शम्बूक
śambūkaपुं · masc.In 16 kośas: 19 synonym verses, 4 as a nānārtha head word, 4 as a meaning of another word.
मुक्तास्फोटाब्धिमण्डूकी शुक्तिः कम्बुस्तु वारिजः ॥ १२०४ ॥त्रिरेखः षोडशावर्तः शङ्खोऽथ क्षुद्रकम्बवः ।शङ्खनकाः क्षुल्लकाश्च शम्बूकास्त्वम्बुमात्रजाः ॥ १२०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
शम्बूका अपि शाम्बूका वृश्चिको द्रुत इत्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ २३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उक्ता मुक्ता मौक्तिकं शौक्तिकेयं,मुक्तास्फोटः शुक्तिराख्यायते च ।कम्बुः शङ्खः क्षुल्लकाः क्षुद्रशङ्खाः,शम्बूकास्ते स्युः कपर्दो वराटः ॥ ६६४ ॥
शालिनी
genderपुंmasc.
कुवेनिश्च कुवेनी च कुवेना च समं त्रयम् ।स्यात् शम्बूकाश्च (शम्बूका च?) शम्बूकः शम्बुकः शम्बुशाम्बुकौ ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
धान्यभेदाः कङ्गुयवाः श्यामाका वरादयः ।फलीकृतस्तण्डुलः स्याच्छम्बूकाः सूक्ष्मतद्गणाः ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (syllables merged)
genderपुंmasc.doubtful
शम्बूकस्तन्मलेऽपि स्याज्ज्येष्ठाम्बु तु तदम्बुनि ।सिंहे सुगन्धि पारीन्द्रो वृषाङ्गः पञ्चमङ्गलः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
जैमिनीयोप्यथौलूक्यः स च वैशेषिकोप्यथ ।शम्बुकश्चापि शम्बूक उभौ शूद्रसुतौ समौ ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
शम्बुकोऽपि च शम्बूकः शाम्बूकः शम्बुको दरः ।शङ्खोऽर्णवभवः कम्बुरस्त्रियां पावनध्वनिः ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्रशङ्खः शङ्खनकः शम्बूकोऽन्यो जलोद्भवः ।कृमिशङ्खश्च जलजजन्तुः कृमिजलोद्भवः ॥ १२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
तिन्दुक-शल्यक-शम्बुक-शम्बूकाः शङ्कुरङ्कभिदि ।आखुः कङ्गुः शुङ्गोगौश्च*वीचिर्मरीचिलञ्चे च ॥ १९ ॥
metre not recognised
genderपुंस्त्रीm. f.
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलमात्रजाः ।कपर्दस्तु वराटः स्यात्पणास्थिकवराटकाः ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
शम्बवः शम्बुकाश्चैव शम्बूकाः शाम्बुकाः पुनः ।नामान्येतानि मन्यन्ते जलमात्रभवानि वै ॥ २१७३ ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्रशङ्खः शङ्खनखो नखशङ्खोऽपि कुत्रचित् ।जलशुक्तिश्च शम्बूका शम्बूकः शम्बुकोऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
आस्तिकः स्यात्तथास्तीको जरुत्कारुमुनेः सुते ।जामदग्न्यः पर्शुरामस्तथा परशुरामकः ॥भार्गवः स्याद्भृगुपतिर्भृगूनां पतिरित्यपि ।अर्हणोऽर्हन् क्षीपनके शम्बूकः शम्बुके नृपे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षी (wrong syllable)
genderपुंmasc.
अम्बुमात्रजशङ्खे तु शम्बुः शम्बूश्च शम्बुकः ।शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्रशङ्खाः शङ्खनखाः शम्बूकास्त्वम्बुशुक्तयः ।मुक्तास्फोटस्तु शुक्तिः स्त्री कूर्मः कमठकच्छपौ ॥ ३३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
फलीकृतास्तण्डुलाः स्युः शम्बूकास्तत्कणाः स्त्रियः ।तन्मलं पुंसि शम्बूको ज्येष्ठाम्बु स्यात्तदम्बुनि ॥ ८९५ ॥
अनुष्टुप्
genderपुंmasc.
शम्बूकः शम्बुकश्चैव पूर्वः कान्तस्तु सर्वदा ।ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
शम्बूकशम्बुकौ स्तो दैत्यविभेदे च भेके च ।गजकुम्भमध्यभागे स्त्रीपुंसावम्बुशुक्तौ तौ ॥ ८२ ॥
metre not recognised
जलशुक्तौ तु शम्बूको द्वे शम्बूका तु सा स्त्रियाम् ।गजस्य मुखमध्यस्य पार्श्वाधोदेशयोरथ ॥ १७६८ ॥
अनुष्टुप्
meaningsजलशुक्ति
ना सूक्ष्मे तण्डुलकणे तण्डुलस्य मलेऽपि च ।शल्यकस्तु पुमाञ्छ्वेतखदिरे कदराह्वये ॥ १७६९ ॥
अनुष्टुप्
doubtful
शम्बूको गजकुम्भान्ते जलजन्तुविशेषके ।सलज्जे दैत्यभेदे च घोङ्गेऽपि शूद्रतापसे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
शम्बूक as a meaning in nānārtha verses
- धरणिकोश कम्बुस्तम्बो गुच्छे कुशादीनामप्रकाण्डद्रुमेऽपि च । कम्बू कुञ्जरशम्बूकौ कम्बुर्वलयशङ्खयोः ॥ Dharaṇikośa 22.2.2
- कोषकल्पतरु कम्बुउल्बोऽस्त्रियां स्यात्कमले जरायौ कम्बुः पुमान्स्याद्वलये गजे च । शम्बूकके स्त्री तु न शङ्खवाची जम्बूः स्त्रियां जम्बुरपि द्रुभेदे ॥ २९ ॥ Koṣakalpataru 6.24.29
- नानार्थार्णवसंक्षेप कम्बुशम्बूके चाथ कन्तुर्ना स्यात् कन्दर्पकुसूलयोः । कंशब्दार्थवति त्वेष वाच्यलिङ्गः प्रकीर्तितः ॥ १६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.168
- शब्दरत्नावली कम्बुकम्बुर्नागजशम्बूकवलये शङ्खकेऽस्त्रियाम् ॥ कम्बिः स्त्रियान्तु वंशांशे खजाकायामपि स्त्रियाम् । अथ क्लीबं शण्डकेऽस्त्रीवाच्यलिङ्गन्त्वविक्रमे ॥ Śabdaratnāvalī 7.23.2