All kośas › Dvirūpadhvanisaṅgraha
द्विरूपध्वनिसङ्ग्रह Dvirūpadhvanisaṅgraha
278 verses · 2,126 words tagged · 225 marked doubtful (dashed)
Part 1 (1/3)
द्विरूपध्वनिसंग्रहः
(भरतमल्लिकविरचितः)
नत्वा गौरी गिरीशं च गौराङ्गमल्लिकात्मजः ।करोति भरतो वैद्यो द्विरूपध्वनिसंग्रहम् ॥ १ ॥
1 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
द्विरूपा बहुरूपाः स्युर्ध्वनयो येऽल्पशब्दतः ।कियन्तस्तेऽपि वक्तव्याः सतामिह नियोगतः ॥ २ ॥
2 · p. 53
अनुष्टुप्
ईश्वरी स्यादीश्वरा च काली काला च कालिका ।चण्डिश्चण्डी च चण्डा च चण्डिकाम्बापि अम्बिका ॥ ३ ॥
3 · p. 53
अनुष्टुप्
गौरी गौरा ईश ईट् स्यात् गिरीशगिरिशौ समौ ।शिविपिष्टो विनिर्दिष्टः शिपिविष्टस्तथा समौ ॥ ४ ॥
4 · p. 53
अनुष्टुप्
देवकी दैवकी च स्यान्मेना स्यान्मेनका तथा ।नन्दिर्नन्दी चाजगवं भवेदाजगवं तथा ॥ ७ ॥
7 · p. 53
अनुष्टुप्
अजगावं चाजकावं भवेदजकवं तथा ।पारिषद्यः पारिषदः पार्षद्यः पार्षदः समाः ॥ ८ ॥
8 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
द्रुहिणो द्रुहणोऽपि स्याद्द्रुघनश्च त्रयः समाः ।विरिञ्चिः स्याद्विरिञ्चश्च स्वयंभुः स्यात् स्वयंभुवा ॥ ९ ॥
9 · p. 54
अनुष्टुप्
सहद्यसद्दिविषदा दैवतेन च देवता ।दिवोकाश्च दिवौकाश्च बिडोजाः स्याद्बिडौजसा ॥ १० ॥
10 · p. 54
अनुष्टुप्
शुनाशीरो द्वितालव्यः सुनासीरो द्विदन्त्यकः ।तालव्यादिर्दन्त्यमध्यः शुनासीरश्च दृश्यते ॥ ११ ॥
11 · p. 54
अनुष्टुप्
स्यात् सूत्रामापि सुत्रामा शची शचिः सचिः सची ।पीयूषमपि पेयूषं पैयूषं च पयोऽमृते ॥ १२ ॥
12 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
आबन्ता च सुधर्मा स्यान्नान्ता च भिदुरं भिदिः ।भेदुरं भिदिरं चैरावत ऐरावणो भवेत् ॥ १३ ॥
13 · p. 54
अनुष्टुप्
बौद्धो बुद्धो भवेद्दाशरथिर्दाशरथस्तथा ।सौमित्रिरपि सौमित्रो लक्ष्मणो लक्षणो भवेत् ॥ १४ ॥
14 · p. 54
अनुष्टुप्
शीता सीता च कथिता कैकेयी केकयी अपि ।जटायुर्वा जटायुः स्याद्धनूमान् हनुमानपि ॥ १५ ॥
15 · p. 54
अनुष्टुप्
बाली बालिरपि प्रोक्तो जाम्बवो जाम्बवानपि ।स्युर्महाराजिका(राजिक?) एव महाराजिक(राजक?)संज्ञिका ॥ १६ ॥
16 · p. 54
अनुष्टुप्
द्वितीयोकारदीर्घोऽपि भवेत् पुरुरवो ध्वनिः ।आम्बरीषोऽम्बरीषश्चार्जुने फाल्गुनफल्गुनौ ॥ १७ ॥
17 · p. 54
अनुष्टुप्
तुल्यौ गन्धर्वगान्धर्वावासुरोऽप्यसुरो भवेत् ।हाहा हहाश्च तुल्यौ द्वावादन्तौ हाहसि स्मृते ॥ १८ ॥
18 · p. 54
अनुष्टुप्
हूहूशब्दो द्विदीर्घः स्याद्द्विह्रस्वेऽपि हुहुः स्मृतः ।शुष्माशुष्मश्च तुल्यौ द्वौ दमूना दमुनास्तथा ॥ १९ ॥
19 · p. 54
अनुष्टुप्
ज्वालः स्याज्ज्वालया सार्धं कीलः स्यात् कीलया सह ।दवाग्निरपि दावाग्निरभ्रं चाब्भ्रं खमेघयोः ॥ २० ॥
20 · p. 55
अनुष्टुप्
नभो नाभो स्त्री नभसं विहायः स्याद्विहायसम् ।अन्तरीक्षं चान्तरिक्षं स्फुर्जथुः स्फूर्जथुः समौ ॥ २१ ॥
21 · p. 55
अनुष्टुप्
भवेद्वर्षे वर्षणं चावग्राहावग्रहौ समौ ।सौदामनी च सौदाम्नी तथा सौदामिनीक्ष्यते ॥ २२ ॥
22 · p. 55
अनुष्टुप्
वर्षोपले निगदिताः करका करकः करः ।रात्रिंचरो रात्रिचरः क्रव्यात् क्रव्याद उच्यते ॥ २३ ॥
23 · p. 55
अनुष्टुप्
जातुधानो यातुधानो जातूधानश्च दृश्यते ।वातिर्वाता च वातः स्यान्मारुतो मरुतो मरुत् ॥ २४ ॥
24 · p. 55
अनुष्टुप्
गन्धवहो गन्धवाहः सततं सन्ततं भवेत् ।अपिधानं पिधानं च चन्द्रश्चन्दश्च कथ्यते ॥ २५ ॥
25 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
भासः स्याद्भासा भासश्च रुग्रुची रुचयः समाः ।शोभा शुभा भवेदङ्के लक्ष्म लक्ष्मणलक्षणम् ॥ २६ ॥
26 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
ज्योत्स्नी च ज्यौत्स्निका ज्योत्स्ना ज्योत्स्नावत्यां निशि स्थिताः ।तारकं तारका तारा तारं च परिकीर्त्यते ॥ २७ ॥
27 · p. 55
अनुष्टुप्
भरणिर्भरणी चोक्ता कृत्तिका कृत्तिरुच्यते ।रोहिणी रोहिणिश्च स्यादिल्वला इल्लता (इल्लका?) स्त्रियः ॥ २८ ॥
28 · p. 55
अनुष्टुप्
पुष्यया सह पुष्यः स्याद्धस्तः स्याद्धस्तया सह ।आषाढा स्यादषाढापि ते पूर्वोत्तरयोरपि ॥ २९ ॥
29 · p. 55
अनुष्टुप्
ते च मूर्धन्यषे आहुः केचित्तालव्यशे अपि ।सूरः शूरोऽपि (सुरोऽपि?) सूर्ये स्यात् तपनस्तापनस्तथा ॥ ३० ॥
30 · p. 56
अनुष्टुप्
पुष्पवन्तौ पुष्पवद्भ्यां सहैकोऽत्रेन्दुभास्करौ ।यमदग्निर्जमदग्निः स्याद्वशिष्ठो वसिष्ठवत् ॥ ३१ ॥
31 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
पुलस्तिः स्यात् पुलस्त्येन सहागस्त्योऽगस्तिना ।मैत्रावरुणिरेव ज्ञैर्मित्रावरुण उच्यते ॥ ३२ ॥
32 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वाल्मीके वाल्मिकः प्रोक्तो वाल्मीकिरपि वाल्मिकिः ।मुनिभेदे वर्ततेऽपिशलिरापिशलिस्तथा ॥ ३३ ॥
33 · p. 56
अनुष्टुप्
स्यात् फाल्गुनः फाल्गुनिकश्चैत्रे चित्रिकाचित्रको ।श्रावणः स्यात् श्रावणिको ज्यैष्ठे ज्येष्ठोऽपि वर्तते ॥ ३४ ॥
34 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable); pāda 3, syllable 5 श्रा (wrong syllable)
आषाढः स्यादषाढोऽपि द्वौ द्वौ मूर्धन्यषान्वितौ ।तालव्यशान्वितौ चैतौ दृश्यते इति केचन ॥ ३५ ॥
35 · p. 56
अनुष्टुप्
रजनी रजनिश्च स्याद्रात्री रात्रिस्तमी तमा ।कुज्झटिः कुज्झटी चोक्ता तथा कुज्झटिका बुधैः ॥ ३६ ॥
36 · p. 56
अनुष्टुप्
स्यान्नीहारो निहारश्चावश्याऽवश्याय उच्यते ।उषावन्ताप्युषोऽदन्त उषः सान्तं च दृश्यते ॥ ३७ ॥
37 · p. 56
अनुष्टुप्
प्रत्यूषः प्रत्युषश्च स्यात् प्रत्यूषः प्रत्युषस्तथा ।स्यात् … सन्ध्या सन्धेति च द्वयम् ॥ ३८ ॥
38 · p. 57
अनुष्टुप्metre not read in every line
माश्च मासश्च तुल्यौ द्वौ तिथी तिथिरपीष्यते ।पौर्णमासी पूर्णमासी पूर्णिमा पूर्णमा तथा ॥ ३९ ॥
39 · p. 57
अनुष्टुप्
पौर्णमी च समाः पञ्च कुहूः कुहुरुभे समे ।अमावासी आमावस्याप्यमावास्याप्यमावसी ॥ ४० ॥
40 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 आ (wrong syllable)
अमामसी अमामासी षट् समाः परिकीर्तिताः ।वरिषा अपि वर्षाः स्युर्बहुत्वे ताः स्त्रियां मताः ॥ ४१ ॥
41 · p. 57
अनुष्टुप्
भवेत् प्रावृट् प्रावृषा च शरत् स्यात् शरदा तथा ।विषुवद्विषुवं चैव विषुपं च समं त्रयम् ॥ ४२ ॥
42 · p. 57
अनुष्टुप्
पाण्डरः पाण्डुरः पाण्डुर्हरितो हरिदुच्यते ।रोहितो लोहितोऽपि स्यात् कपिलः कबिलस्तथा ॥ ४३ ॥
43 · p. 57
अनुष्टुप्
रवरावौ ध्वनध्वानौ समौ निक्वाणनिक्वणौ ।क्वणक्वाणौ समावुक्तौ प्रक्वाणप्रक्वणावपि ॥ ४५ ॥
45 · p. 57
अनुष्टुप्
भेरिर्भेरी च तुल्ये द्वे विपञ्ची स्याद्विपञ्चिका ।झर्झरो झर्झरी झल्ली झल्लरी झालरी समाः ॥ ४७ ॥
47 · p. 58
अनुष्टुप्
पणवः पणवा च स्यात्प्रणवोऽप्यत्र वर्तते ।कलाहका काहका च काहलोऽप्यत्र वर्तते ॥ ४८ ॥
48 · p. 58
अनुष्टुप्
सानेयिका स्यात् सानेयी सानिका सा च कथ्यते ।वंशी च वंशिका तल्ये अन्तीकाप्यन्तिरन्तिका ॥ ४९ ॥
49 · p. 58
अनुष्टुप्
निर्वहणा निर्वहणं निवर्हणमपीरितम् ।व्रीडा व्रीडश्च लज्जा स्यात् लज्या लज्जस्त्रपा त्रपः ॥ ५० ॥
50 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्व (wrong syllable)
भ्रूकुटिर्भ्रुकुटिश्चैवं भ्रकुटर्भृकुटिर्भवेत् ।स्त्रीदन्तत्वात्(?) पाक्षिकेऽपि परं रूपचतुष्टयम् ॥ ५१ ॥
51 · p. 58
अनुष्टुप्
तन्द्री तन्द्रा तन्द्रिका च निमेषनिमिषौ समौ ।गभीरमपि गम्भीरं स्यादुच्चैरुच्चकैरपि ॥ ५२ ॥
52 · p. 58
अनुष्टुप्
भावे क्रियायां मित्रादेः ष्ण्ये मैत्री मैत्र्यमित्यपि ।वैदग्ध्यमपि वैदग्धी औचित्यमौचिती अपि ॥ ५३ ॥
53 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्य (wrong syllable)
भ्रकुंसश्च भ्रुकुंसश्च भ्रकुंसोऽपि भृकुंसवत् ।नृत्यं नृत्तं लास्यकं च लास्यं स्यादालसोऽलसः ॥ ५४ ॥
54 · p. 58
अनुष्टुप्
अवहित्थं विनिर्दिष्टं अवहित्थाऽपि कोविदैः ।परिवारः परीवारः प्रवह्लीका प्रवह्लिका ॥ ५५ ॥
55 · p. 58
अनुष्टुप्
असूर्क्षणं सूर्क्षणं चासूर्क्षणाऽसूर्क्षणे अपि ।तुबरं तूबरं चाहुरम्लमम्ब्लं च कोविदाः ॥ ५६ ॥
56 · p. 58
अनुष्टुप्
भुजङ्गमो भुजङ्गश्च भुजगः स्यात् स्फटा फटा ।हालाहलं हालहलं हाहलं च हलाहलम् ॥ ५७ ॥
57 · p. 58
अनुष्टुप्
आशीश्चाश्यहिदंष्ट्रायां सर्पे गोनासगोनसौ ।अहितुण्डिक एवोक्तः शाब्दिकैराहितुण्डिकः ॥ ५८ ॥
58 · p. 59
अनुष्टुप्
पारावारो विनिर्दिष्टः पारापारश्च सागरे ।जलं जडं स्यादुदकं दकमत्राप्युदीरितम् ॥ ५९ ॥
59 · p. 59
अनुष्टुप्
पृषत्पृषन्ति पृषता तुल्या स्यादापगाऽपगा ।धुनिर्धनी च स्रोतः स्यात् स्रोतं तुल्ये तटी तटम् ॥ ६ ॥
6 · p. 59
अनुष्टुप्
रोधः सान्तमदन्तोऽपि रोधः स्यादिति शाब्दिकाः ।वालुका वालिका च स्यात् सरयुः सरयूरपि ॥ ६१ ॥
61 · p. 59
अनुष्टुप्
शितद्रुः स्यात् शतद्रुश्च शुतद्रूश्च शुतद्रुवत् ।चन्द्रभागा चन्द्रभागी चान्द्रभागा च सा तथा ॥ ६२ ॥
62 · p. 59
अनुष्टुप्
चान्द्रभागी बुधैरुक्ता विपासा (विपाशा?) स्याद्विपाडपि ।उर्मिरूर्मी च वीचिः स्यात् विचिर्वीचिः विची तथा ॥ ६३ ॥
63 · p. 59
अनुष्टुप्
स्थाघमस्थाघमस्ताघमप्यगाधे प्रयुज्यते ।सरसी तु सरश्चाहुः कुमुच्च कुमुदं समे ॥ ६४ ॥
64 · p. 59
अनुष्टुप्
शेवालमपि शेपालं शेवलं शीवलं तथा ।शैवालं शैवलं चेति षट् समार्थाः प्रकीर्तिताः ॥ ६५ ॥
65 · p. 59
अनुष्टुप्
तुल्यौ केवर्तकैवर्तौ शकली शलली भवेत् ।मत्स्यो मत्सश्च मच्छः स्यात् शफरी शफरस्तथा ॥ ६६ ॥
66 · p. 59
अनुष्टुप्
चिलिचीमश्चिलिचिमश्चिलीचीमिश्चिलीचिमिः ।चेलिचीमश्चिलीमश्च षट् समाः स्युस्तिमिस्तिमः ॥ ६७ ॥
67 · p. 59
अनुष्टुप्
वोदालः स्याद्वदालोऽपि उलूपी उलुपी समे ।इल्लीशः स्यादिलीशोऽपि तुल्यौ भेकटवेकटौ ॥ ६८ ॥
68 · p. 59
अनुष्टुप्
उन्दपी चुन्दपी च स्यात् चुन्दकी शिशुमारके ।वडिशी वडिशं च स्यात् वलिशं च तदुच्यते ॥ ६९ ॥
69 · p. 59
अनुष्टुप्
कुवेनिश्च कुवेनी च कुवेना च समं त्रयम् ।स्यात् शम्बूकाश्च (शम्बूका च?) शम्बूकः शम्बुकः शम्बुशाम्बुकौ ॥ ७० ॥
70 · p. 60
अनुष्टुप्
सान्ता जलौका ऐक्येऽपि वा भूम्नि स्युर्जलौकसः ।आबन्तापि जलौका स्याददन्तोऽपि जलौकसः ॥ ७१ ॥
71 · p. 60
अनुष्टुप्
नौः स्यान्नौका च तरणिस्तरणी च तरिस्तरी ।उडुपः स्यादुडूपोऽपि द्रोणिर्द्रोणी द्रुणिर्द्रुणी ॥ ७२ ॥
72 · p. 60
अनुष्टुप्
क्षेपणिः स्यात् क्षेपणी च क्षिपणिः क्षिपणी तथा ।अभ्री स्यादब्भ्रिरभिश्च तयाब्भ्री च समा इमाः ॥ ७३ ॥
73 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
महिर्मही च धरणिर्धरणी धारणी तथा ।क्षोणिः क्षोणी तथा क्षौणिः क्षोणी चैताः समा मताः ॥ ७ ॥
7 · p. 60
अनुष्टुप्
पृथिवी पृथवी पृथ्वी भूमिर्भूमी च दृश्यते ।अवनी अवनिस्तुल्ये मृन्मृदे मृत्तिमृत्तिके ॥ ७५ ॥
75 · p. 60
अनुष्टुप्
मृत्सामृत्स्ने स्थलस्थल्यावुष ऊषश्च दृश्यते ।वल्मीकं वल्मिकं च स्यात् पथः पन्थाश्च कीर्तितः ॥ ७६ ॥
76 · p. 60
अनुष्टुप्
सरणी सरणिश्च स्यात् पदवी पदविस्तथा ।वर्तनी वर्तनिश्च स्यात् समौ कुपथकापथौ ॥ ७७ ॥
77 · p. 60
अनुष्टुप्
मण्डली मण्डलं च स्यात् जगती जगदुच्यते ।पिष्टपं विष्टपं तुल्ये त्रविष्टप(त्रिपिष्टप?)त्रिविष्टपे ॥ ७८ ॥
78 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
नगरी नगरं च स्यात् पूः पुरी च पुरिः पुरम् ।पत्तनं पट्टनं च स्यात् पट्टनी च समं त्रयम् ॥ ७९ ॥
79 · p. 60
अनुष्टुप्
एडूकमेडुकं च स्यात् एडोकमैडुकं तथा ।सदनं सादनं च स्यात् निकेतः स्यान्निकेतनम् ॥ ८० ॥
80 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
आगारं स्यादगारं च बस्त्यं पस्त्यमुभे समे ।ओकः सान्तमदन्तोऽपि ओको गेहं गृहं भवेत् ॥ ८१ ॥
81 · p. 61
अनुष्टुप्
मन्दिरा मन्दरा तुल्ये उपकार्युपकारिका ।प्रघाणप्रघणौ स्यातां प्रघानप्रघनावपि ॥ ८२ ॥
82 · p. 61
अनुष्टुप्
आलिन्दः स्यादलिन्दोऽपि गञ्जा गञ्जश्च दृश्यते ।अङ्गनं स्यादङ्गनं(णं?) च नीव्रं नीध्रं शिला शिली ॥ ८३ ॥
83 · p. 61
अनुष्टुप्
वडभिर्वडभी च स्यात् वेदिर्वेदी च वेदिका ।वितर्दश्व वितर्दी स्यात् अवरिश्चावरं तथा ॥ ८४ ॥
84 · p. 61
अनुष्टुप्
कपाटं च कवाटं स्यात् कवाटी च कवाट्यपि ।अर्गला स्यादर्गली च तथार्गलमपीष्यते ॥ ८५ ॥
85 · p. 61
अनुष्टुप्
निःश्रेणिरपि निःश्रेणी पल्लिः पल्ली च दृश्यते ।सीमाबन्ता तथा नान्ता नगोह्यः स्याद्दृषत् दृशत् ॥ ८६ ॥
86 · p. 61
अनुष्टुप्
सरः सरा सरी चैवं सरिश्च स्याद्दरी दरिः ।कन्दरः कन्दरी चैवं कन्दरा च निगद्यते ॥ ८७ ॥
87 · p. 61
अनुष्टुप्
खनिः खानिः खनी च स्यात् तुल्यौ द्वौ हीरहीरकौ ।अटवी(वि?)मटवीं प्राहुर्वनीमपि वनं तथा ॥ ८८ ॥
88 · p. 61
अनुष्टुप्
प्रमदवनं प्रमदावनं च परिकीर्तितम् ।वीथिर्वीथी भवेदाली आलिरावलिरावली ॥ ८९ ॥
89 · p. 61
अनुष्टुप्metre not read in every line
श्रेणिश्रेण्यौ पंक्तिपंक्त्यौ राजिराज्यौ समे मते ।रेखा लेखा भवेद्वृक्षे शालसालावुदीरितौ ॥ ९० ॥
90 · p. 61
अनुष्टुप्
महीरहो महीरुट् स्यात् वानस्पत्यो वनस्पतिः ।द्रुमः स्याद्द्रुश्च तुल्यौ द्वौ फलेग्रही फलग्रही ॥ ९१ ॥
91 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
मज्जाबन्तापि नान्तापि मज्वा(?) पुंलिङ्ग उच्यते ।अङ्गरोऽप्य(था?)ङ्गुरोङ्गूरो भवेदोषधिरोषधी ॥ ९२ ॥
92 · p. 61
अनुष्टुप्
वृघ्नी व्रघ्नश्च वल्लिः स्यात् वल्ली वेल्ली(ल्लि?)रपीष्यते ।व्रततिव्रतती चात्र प्रततिः प्रतती अपि ॥ ९३ ॥
93 · p. 62
अनुष्टुप्
त्वक् त्वचा च त्वचं च स्यात् वल्कं वल्कलमुच्यते ।एधः स्यात् एघसा सार्धं विटपेन विटो मतः ॥ ९४ ॥
94 · p. 62
अनुष्टुप्
वल्लरी वल्लरिश्च स्यात् वल्लरं चात्र युज्यते ।मञ्जरीमञ्जरिमञ्जिमञ्जरं च प्रकीर्तितम् ॥ ९५ ॥
95 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
गुच्छो गुत्सो गुलुच्छश्च छादनं छदनं छदः ।मकरन्दो मरन्दश्च कुसुमं कुसमुच्यते ॥ ९७ ॥
97 · p. 62
अनुष्टुप्
तुल्यौ जम्बीरजम्भीरौ वरुणो वरुणद्रुमे ।आम्रातकोऽम्रातकः स्यादुडुम्बर उदुम्बरः ॥ ९८ ॥
98 · p. 62
अनुष्टुप्
… स्यात् मधूको मधुकोऽपि च ।मधुपुष्पो मधुपुष्पोऽक्षोभ आक्षोभ उच्यते ॥ ९९ ॥
99 · p. 62
metre not recognised
निकोठके(?) निगदितौ निकोचकनिकोचकौ(?) ।भवेत् शोभाञ्जनः शोभाञ्जनः सोभाञ्जनस्तथा ॥ १० ॥
10 · p. 62
अनुष्टुप्
सोभाञ्जनश्च तत्रैव सुभाञ्जजनशुभाञ्जनौ ।भवेदक्षीब आक्षीबोऽरिष्टोऽरिष्ठकफलेऽनिले ॥ १०१ ॥
101 · p. 62
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ञ्जज (syllable split); pāda 4, syllable 4 ष्ठक (syllable split)
गम्भारी अपि कम्भारी काश्वर्यां काश्मरी भवेत् ।कर्कन्धुरपि कर्कन्धूर्बदरी बदरो भवेत् ॥ १०२ ॥
102 · p. 62
अनुष्टुप्
कोलिः कोली च कोला स्यात् कुवलं कौवलं समे ।ईबन्ता पर्कटी प्लक्षे तथा नान्तीऽपि पर्कटी ॥ १०३ ॥
103 · p. 63
अनुष्टुप्
तत्र नान्तो जटी प्रोक्तो जटी जटिरुभे समे ।सावरः शावरौ लोध्रे सेलुः शेलुरुभौ समौ ॥ १०४ ॥
104 · p. 63
अनुष्टुप्
प्रियालः स्यात् पियालोऽपि गुग्गुलुर्गुर्गुलो भवेत् ।कादम्बः स्यात् कदम्बोऽपि वृक्षे स्यात् पिचुलः पिचुः ॥ १०५ ॥
105 · p. 63
अनुष्टुप्
चिन्तिडी चिन्तिडीका च तिन्तली च समा इमाः ।आम्ब्लिका स्यादाम्लिका च आम्लीकाप्यम्ब्लिका तथा ॥ १०६ ॥
106 · p. 63
अनुष्टुप्
तिन्दुकी तिन्दुकस्तुल्यौ वैकङ्कतविकङ्कतौ ।इङ्गुदी स्यादिङ्गुलोऽपि समो गोली च गोलिहः ॥ १०७ ॥
107 · p. 63
अनुष्टुप्
असनः स्यादासलोऽपि आसनोऽप्याशनस्तथा ।नारङ्गः स्यानागरङ्गस्तत्र नार्यङ्ग इत्यपि ॥ १०८ ॥
108 · p. 63
अनुष्टुप्
मातुलुङ्गो मातुलुङ्गिः स्यात् तथा मातुलुङ्गकः ।शाल्मलिः स्यात् शल्मलिश्च शाल्मली शल्मली तथा ॥ १०९ ॥
109 · p. 63
अनुष्टुप्
स्थिरायुर्वत् स्थिरायुश्च पिण्या पिण्याच(पिण्याकः?) कथ्यते ।करजः स्यात् करञ्जोऽपि पूतीकः पुतिको भवेत् ॥ ११० ॥
110 · p. 63
अनुष्टुप्
गायत्री नान्त ईबन्ता गायत्री खदिरे द्वयम् ।रोहीतको रोहितको रोहितेयोऽपि दृश्यते ॥ १११ ॥
111 · p. 63
अनुष्टुप्
उरुवूकोऽप्यरुबुकः स्यादेरण्ड एरण्डकः ।रूवुकः स्याद्वुकस्तत्र रुवूको रुवुको रुवुः ॥ ११२ ॥
112 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ए (wrong syllable)
अमण्डोमण्ड आमण्डो नकुचो निकुचो भवेत् ।शमीरः स्यात् शमिरोऽपि तुल्या(तुल्यौ?) विज्जलहिज्जलौ ॥ ११३ ॥
113 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मि (wrong syllable)
पाटला स्यात् पाटलिश्च अमोघा मोघया सह ।मलपूर्मलयूश्च स्यात् कुटजः कोटजो भवेत् ॥ ११४ ॥
114 · p. 64
अनुष्टुप्
दाडिमो दालिमश्च स्याद्दाडिमी डालिमस्तथा ।दाडिम्बश्च समाः पञ्च गरी स्यादगरी अपि ॥ ११५ ॥
115 · p. 64
अनुष्टुप्
स्यात्तापिञ्जोऽपि ता(त?)पिञ्जो मल्ली मल्लिश्च मल्लिका ।आविग्नः स्यादविग्नोऽपि यूथी स्यादपि यूथिका ॥ ११६ ॥
116 · p. 64
अनुष्टुप्
स्यान्माध्वी माधविका (च?) समौ बन्धूकबन्धुकौ ।जातिर्जाती च तत्र स्यात् सुमनाः सुमनापि च ॥ ११७ ॥
117 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जपा जवा कुरुवकौ प्रोक्तौ कुरवकावपि ।प्रतिहासः प्रतीहासो वसूको वसुको वसुः ॥ ११८ ॥
118 · p. 64
अनुष्टुप्
वुको वको विद्धकर्णो विद्धकर्णा च दृश्यते ।मैरियकः स्यान्मैरीयस्तत्र मैरिय इत्यपि ॥ ११९ ॥
119 · p. 64
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 रि (wrong syllable)
गुडची गुडुची वन्दा वृन्दाका वन्दका भवेत् ।घूस्तूरः स्यात् घुस्तुरोऽपि घुस्तूरोऽपि समा इमाः ॥ १२० ॥
120 · p. 64
अनुष्टुप्