कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ग्रन्थ

granthaपुं · masc.

In 13 kośas: 7 synonym verses, 11 as a nānārtha head word, 20 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.48 · p. 444
क्लीबेऽक्षरं तु वर्णोर्णो ग्रन्थो द्वात्रिंशदक्षरी ।अपि प्रबन्धः सन्दर्भः सूत्रं सूचनकारि यत् ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.10 · p. 66
धर्मशास्त्रं स्मृतिर्धर्मसंहिता च स्त्रियावु(मु)भौ ।पञ्चाङ्गवाक्यं ग्रन्थः स्याच्छम्बुर्ना ग्रन्थविस्तरम् ।काव्यं कावा(?)च कविता रसवत्पदबन्धनम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 138
पेशी कर्कटकी च स्त्री पक्वं तत्तु पचेलिमम् ।निर्यासोऽस्त्री वृक्षरसो बीजं त्वङ्कुरकारणम् ।परु-ग्रन्थी ग्रन्थव(गु ?)ल्माः स्तः पर्व-परुषी समे ।* * * * * * * * बीजकोशी शमी शिमिः ।शिम्बिः शिम्बा चाथ सर्वं मूले पुष्पे फले भवेत् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 4 · p. 3
दीक्षितं मौण्ड्यं शिष्यं तमन्तेवासिनं विदुः ।कृतान्तागमसिद्धान्ताः ग्रन्थः शास्त्रमतः परम् ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मौ (syllables merged)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.138 · p. 33
सिद्धान्तागमराद्धान्तकृतान्ताः प्रोक्तयः श्रुतम् ।समयः प्रवचनं सूत्रं ग्रन्थः शास्त्रं च पुस्तकम् ॥ १३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.75 · p. 175
परभागः परोत्कर्षे प्रणये सान्त्वना न ना ।प्रणिपातस्त्वनुनये त्वासारश्च सुहृद्बले ।प्रबन्धे गुम्फसन्दर्भेग्रन्थाश्च रचना न ना ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.22 · p. 90
सन्दर्भस्तु प्रबन्धः स्याद्ग्रन्थो द्वात्रिंशदक्षरी ।सर्गबन्धो महाकाव्यं महारूपकनाटके ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.170
शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.844 · p. 97
दानविशेषे लब्धौ दायो भागार्हपित्र्यरिक्थे च ।लिपिसंख्यायां शास्त्रे द्रव्ये च ग्रन्थशब्दमिच्छन्ति ॥ ८४४ ॥
metre not recognised
धरणिकोश Dharaṇikośa · धरणिदास थपादः Dharaṇikośa 16.1.2 · p. 89
ग्रन्थः शास्त्रे धने चैव पार्थौ ककुभपाण्डवौ ।यूथौ जातकुरुण्टौ च गाथा वाग्भेदवृत्तयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.96 · p. 230
नील्यां च सूक्ष्मत्रुटिगश्च स स्त्रीदुःस्थोऽन्यवद्दुर्गत मूर्खवाची ।मन्थस्तु मन्थानकदृ[2b]ग्गदार्थेग्रन्थस्तु संदर्भधनप्रबन्धे ॥ ९६ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 8 दृ (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.44 · p. 24
ग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये ।वचस्यथ ग्रन्थिरिक्षुवेण्वादेः काण्डयोर्द्वयोः ॥ ४४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.3 · p. 227
गन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च ।ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते ।तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि ।तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु ।प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 1 तट (syllable split); pāda 3, syllable 4 ब (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1909 · p. 233
शास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने ।गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1912 · p. 233
द्वात्रिंशदक्षरश्लोके ग्रन्थः शास्त्रे श्रुतावपि ।भोजने कबले ग्रासो गन्धो यशसि सौरभे ॥ १९१२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.196 · p. 158
उन्माथः कूटयन्त्रेऽपि कुथः कम्बलबर्हिषोः ।काशे क्षुते च क्षवथुर्ग्रन्थो द्वात्रिंशदक्षरे ॥ १९६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.197 · p. 159
धनं च ग्रन्थना चाऽपि तीर्थं तूपाययोगयोः ।कट्यंशवणयोः प्रोथो वीथिः पङ्क्तौ गृहांशके ॥ १९७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.21 · p. 215
ग्रंथो द्रव्यं वचः शास्त्रं द्वात्रिंशद्वर्णसंचयः ।गर्भोऽपवरकेऽन्नेऽग्नौ सुते पनसकंटके ॥ २१ ॥
अनुष्टुप्
doubtful

ग्रन्थ as a meaning in nānārtha verses