All kośas › Suśīlanāmamālā
सुशीलनाममाला Suśīlanāmamālā
3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)
तिर्यग्विभागः · द्वीन्द्रियजीवनामानि
॥ इति वनस्पतिकायः समाप्तः ॥
॥ इति एकेन्द्रियजीवाः समाप्ताः ॥
* अथ द्वीन्द्रियजीवनामानि *
* कायभवकीटनामानि *
कृमिर्नीलाङ्गुनीलङ्गू शरीरान्तरवर्तिनः ।क्षुद्रकीटो बहिश्चारी पुलका उदरे बहिः ॥ २१६७ ॥
5.6.2167 · p. 356
अनुष्टुप्
* पृथ्वीभवकीटनामानि *
ख्यातो गण्डूपदः स्युर्वै भूलताऽपि महीलता ।शिली गण्डूपदी नाम गण्डुलः कथ्यते बुधैः ॥ २१६९ ॥
5.6.2169 · p. 356
अनुष्टुप्
* जलौकानामानि *
जलौका च जलालोका जलूका जलसर्पिणी ।जलौकसोऽस्त्रपाः सन्ति रक्तपाः विचकाः पुनः ॥ २१७० ॥
5.6.2170 · p. 356
अनुष्टुप्
* शुक्तिनामानि *
* शङ्खनामानि *
क्षुल्लकाः क्षुद्रशङ्खाश्च शङ्खनखास्तथैव च ।शङ्खनकास्तथा क्षुद्रकम्बवः संभवन्ति वै ॥ २१७२ ॥
5.6.2172 · p. 357
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
शम्बवः शम्बुकाश्चैव शम्बूकाः शाम्बुकाः पुनः ।नामान्येतानि मन्यन्ते जलमात्रभवानि वै ॥ २१७३ ॥
5.6.2173 · p. 357
अनुष्टुप्
* कपर्दनामानि *
वराटको हिरण्यश्च कपर्दश्च कपर्दकः ।श्वेतः पणास्थिकश्चेति नामानि कथयन्ति वै ॥ २१७४ ॥
5.6.2174 · p. 357
अनुष्टुप्
* जलूकासदृशजलचरजन्तुनामानि *
दीर्घकोशा च दुःसंज्ञा दुर्नामाऽपि कथ्यते ।दुर्नाम्नी चेति नामापि पण्डितैरिह मन्यते ॥ २१७५ ॥
5.6.2175 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्