All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
चतुर्थः काण्डः (3/4)
दशपूरं दशपुरं, कटम्भरौषधौ मता ।भद्रबला राजबला महाबला प्रसारिणी ॥ २४१ ॥
4.241 · p. 238
metre not recognised
सरणी सरणा वापि सारणी कटली पुनः ।ज्योतिष्का ज्योतिष्मती च तर्कार्या वैजयन्तिका ॥ २४२ ॥
4.242 · p. 238
अनुष्टुप्
जया जयन्ती पानीयकण्टके तु शृगाटकम् ।सङ्घाटिका त्रिकोणश्च त्रिकोने प्रोपमे पुनः ॥ २४३ ॥
4.243 · p. 238
अनुष्टुप्
बाताममपि बादामं पद्मेब्जोऽदन्त-सन्तषण् ।जलात् पङ्कात् सरसोऽपि परे जन्म-ज-रुट्-रुहा ॥ २४४ ॥
4.244 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
सरसीरुहं सरसिरुहं विसप्रसूतवत् ।विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्वती ॥ २४५ ॥
4.245 · p. 238
metre not recognised
कुमुदिन्यथोत्पले तु कुवेलं कुवलं कुवम् ।कुवलयं कैरवे तु कुमुदं कुमुदुत्पले ॥ २४६ ॥
4.246 · p. 238
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्य (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा ।सौगन्धिके तु कल्हारं हकाराक्रान्तलान्वितम् ॥ २४७ ॥
4.247 · p. 238
अनुष्टुप्
पद्मनाले तु मृणालं मृणाली च विशं विसम् ।विसण्डकं च पद्मादिवृन्ते नाली तु नालया ॥ २४८ ॥
4.248 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मृ (wrong syllable)
नालं किञ्जल्के तालव्य-दन्त्यमध्यं तु केसरम् ।नवपत्रे संवर्तिका संवर्तिर्जलनीलिका ॥ २४९ ॥
4.249 · p. 238
metre not recognised
शेवालं शैवलं शैवालं शेपालं च शीवलम् ।शेवलं पाटलसाला वाशुराशु च व्रीहिवत् ॥ २५० ॥
4.250 · p. 238
अनुष्टुप्metre not read in every line
आशुव्रीहिः कलमस्तु कडमश्च कलामकः ।मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥
4.251 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
मसूरा मसुराऽप्येते वेश्यायामपि वार्द्धयः ।कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥ २५२ ॥
4.252 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
सतीलक-सातीलकौ त्रिकटोऽङ्कट इत्यपि ।चणके हरिमन्थः स्यात् हरिमन्थज इत्यपि ॥ २५३ ॥
4.253 · p. 239
अनुष्टुप्metre not read in every line
मुद्गे हरिः सहरितस्तुम्बरस्तु वनोद्भवे ।राजमुद्गे मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥ २५४ ॥
4.254 · p. 239
अनुष्टुप्
मुकुष्ठक-मयष्ठकौ वर्गाद्याप्तौ स-ठान्तिम ।मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥ २५५ ॥
4.255 · p. 239
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ष्ठ (wrong syllable); pāda 4, syllable 5 कु (wrong syllable)
जघन्यव्रीहौ श्यामाकः श्यामकः पीततण्डुली ।कङ्गु-क्वङ्गू कङ्गुनी च कङ्कुश्च कोरदूषके ॥ २५६ ॥
4.256 · p. 239
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 हौ (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
कोद्रवः कुद्रवोऽप्युक्तः युगन्धर्यां तु योनलः ।जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥ २५७ ॥
4.257 · p. 239
अनुष्टुप्
भङ्गायाम्, गवेधुकायां गवीधुका गवेधुवत् ।गवेडुश्च, तिलात्पिञ्जपेजौ षण्ढतिले ह्युभौ ॥ २५८ ॥
4.258 · p. 239
अनुष्टुप्metre not read in every line
कदम्बके सरिषपः सर्षपः, सस्यशीर्षके ।कविशं कणिशोऽफलकाण्डे पल-पलालकौ ॥ २५९ ॥
4.259 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ ।तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो ॥ २६० ॥
4.260 · p. 239
अनुष्टुप्
मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका ।तुण्डिका तुण्डिकेरी च मधुस्रवायां तु जीवनी ॥ २६१ ॥
4.261 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जीवन्ती जीवनीया च जीवा स्यात् क्षारपात्रके ।शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥ २६२ ॥
4.262 · p. 239
अनुष्टुप्
चङ्गेर्यां स्यादम्ललोना लोणिका चाऽम्ललोणिका ।अम्बोष्ठिकायुताऽम्बष्ठा टोलावदम्लटोलकः ॥ २६३ ॥
4.263 · p. 239
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
खरपुष्पायां कबरी बर्बरा बर्बरी तथा ।वृन्ताके वार्ता वार्ताकी वार्ताकं च वार्ताकुवत् ॥ २६४ ॥
4.264 · p. 240
metre not recognised
वार्ताङ्गो वातिङ्गणश्च तथैव दुष्प्रधर्षिणी ।दुष्प्रधर्षणी च शतपर्णायां तु कलम्बिका ॥ २६५ ॥
4.265 · p. 240
metre not recognised
कलम्बूश्च, पालघ्ने तु छत्रा-छत्रा-ऽतिछत्रवत् ।अतिछत्रस्तिक्तके तु पटोलः पटुवत् स्मृतः ॥ २६६ ॥
4.266 · p. 240
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable); pāda 2, syllable 5 ऽति (wrong syllable)
पुष्करमूले पौष्करं पुष्करं मूलमित्यपि ।भृङ्गराजे भृङ्गरोऽपि भृङ्गरजो नादन्तगः ॥ २६७ ॥
4.267 · p. 240
metre not recognised
भृङ्गरजश्च सान्तोऽपि षर्बुजे चापि मूर्धजे ।दशाङ्गुलमितिख्यातं कारवेल्ले सुशव्यपि ॥ २६८ ॥
4.268 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
सुषवी सुशवी कर्कारौ कुष्माण्डो विदां मतः ।कुष्माण्डोऽपि च कूष्माण्डी, पटोल्यां तु कोशातकी ॥ २६९ ॥
4.269 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 को (wrong syllable)
कोषातकी च, कर्कट्यां स्यादीर्वारुरिर्वारुवत् ।ऊर्वारुरुर्वारुरपि एर्वारुश्चिर्भिटी तथा ॥ २७० ॥
4.270 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रि (wrong syllable)
चिर्भिटं चिर्भिटस्तद्वत् वालुङ्कः स्याद्वालुक्यपि ।त्रपुषी त्रपुसी त्रपुषं त्रिपुषं च, घ्नेऽर्शसः ॥ २७१ ॥
4.271 · p. 240
metre not recognised
शूरणो दन्त्यतालव्यादिमः, बालतृणे पुनः ।शस्यं स्याद्दन्तमूर्धन्यमध्यम्, बर्हिषि दभ्रवत् ॥ २७२ ॥
4.272 · p. 240
अनुष्टुप्
दर्भः कुशं कुसो मुञ्जे शरस्तालव्यदन्त्यभाक् ।दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥
4.273 · p. 240
अनुष्टुप्
नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः ।इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र-पौण्ड्रकौ ॥ २७४ ॥
4.274 · p. 240
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया ।यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥
4.275 · p. 240
अनुष्टुप्
मालातृणं भ्रूस्तुणं च विषे तु गर-सङ्गरौ ।गरलोऽथ हालाहले हालहलो हलाहलः ॥ २७६ ॥
4.276 · p. 241
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 लह (syllable split)
पर्यन्तवने त्वोकण्युकणी कीटे कृमिः क्रिमिः ।लाक्षायामपि तद्भेदे नीलाङ्गुश्च नीलङ्गुवत् ॥ २७७ ॥
4.277 · p. 241
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable); pāda 4, syllable 5 नी (wrong syllable)
गण्डूपदे किञ्चुलकः किञ्चुलुकोऽपि सम्मतः ।जलसर्पिण्यां जलूका जलौका च जलौकसः ॥ २७८ ॥
4.278 · p. 241
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 लु (wrong syllable)
स्त्रियां वा भूम्नि च जलालोका प्रोक्ता जलौकसः ।पुंस्यदन्तो जलायुकास्रपाऽऽबन्ता विजन्तकः ॥ २७९ ॥
4.279 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 यु (wrong syllable)
अम्बुमात्रजशङ्खे तु शम्बुः शम्बूश्च शम्बुकः ।शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥
4.280 · p. 241
अनुष्टुप्
हिरणः कथितः प्राज्ञैर्दीर्घकोशा पुनः स्मृता ।दीर्घकोषा च दुर्नामाऽऽबन्तो नान्तो दुर्नाम्न्यपि ॥ २८१ ॥
4.281 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दु (wrong syllable)
पिपीलके पीलकोऽपि क्षुद्रजन्तौ तु धन्यजे ।कणाटीनः कटाटीनः स्याद्युकाण्डे तु लिक्षया ॥ २८२ ॥
4.282 · p. 241
अनुष्टुप्
रिक्षोद्दंशे कोलकणो मत्कुणोत्कुणकावपि ।इन्द्रगोपे त्विन्द्ररजोऽग्निकोऽथ तन्तुवायके ॥ २८३ ॥
4.283 · p. 241
अनुष्टुप्metre not read in every line
तत्न्रवाय ऊर्णनाभ उर्णनाभिश्च मर्कटः ।मर्कटको जालिकश्च जालकारकवत् कृमिः ॥ २८४ ॥
4.284 · p. 241
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable); pāda 3, syllable 3 ट (wrong syllable)
क्रिमिर्वृश्चिकेऽलि-राल्य-लालिर्द्रोणो द्रुणो द्रुतः ।भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥ २८५ ॥
4.285 · p. 241
metre not recognised
शिलामुखः, मक्षिकायां भिम्भरा भिम्भराल्यपि ।मधुरस्त्री मधूलं च, माक्षिके वरुटी पुनः ॥ २८६ ॥
4.286 · p. 241
अनुष्टुप्
वरटाऽपि च गन्धोल्यां वर्षकर्यां तु चीरिका ।चीरी चरुका चिरुका झीरुका झिल्लीकायुता ॥ २८७ ॥
4.287 · p. 241
अनुष्टुप्metre not read in every line
झिल्लो झिल्लिका झिलिका विलेपनमले तथा ।आतपस्य रुच्यपि च श्वापदे व्याड-व्यालकौ ॥ २८८ ॥
4.288 · p. 242
metre not recognised
द्विपे मतङ्ग-मातङ्गौ गजो गर्जो मतङ्गजः ।करी करिर्दन्तावलो दन्ती पेचकिपेचिलौ ॥ २८९ ॥
4.289 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्ता (wrong syllable)
हस्तिन्यां धेनुका धेनुर्वाशिता वासिता द्वयम् ।नार्यामपि कणेरुश्च गणेरुरपि तद्द्वयम् ॥ २९० ॥
4.290 · p. 242
अनुष्टुप्
वेश्यायां कर्णिकारेऽपि करेणुः स्त्रीन्रिभीभयोः ।विंशतिवर्षेभे विक्कः, पिक्कोऽपि त्रिंशदब्दके ॥ २९१ ॥
4.291 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
कलभः कडभश्च द्वौ उद्वान्तोपात्तकौ समौ ।निर्मदे राजबाह्ये त्वौपवाह्यश्चोपवाह्यवत् ॥ २९२ ॥
4.292 · p. 242
अनुष्टुप्
हस्तिदन्ते विषाणं स्याद्विषाण्यपि विषाणकः ।तन्मूले तु करीरीवत्करीरिर्नेत्रगोलके ॥ २९३ ॥
4.293 · p. 242
अनुष्टुप्
शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः ।अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥
4.295 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
वेणुकं वैणुकं, दन्त्यतालव्यादिः शृणिर्मतः ।अङ्कुशे, तदग्रेऽपष्ठं काद्द्वादशाऽक्षरान्तिमम् ॥ २९६ ॥
4.296 · p. 242
अनुष्टुप्metre not read in every line
वीते वातं यतं चोक्ते, वरत्रायां सया पया ।कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ॥
4.297 · p. 242
अनुष्टुप्
अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि ।वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत् ॥ २९८ ॥
4.298 · p. 242
metre not recognised
वामी-वनायुजा-वानायुजा-वाह्लीका-वाह्लिकाः ।पुच्छे लङ्गुलं लाङ्गुलं गतिभेदे तु धौरितम् ॥ २९९ ॥
4.299 · p. 242
metre not recognised
धौरितकं धोरणं च धौर्यं स्यान्मुखयन्त्रणे ।खलीनं खलिन-कवी कविका कवियं कविः ॥ ३०० ॥
4.300 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 4 ख (wrong syllable)
सन्नाहऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके ।रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः ॥ ३०१ ॥
4.301 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
वेसरो वेसरादश्वायां जाते, मुकयस्तथा ।मुकुयो द्वौ मृगभेदे, गर्दभ्यश्वतरात्मजे ॥ ३०२ ॥
4.302 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः ।दाशेरकः सदाशेरः उक्ष्णि शक्वर-शाक्वरौ ॥ ३०३ ॥
4.303 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ ।शण्डे षण्डोऽपीड्वरः स्यादित्वरः विद्धनासिके ॥ ३०४ ॥
4.304 · p. 243
अनुष्टुप्
नस्योतो नस्तितो नस्तोतः स-ठौ प्रष्ठ-प्रष्ठतः ।वाड, दमयो जितहलवोढ्रोरेकधुरावहे ॥ ३०५ ॥
4.305 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 ष्ठ (wrong syllable); pāda 3, syllable 3 दम (syllable split)
एकधुरीणैकधुरौ, धुर्वहे तु धुरन्धरः ।धूरीणधुर्यधौरेया धौरेयकोऽथ पृष्ठ्यके ॥ ३०६ ॥
4.306 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
स्थौरी स्थूरी स्थूली, षोडः षोडन् षोडत इत्यपि ।षड्दन्ते, सकूटे तु कुकुदे ककुदं ककुत् ॥ ३०७ ॥
4.307 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable); pāda 3, syllable 1 ष (syllables merged)
स्त्रीराट्चिह्ने शैलाग्रे श्रेष्ठेऽपि द्वयमन्तिमम् ।नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् ॥ ३०८ ॥
4.308 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह्ने (syllables merged)
शृङ्गं शृङ्गः शृङ्गी विषाणोक्ता विषाण्यपि ।विषाणं विपाणो गव्यां गौर्द्वयोरनुडुह्यहो ॥ ३०९ ॥
4.309 · p. 243
metre not recognised
अनुड्वाही तम्पा तम्बा माहेयी सहा माहया ।स्रवद्गर्भा त्ववतोका एतोका चोत्तमा च गौः ॥ ३१० ॥
4.310 · p. 243
metre not recognised
नैचेकी निचिकी नीचिकी नीचीक्यऽप्यकोपना ।सूरता सुरता सूरथा सुरथाऽथ गोकुले ॥ ३११ ॥
4.311 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता ।पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥
4.312 · p. 244
metre not recognised
बन्धने संदानोद्दाने दामा-दाम-दामो-द्दितम् ।संदितं संदानितेऽजे छगलः छागवत् छगः ॥ ३१३ ॥
4.313 · p. 244
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 सं (syllables merged)
स्तभ-स्तुभौ, युवाजे तु बर्करो बर्करी तथा ।बर्करम् मेषे तु हुडुर्हुडोऽप्युरण ऊरणः ॥ ३१४ ॥
4.314 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षे (wrong syllable)
वडूटो वरुटस्तद्वद् वरूडो वरुडोऽपि च ।भरूडो भरुडोऽप्युक्तो भरुडोऽस्थ्याशे कुक्कुरः ॥ ३१५ ॥
4.315 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शे (wrong syllable)
कुर्क्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः ।शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥ ३१६ ॥
4.316 · p. 244
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable); pāda 3, syllable 7 भ (wrong syllable)
इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ ।विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥ ३१७ ॥
4.317 · p. 244
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मह (syllable split)
श्वानकर्णे शुनस्कर्णः श्वकर्णोऽपि निगद्यते ।सैरिभे मह-महिषौ लुलायश्च लुलायुयुक् ॥ ३१८ ॥
4.318 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव- कण्ठेरवौ ।केशरी दन्त्यतालव्यः, व्याघ्रे द्वीपीव द्वीपिनः ॥ ३१९ ॥
4.319 · p. 244
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable); pāda 4, syllable 5 व (wrong syllable)
चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोष्टपात् ।गण्डके खड्गी खड्गीरः खड्गो वाध्रीणसोऽपि च ॥ ३२० ॥
4.320 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ड्गी (wrong syllable)
दन्त्यतालव्यान्तः कोले शूकरः सूकरः किरिः ।किरः ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥ ३२१ ॥
4.321 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् ।गोमायौ फेरु-फेरुण्डौ फेरवो भूरिमायवत् ॥ ३२२ ॥
4.322 · p. 244
अनुष्टुप्
भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् ।सृगालोऽपि शिवाऽऽबन्तः खिङ्खिरः खिङ्खीरा स्त्रियाम् ॥ ३२३ ॥
4.323 · p. 244
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 ङ्खी (wrong syllable)
भूम्न्युभौ तु शिवाभेदे खट्वाङ्गे वारि-वालुके ।भिक्षुभङ्गेऽपि, कीशे तु प्लवगः सप्लवङ्गमः ॥ ३२४ ॥
4.324 · p. 245
अनुष्टुप्
प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् ।मर्कटः कर्मटास्तद्वत् कुरङ्गश्च कुरङ्गमः ॥ ३२५ ॥
4.325 · p. 245
अनुष्टुप्
वातायुश्च सवातायुर्दन्त्यतालव्यपूर्वगः ।शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः ॥ ३२६ ॥
4.326 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ ।सतालव्यौ च, पृषत् पृषतो बिलशायिनी ॥ ३२७ ॥
4.327 · p. 245
metre not recognisednearly अनुष्टुप्
कन्दली नन्तो ङ्यन्तश्च कदली त्रिषु कन्दला ।हस्तायामऽश्याममृगे ऋश्य-रिश्यौ च सम्मतौ ॥ ३२८ ॥
4.328 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्तो (wrong syllable)
ऋष्य-रिष्यौ मृगभेदे, वाताभिमुखगामिनि ।मृगे वातप्रमीः पुंस्त्रीदन्तो ङीबन्तकोऽप्ययम् ॥ ३२९ ॥
4.329 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
आमि पुंसि वातप्रमी शशि वातप्रमीनिति ।ङौ वातप्रमीति रूपं ग्रामणीवच्च शोषकम् ॥ ३३० ॥
4.330 · p. 245
metre not recognised
स्त्रियामीदन्तं लक्ष्मीवद् ङीबन्तं तु नदीसमम् ।श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः ॥ ३३१ ॥
4.331 · p. 245
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्तं (wrong syllable); pāda 3, syllable 3 धि (wrong syllable)
तच्छलाकायां तु शलं शललस्त्रिषु गोधिका ।अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः ॥ ३३२ ॥
4.332 · p. 245
metre not recognised
गोधेर-गोधारौ, पल्यां गृहोली गृहगोलिका ।गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् ॥ ३३३ ॥
4.333 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः ।कृकलासे कृकुलासः सरटः सरडस्तथा ॥ ३३४ ॥
4.334 · p. 245
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 धि (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
सरण्डश्च प्रतिसूर्यः प्रतिसूर्यशयानकः ।शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च ॥ ३३५ ॥
4.335 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
उन्दरो-न्दुरो-न्दुरवः कुन्दुर्मूषी तु मूषिका ।मूषा च, गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ॥ ३३६ ॥
4.336 · p. 246
metre not recognised
ओतौ बिडालो बिलालो दरुटो दरुडान्वितः ।ह्रीको ह्लीको ह्रीकुर्ह्लीकुर्लज्जालौ नकुलोऽपि च ॥ ३३७ ॥
4.337 · p. 246
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ह्री (wrong syllable)
मार्जालीयश्च मार्जारोऽहौ भुजङ्गो भुजङ्गमः ।भुजगः सर्प-सूर्पौ च सरीसृपश्च गूढपाद् ॥ ३३८ ॥
4.338 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सृ (wrong syllable)
गूढपदो व्याल-व्याडावुरङ्गश्चोरगस्तथा ।अजगरे शयथुश्च शयालुः स्यात् शयातु षण् ॥ ३३९ ॥
4.339 · p. 246
metre not recognised
शयुर्जलसर्पे तु स्यादलीगर्दोऽलगर्दयुक् ।अलगर्द्धोऽलीगर्द्धोऽपि राजिलाऽहौ तु डुण्डुभः ॥ ३४० ॥
4.340 · p. 246
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable); pāda 3, syllable 5 ली (wrong syllable)
दण्डुभो दन्दुभो दोडो दोलोऽपि च, तिलित्सिके ।गोनासो गोनसोऽप्युक्तो घोणसः, मातुलोरगे ॥ ३४१ ॥
4.341 · p. 246
अनुष्टुप्
मालुधानोऽहिदंष्ट्रायामाश्यां-शीर्भोगके फटः ।स्फटौ द्वौ पुंस्त्रियोः प्रोक्तौ फणस्त्रिषु च दर्वीवत् ॥ ३४२ ॥
4.342 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्वी (wrong syllable)
दर्वी च कञ्चुके निर्ल्वयनी निर्लयनीयुता ।पक्षिणी पत्त्री पतत्त्री नकारान्ताविदन्तकौ ॥ ३४३ ॥
4.343 · p. 246
अनुष्टुप्
पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः ।विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४ ॥
4.344 · p. 246
अनुष्टुप्
सशकुन्तः शकुन्तिश्च शकुनिः शकुनः स्मृतः ।वकीरो विकिरश्चापि विष्कीरश्च सृपाटिका ॥ ३४५ ॥
4.345 · p. 246
अनुष्टुप्
स्मृपाटी चञ्चुश्चञ्चूवत् त्रोटिस्त्रोटी, तनूरुहे ।पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः ॥ ३४६ ॥
4.346 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्चु (wrong syllable)
पक्ष नान्तं पक्षः सान्तं द्वे षण्डे च नभोगतौ ।प्रडीनो-ड्डीन-संडीन-डयनान्यथ चाण्डके ॥ ३४७ ॥
4.347 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
पीशीकोशः पेशी-कोशौ, नीडं त्रिषु कुलायके ।केकिनि मोर-मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥
4.348 · p. 247
metre not recognised
बर्ही च बर्हिणः शिखावलः शिखी, पिके पुनः ।घोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥ ३४९ ॥
4.349 · p. 247
metre not recognisednearly अनुष्टुप्
मौकुलिर्मोकुलः काके, वनकाके तु द्रोणवत् ।द्रोणकाकः निशाटे तु कौशिकः कुशिकेऽपि च ॥ ३५० ॥
4.350 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वक्र-चक्रतः ।हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः ॥ ३५१ ॥
4.351 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्ण (wrong syllable)
धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा ।वारटा वरटा तद्वत् वरटी , खञ्जनः पुनः ॥ ३५२ ॥
4.352 · p. 247
अनुष्टुप्
खञ्जरीटः, सारसे तु लक्ष्मणो लक्षणोऽपि च ।सारस्यां लक्ष्मणा लक्ष्मणी च लक्षणया सह ॥ ३५३ ॥
4.353 · p. 247
अनुष्टुप्
क्रौञ्चे क्रुङ्शत्त्रि-शक्री च क्रौञ्च्यां क्रुङ् क्रुचया समम् ।चाषे चासः किकिदीविः किकीदीवि-किकीदिवौ ॥ ३५४ ॥
4.354 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कि (wrong syllable)
किकिः किकीः किकिदिविः दैविः, शकुनिभिद्यथ ।वर्तको वर्तवत् प्रोक्तो वर्तका वर्तिका स्त्रियाम् ॥ ३५५ ॥
4.355 · p. 247
अनुष्टुप्
कटुक्वाणे टिट्टिभः स्यात् टीटिभश्चटके पुनः ।कुलिङ्ककः कलम्बिकः चटका क्षिपकादिषु ॥ ३५६ ॥
4.356 · p. 247
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 म्बि (wrong syllable)
स्त्रियां तयोः स्त्र्यपत्येऽपि चाटकेरो नरे तुकि ।जलरङ्कौ जलरञ्जः कालात्कण्टक-कण्ठगौ ॥ ३५७ ॥
4.357 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
दात्यूहश्च सदात्योहः, कह्वे बक-बुकौ समौ ।बकोटोऽपि, बलाकायां कण्टिका-कण्ठिके बिसात् ॥ ३५८ ॥
4.358 · p. 247
अनुष्टुप्
चिल्ले आतापिरातापी आतायी नान्तकावुभौ ।कामायौ तु गृध्र-गुत्सौ दाक्षाय्यश्च दक्षाय्यवत् ॥ ३५९ ॥
4.359 · p. 247
अनुष्टुप्metre not read in every line
रामाश्रिते जटायुर्नोदन्तकः सान्तिमोऽपि च ।कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता ॥ ३६० ॥
4.360 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)