmaṇi II.164

यद्वाचस्पतिः -

शिक्षा वर्णविवेचिका ॥ ५२ ॥
52 · p. 534

LIII. Hemacandra on Abhidhānacintāmaṇi II.164

यद्वाचस्पतिः -

सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते ।ते कल्पा लक्षणार्थानि सूत्राणिति प्रचक्षते ॥
57 · p. 534
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)

... यदाह [वाचस्पतिः] -

प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः ।पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः ॥ ५३ ॥
53 · p. 534
अनुष्टुप्

LIV. Hemacandra on Abhidhānacintāmaṇi II.208

वाचस्पतिस्तु -

पटहस्त्वानकोऽस्त्रियाम् ॥ ५४ ॥
54 · p. 534

इत्याह ।

LV. Hemacandra on Abhidhānacintāmaṇi II.208, Bhānujīdīkṣita on AK I.7.6, V. D. Sharma on AK I.7.6

द्वयोस्तु कोणो वीणादेर्वादनं शारिका च सा ॥ ५५ ॥
55 · p. 534

LVI. Hemacandra on Abhidhānacintāmaṇi II.195

वाचस्पतिस्तु -

हल्लीसकोऽस्त्रियाम् ॥ ५६ ॥
56 · p. 534

इत्याह ।

LVII. Hemacandra on Abhidhānacintāmaṇi II.183

यद्वाचस्पतिः -

नाट्यधर्मी तु स्त्रियां नाट्ये यथागमम् ॥ ५७ ॥
57 · p. 534

LVIII. Hemacandra on Abhidhānacintāmaṇi II.243, Bhānujīdīkṣita on AK I.7.11, V. D. Sharma on AK I.7.11

स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकः ।भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसवत् ॥ ५८ ॥
58 · p. 534
अनुष्टुप्

LIX. Bhānujīdīkṣita on AK I.7.13, V. D. Sharma on AK I.7.13

अत्र विशेषः शब्दार्णवे -

गणिकानुचरैरज्जुकेति नाम्ना नृपेण सा ।युवराजस्तु सर्वेण कुमारो भर्तृदारकः ॥
64 · p. 534
अनुष्टुप्
भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः ।ब्राह्मणेन तु नाम्नैव राजन्नित्यृषिभिः स च ॥
65 · p. 534
अनुष्टुप्
वयस्य राजन्निति वा विदूषक इमं वदेत् ।अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी ॥
66 · p. 534
अनुष्टुप्
भट्टिनीत्यपरैरन्या नीचैर्गौस्वामिनी सा ॥ ५९ ॥
59 · p. 534

इति ।

LX. Bhānujīdīkṣita on AK I.7.14, V. D. Sharma on AK I.7.14

आर्ये मारिषमार्षकौ ॥ ६० ॥
60 · p. 534

इति शब्दार्णवः ।

LXI. Bhānujīdīkṣita on AK I.7.15, V. D. Sharma on AK I.7.15

निर्वहणं तु निष्ठा स्त्री संहारश्च समापने ॥ ६१ ॥
61 · p. 534

इति शब्दार्णवः ।

LXII. Sarvānanda on AK I.7.16, Bhānujīdīkṣita on AK I.7.16, V. D. Sharma on AK I.7.16

अङ्गहारस्त्वङ्गहारिः ॥ ६२ ॥
62 · p. 534

इति शब्दार्णवः ।

LXIII. Bhānujīdīkṣita on AK I.7.19, V. D. Sharma on AK I.7.19

तत्र हासो हसो हास्यं घर्घरं हासिका स्त्रियाम् ॥ ६२ ॥
62 · p. 534

इति शब्दार्णवः ।

LXIV. Bhānujīdīkṣita on AK I.7.19, V. D. Sharma on AK I.7.19

विकृतो वैकृतः ॥ ६४ ॥
64 · p. 535

इति शब्दार्णवात् ।

LXV. Mallinātha on Raghuvaṃśa X.46

संक्षोभो भयचकितम् ॥ ६५ ॥
65 · p. 535

इति शब्दार्णवे ।

LXVI. Bhānujīdīkṣita on AK I.7.21, V. D. Sharma on AK I.7.21

स्यादर्तनमृतीया च गर्हा चाथ भयं भिया ।त्रासोत्त्रासौ दरो भीतमातङ्को भीश्च साध्वसम् ॥ ६६ ॥
66 · p. 535
अनुष्टुप्

इति शब्दार्णवात् ।

LXVII. Bhānujīdīkṣita on AK I.7.24, V. D. Sharma on AK I.7.24

असूया त्वभ्यसूया ॥ ६७ ॥
67 · p. 535

इति शब्दार्णवः ।

LXVIII. Bhānujīdīkṣita on AK I.7.26

क्रोधो भामः क्रुधा रुषा ॥ ६८ ॥
68 · p. 535

इति शब्दार्णवः ।

LXIX. Bhānujīdīkṣita on AK I.7.29, V. D. Sharma on AK I.7.29 and Trikāṇḍaśeṣa III.5.17

चिन्ता तु स्मृतिराध्यानं स्मरणं सस्पृहे पुनः ।उत्कण्ठोत्कलिके तस्मिन्नभिध्या तूभयोरपि ॥ ६९ ॥
69 · p. 535
अनुष्टुप्

इति शब्दार्णवः ।

LXX. Bhānujīdīkṣita on AK I.7.32

लीला केलिर्विलासश्च शृङ्गारभावजा क्रिया ॥ ७० ॥
70 · p. 535

इति शब्दार्णवात् ।

LXXI. Hemacandra on Abhidhānacintāmaṇi IV.263

यद्वाचस्पतिः -

मेषशृङ्गं त्वविशृङ्गाकृतिः ॥ ७१ ॥
71 · p. 535

LXXII. Hemacandra on Abhidhānacintāmaṇi IV.265

एते सर्वेऽपि पुंक्लीबलिङ्गाः ॥ ७२ ॥
72 · p. 535

इति वाचस्पतिः ।

LXXIII. Bhānujīdīkṣita on AK I.9.3, V. D. Sharma on AK I.9.3

प्रसूतिजममानस्यं कृच्छ्रं कष्टं कलाकलम् ॥ ७३ ॥
73 · p. 535

इति वाचस्पतिः ।

LXXIV. Bhānujīdīkṣita on AK I.10.3, V. D. Sharma on AK I.10.3

सरिलं सलिरं सलिलम् ॥ ७४ ॥
74 · p. 535

इति वाचस्पतिः ।

LXXV. Bhānujīdīkṣita on AK I.10.5, V. D. Sharma on AK I.10.5

नारं घनरसः पुमान् ॥ ७५ ॥
75 · p. 535

इति शब्दार्णवः ।

LXXVI. Sarvānanda on AK I.10.21

जलोका रक्तपानडी स्त्रियां भूम्नि जलौकसः ॥ ७६ ॥
76 · p. 535

इति शब्दार्णवः ।

LXXVII. Hemacandra on Abhidhānacintāmaṇi IV.160, Ujjvaladatta on Uṇ. IV.188, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa III.58, Jñānendrasarasvatī on Uṇ. 628

वाचस्पतिस्तु -

कासारस्त्वल्पसरसि सरसी तु महासरः ॥ ७७ ॥
77 · p. 535

इति विशेषमाह ।

LXXVIII. Bhānujīdīkṣita on AK I.10.28, V. D. Sharma on AK I.10.28

वेशन्तः पल्वलोऽस्त्री ॥ ७८ ॥
78 · p. 535

इति वाचस्पतिः ।

LXXIX. Sarvānanda on AK 1.10.33, Bhānujīdīkṣita on AK I.10.34, V. D. Sharma on AK I.10.34

तापी तु तपती सैत्या चन्द्रभागा तु चन्द्रका ।चान्द्रभागा शारदा तु कश्मीरेषु सरस्वती ॥ ७९ ॥
79 · p. 535
अनुष्टुप्

इति शब्दार्णवः ।

LXXX. Ujjvaladatta on Uṇ. IV.38, Bhaṭṭojīdīkṣita on Uṇ. 478, Jñānendrasarasvatī on Uṇ. 478, Bhānujīdīkṣita on AK I.10.38, V. D. Sharma on AK I.10.38

शेवलं शैवलो न स्त्री शैवलो जलनीलिका ॥ ८० ॥
80 · p. 535

इति शब्दार्णवः / वाचस्पतिः ।

LXXXI. Ujjvaladatta on Uṇ. I.150, Bhaṭṭojīdīkṣita on Uṇ. 148, Bhānujīdīkṣita on AK II.1.3, Jñānendrasarasvatī on Uṇ. 148, V. D. Sharma on AK II.1.3

इति शब्दार्णवः ।

LXXXII. Bhānujīdīkṣita on AK II.1.3

वीचिः पङ्क्तिर्महिः केलिरित्याद्या ह्रस्वदीर्घयोः ॥ ८२ ॥
82 · p. 535

इति वाचस्पतिः ।

LXXXIII. Bhānujīdīkṣita on AK II.1.18, V. D. Sharma on AK II.1.18

धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वयं पुनः ।गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तत् ॥ ८३ ॥
83 · p. 535
अनुष्टुप्

LXXXIV. Sarvānanda on AK II.1.18, Bhānujīdīkṣita on AK II.1.18, V. D. Sharma on AK II.1.18

द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः ॥ ८४ ॥
84 · p. 536

इति शब्दार्णवः ।

LXXXV. Hemacandra on Abhidhānacintāmaṇi IV.38

वाचस्पतिस्तु -

स्यात् स्थानीयं त्वतिलम्बो ग्रामो ग्रामशताष्टके ।तदर्धं तु द्रोणमुखं तच्च कर्वटमस्त्रियाम् ॥
93 · p. 536
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
कर्वटार्धे कर्वुटिकं स्यात्तदर्धे तु कार्वटम् ।तदर्धे पत्तनं तच्च पत्तनं पुटभेदनम् ॥
94 · p. 536
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
निगमस्तु पत्तनार्धे तदर्धे तु निवेशनम् ।कर्वटादधमो द्रङ्गः पत्तनादुत्तमश्च सः ॥
95 · p. 536
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
उद्रङ्गश्च निवेशश्च स एव द्रङ्ग इत्यपि ॥ ८५ ॥
85 · p. 536

इति विशेषमाह ।

LXXXVI. Hemacandra on Abhidhānacintāmaṇi IV.69

वाचस्पतिस्तु -

कुड्यमस्त्रियाम् ॥ ८६ ॥
86 · p. 536

इति पुंस्यप्याह ।

LXXXVII. Bhānujīdīkṣita on AK II.2.4, V. D. Sharma on AK II.2.4

गेहमस्त्री शालासभे स्त्रियाम् ॥ ८७ ॥
87 · p. 536

इति वाचस्पतिः ।

LXXXVIII. Bhānujīdīkṣita on AK II.2.5, V. D. Sharma on AK II.2.5

निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम् ॥ ८८ ॥
88 · p. 536

इति वाचस्पतिः ।

LXXXIX. Bhānujīdīkṣita on AK II.2.5, V. D. Sharma on AK II.2.5

कुलोदवसितं पस्त्यम् ॥ ८९ ॥
89 · p. 536

इति वाचस्पतिः ।

XC. Hemacandra on Abhidhānacintāmaṇi IV.63

यद्वाचस्पतिः -

आथर्वणं शान्तिगृहं शान्तिगृहकमप्यदः ॥ ९० ॥
90 · p. 536

इति ।

XCI. Bhānujīdīkṣita on AK II.2.17, V. D. Sharma on AK II.2.17

कपाटश्च कवाटश्च त्रिषु स्यादररं न ना ॥ ९१ ॥
91 · p. 536

इति वाचस्पतिः ।

XCII. Hemacandra on Abhidhānacintāmaṇi IV.162

वाचस्पतिस्तु -

सरिः स्त्री निर्झरो झरः उस्रस्त्वस्त्री ॥ ९२ ॥
92 · p. 536

इति ।

XCIII. Bhānujīdīkṣita on AK II.4.9, V. D. Sharma on AK II.4.9

वल्ली तु वेल्लिः सरणे ॥ ९३ ॥
93 · p. 536

इति वाचस्पतिः ।

XCIV. Hemacandra on Abhidhānacintāmaṇi III.292

वाचस्पतिस्तु -

अथ मज्जा द्वयोः ॥ ९४ ॥
94 · p. 536

इति ...।

XCV. Hemacandra on Abhidhānacintāmaṇi IV.192, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa I.86

... वाचस्पतिः, यदाह -

गुलुञ्छोऽस्त्री ॥ ९५ ॥
95 · p. 536

इति ।

XCVI. Hemacandra on Abhidhānacintāmaṇi IV.191, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa IV.3

वाचस्पतिस्तु -

पुष्पोऽस्त्री ॥ ९६ ॥
96 · p. 536

इति ।

XCVII. Mallinātha on Meghadūta I.1

छायावृक्षो नमेरुः स्यात् ॥ ९७ ॥
97 · p. 536

इति शब्दार्णवे ।

XCVIII. Hemacandra on Abhidhānacintāmaṇi IV.197

यद्वाचस्पतिः -

फलं त्वेतस्य पर्कटम् ॥ ९८ ॥
98 · p. 536

XCIX. Bhānujīdīkṣita on AK II.4.34, V. D. Sharma on AK II.4.34

कुम्भोलूखलं कुम्भं कुम्भोलुः खलकं वरम् ॥ ९९ ॥
99 · p. 536

इति वाचस्पतिः ।

C. Bhānujīdīkṣita on AK II.4.35, V. D. Sharma on AK II.4.35

राजादनं प्रसरको राजातनः ॥ १०० ॥
100 · p. 536

इति वाचस्पतिः ।

CI. Bhānujīdīkṣita on AK II.4.38, V. D. Sharma on AK II.4.38

नागरङ्गे तु नारङ्गो नार्यङ्गस्तक्रवासनः ॥ १०१ ॥
101 · p. 536

इति वाचस्पतिः ।

CII. Bhānujīdīkṣita on AK II.4.43, Jñānendrasarasvatī on Uṇ. 460, V. D. Sharma on AK II.4.43

तिन्तिडी त्वम्ब्लिका चिञ्चा तिन्तिडिका कपिप्रिया ॥ १०२ ॥
102 · p. 536

इति वाचस्पतिः ।

CIII. Bhānujīdīkṣita on AK II.4.54, V. D. Sharma on AK II.4.54

अलिप्रिया विशालाग्राप्यमोघा पाटलिर्द्वयोः ॥ १०३ ॥
103 · p. 536

इति वाचस्पतिः ।

CIV. Bhānujīdīkṣita on AK II.4.63, V. D. Sharma on AK II.4.63

भण्डिरो भण्डिलो ना ॥ १०४ ॥
104 · p. 536

इति वाचस्पतिः ।

CV. Sarvānanda on AK II.4.67, Raghunātha (R. Sharma, Kalpadrukośa of Keśava, GOS no. 42, Introduction p. xv, note 4)

कृष्णपाकफलः कृष्णफलपाको वनालकः ।कृष्णपाकः पाककृष्णः फलकृष्णो वरालकः ॥
116 · p. 537
अनुष्टुप्
पाककृष्णफलः पाकफलकृष्णः कराम्बुकः ।फलपाकः पाकफलः पोलः कृष्णफलोऽवशः ॥ १०५ ॥
105 · p. 537
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)

इति शब्दार्णवः ।

CVi. Bhānujīdīkṣita on AK II.4.70, Raghunātha (R. Sharma, Kalpadrukośa of Keśava, GOS no. 42, Introduction p. xvi, note 1), V. D. Sharma on AK II.4.70

मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका ।शीतभीरुर्मदयन्ती भूपादी तृणशून्यकम् ॥ १०६ ॥
106 · p. 537
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)

CVII. Sarvānanda on AK II.4.78, Bhānujīdīkṣita on AK II.4.78

धूस्तुरस्तु पुरीमोहो धूस्तूरः कनकाह्वयः ।धुस्तूरो मातुलश्चास्य फले मातुलपुत्रकः ॥ १०७ ॥
107 · p. 537
अनुष्टुप्

CVIII. Bhānujīdīkṣita on AK II.4.87, V. D. Sharma on AK II.4.87

… शुकशिम्बिस्तु मर्कटी ।शुकशिम्बा च … ॥ १०८ ॥
108 · p. 537
metre not recognised