कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्मृति

smṛtiस्त्री · fem.

In 18 kośas: 26 synonym verses, 7 as a nānārtha head word, 28 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.155 · p. 15
शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ २५० ॥षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.236 · p. 16
धृतिः संतोषः स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षः (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.6
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥
पञ्चचामरम्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.41
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे ।
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.82 · p. 73
विद्याश्चतुर्दश प्रोक्ता शिक्षा व्याकरणं ततः ।कल्पो निरुक्तं छन्दश्व ज्योतिषामयनं मतम् ।वेदाङ्गान्यङ्गिभिश्च स्यात् स्मृत्यान्वयगणेन च ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात पञ्चदश-षोडशसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 14.26 · p. 201
सप्तदश संयमाश्चाष्टादश विद्या-पुराणानि ।द्वीपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिगतानि ॥ २६ ॥
उद्गीतिः
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.36 · p. 238
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।रामेण रावणवधो रामायणमथोच्चयः ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.39 · p. 443
सृष्टिप्रलयवंशाश्च वंशानुचरितानि च ।मन्वन्तराणीत्यथ च धर्मशास्त्रं स्मृतिः स्त्रियाम् ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.10 · p. 66
धर्मशास्त्रं स्मृतिर्धर्मसंहिता च स्त्रियावु(मु)भौ ।पञ्चाङ्गवाक्यं ग्रन्थः स्याच्छम्बुर्ना ग्रन्थविस्तरम् ।काव्यं कावा(?)च कविता रसवत्पदबन्धनम् ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.150 · p. 91
कौसीद्यं मिद्धमालस्यं चिन्तश्चिन्ता च चिन्तिया ।स्त्रियां स्मृतिः पंसनं(?) स्याद्ध्यानं [न] नरि चिन्तना ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.169 · p. 26
धर्मशास्त्रं स्मृतिः शिक्षा कल्पो व्याकरणं तथा ।ज्योतिश्छन्दो निरुक्तिश्च षडङ्गानि यथाक्रमम् ॥ १६९ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.362 · p. 25
स्मृतिर्वेदार्थगुटिका मुनिवाक् धर्मसंहिता ।इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् ॥ ३६२ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.95 · p. 28
उत्कण्ठोत्कलिकौत्सुक्यं हृल्लेखारलकारती (?) ।मौनं चाजल्पनं तूष्णी[ष्णीं?] चिन्तनं स्मरणं स्मृतिः ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.363 · p. 47
स्मृतिः स्याद्धर्मशास्त्रञ्च तथा च धर्मसंहिता ।ज्ञातव्या तर्कविद्या वै आन्वीक्षिकी च या स्मृता ॥ ३६३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 क्षि (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.453 · p. 57
अथ स्वास्थ्यं च सन्तोषो धृतिः स्यात् स्मरणं स्मृतिः ।अध्यानं धीर्मतिर्बुद्धिर्मनीषा धिषणा पुनः ॥ ४५३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.361 · p. 26
स्मृतिर्धर्मसंहिता च संहिताश्रुतिजीविका ।अर्थानां विप्रकीर्णानां संक्षेपाद्ग्रहणन्तु यत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.482 · p. 34
आध्या चिन्ता स्मृतिर्ध्यानमाध्यानमपि चिन्तिते ।उत्कण्ठा स्यादुत्कलिका उत्साहोऽध्यवसायवत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.79 · p. 175
शपने दुःषमं गालिः शास्त्रे तु स्मृतिरागमः ।झलज्झला स्यादास्फाले वसनग्रन्थिरुच्चयः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.13 · p. 2
भृगुरत्रिर्वसिष्ठश्च नव ब्रह्माण इत्यमी ।स्युः संभूतिः स्मृतिः प्रीतिः क्षमा ख्यातिश्च संततिः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.264 · p. 36
चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.958 · p. 120
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 69 · p. 535
चिन्ता तु स्मृतिराध्यानं स्मरणं सस्पृहे पुनः ।उत्कण्ठोत्कलिके तस्मिन्नभिध्या तूभयोरपि ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.21 · p. 36
-----------------------------------स्मृतिः पञ्चान्तकः शार्ङ्गी गणेशो मणिबन्धगः ।गोमुखो गजकुम्भश्च ग-कारः सिंहसंज्ञकः ॥ २१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सिंहः पञ्चान्तकः शार्ङ्गी गोमुखः शूर्पकर्णकः ।गजकुम्भः स्मृतिः खान्तो ग-कारो मणिबन्धनः ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.13 · p. 88
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।साङ्ख्यं समीक्षं स्याद्दिव्यदोहदं तूपयाचितम् ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.29 · p. 85
मीमांसया पुराणेन स्मृत्या न्यायगणेन च ।आयुर्वेदो वैद्यशास्त्रं गांधर्वं गीतिशासनम् ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.12 · p. 68
श्रुतिर्वेदे च कर्णे च श्रोत्रकर्मणि च श्रुतिः ।स्मृतिरिच्छा स्मृतिर्बुद्धिर्वेदाद्या बोधिका स्मृतिः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.17 · p. 77
अनुज्ञास्पृहयोर्गत्यामुपात्स्मृत्यामुप[210b]द्रवे ।उत्पाते रुजि च प्रादो भेदे विघ्ने प्रधानके ॥ १७ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.15 · p. 87
स्मृतौ चिन्तयते चिन्तयत्यध्येति स्मरत्यपि ।ध्यायतिर्वेः क्षयेऽभेस्तु वाञ्छायां दुःस्मृतावपात् ॥ १५ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.50 · p. 212
श्रुतिस्तु वेदे निनदे ग्रहे चश्रोत्रे च वार्तासु च संप्रदिष्टा ।रतिः स्मरस्त्रीसुरतानुरागे-ष्वथानुभूतार्थमतिः स्मृतिः स्यात् ॥ ५० ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.51 · p. 212
मन्वादिशास्त्रेषु च मङ्गले तुस्पर्धाजुगुप्सागमने ऋतिः स्यात् ।वृतिस्तु वाटे वरणे सृतिस्तुस्यान्मार्गगत्योरथ घातकृत्योः ॥ ५१ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.125 · p. 20
उत्पादने चाथ सृतिर्मार्गे च गमनेऽपि च ।स्मृतिस्तु धर्मशास्त्रे स्यादुत्कण्ठाचिन्तयोरपि ॥ १२५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.189 · p. 156
सरस्वती सरिद्गौश्च सूती वन्दिनि पारदे ।स्मृतिः स्याद्धर्मशास्त्रेऽपि प्रवाहेऽपि च सन्ततिः ॥ १८९ ॥
अनुष्टुप्

स्मृति as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् आआ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः । Amarakośa 3.3.468
  • धरणिकोश मतिचितिः समूहे चित्यायां सृतिः स्यात्पद्धतौ गतौ । क्षितिर्भूक्षयवासेषु मतिर्धीच्छास्मृतिष्वपि ॥ Dharaṇikośa 15.1.2
  • धरणिकोश आआ प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये । ई रुषोक्तावखेदे च कामदेवे त्वनव्ययम् ॥ Dharaṇikośa 34.1.2
  • कोषकल्पतरु अभिसंदधातिस्मृत्यामभिसमोऽनोः संप्रतेश्चालोचने दृशि । प्रतिनेः सदृशत्वे प्रात्प्रतिज्ञामुख्ययोः समः ॥ ७० ॥ Koṣakalpataru 3.5.70
  • कोषकल्पतरु ज्ञाअपह्नवेऽपादवतोऽवमाने चेतने समः । हस्तादिनार्थव्यक्तौ च स्मृति-दर्शन-नामसु ॥ ५ ॥ Koṣakalpataru 3.5.5
  • कोषकल्पतरु ज्ञाअभेः स्मृतौ वेस्तु शास्त्रादिमतौ परिकीर्तितः । अपाज्ज्ञा निह्नुतौ तङ्वानकर्मा परगे फले ॥ ६ ॥ Koṣakalpataru 3.5.6
  • कोषकल्पतरु ध्यानिरो दृष्टौ सदा स्मृत्यामनोः प्रात्तीव्रचिन्तने । सोत्कण्ठस्मरणे तु स्यात्स्मरयत्यपि कण्ठते ॥ १६ ॥ Koṣakalpataru 3.5.16
  • कोषकल्पतरु आअ स्वल्पाभाववाचि स्यादाङ् मर्यादेषदर्थयोः । अभिव्याप्तौ क्रियायोगे स त्वङित्स्मृतिवाक्ययोः ॥ ७६ ॥ Koṣakalpataru 5.1.76
  • कोषकल्पतरु आम्आस्ताप-कोपयोरां[243a]तु स्मृति निश्चयार्थकम् । इ संबुद्धावमर्षोक्तौ विषादे च प्रकीर्तितम् ॥ ७७ ॥ Koṣakalpataru 5.1.77
  • कोषकल्पतरु एलृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु । संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥ Koṣakalpataru 5.1.79
  • कोषकल्पतरु मतिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
  • नानार्थार्णवसंक्षेप अभिज्ञाअभिज्ञा तु स्त्रियां स्मृत्यां निपुणे त्वभिधेयवत् । अन्नादो ना व्रतान्ताग्नावन्नस्यात्तरि तु त्रिषु ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 4.42
  • परमानन्दीयनाममाला आअः कृष्णे गरुडेऽथाश्च द्रुहिणे पुष्पकेतने । आ निपातः स्मृतौ वाक्ये कोपसंतापयोस्तथा ॥ ४ ॥ Paramānandīyanāmamālā 1.4
  • परमानन्दीयनाममाला तुत्विट् च वाण्यां प्रभायां च जिगीषाव्यवसाययोः । रुचौ तृट् च मता लोभतृष्णयोस्तुः स्मृतौ पुनः ॥ २३ ॥ Paramānandīyanāmamālā 1.23
  • परमानन्दीयनाममाला अतिअधि प्रश्नेऽधिके स्वामिशङ्कागर्हास्वपि स्मृतम् । अति स्मृतौ जवेऽथान्नं भक्ते भुक्तेऽपि दृश्यते ॥ १६ ॥ Paramānandīyanāmamālā 5.1.16
  • शब्दरत्नावली एए स्यात्सम्बोधनाह्वानस्मृत्यसूयानुकम्पने ॥ Śabdaratnāvalī 8.1.10
  • शब्दरत्नावली अमामा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
  • शब्दरत्नावली ?किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली अयेअयि सम्बोधने सानुनयप्रश्नानुरागयोः ॥ अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च । पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः ॥ समया निकटे मध्ये कालविज्ञायनेऽपि च । Śabdaratnāvalī 8.1.51
  • शब्दरत्नावली आःसु भृशार्थे चानुमतौ समृद्धिपूजयोरपि । आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च ॥ इः कोपेऽपि च सन्तापे दुःखभावनयोरपि । निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च ॥ दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥ Śabdaratnāvalī 8.1.59
  • शब्दरत्नाकर आआङ् ईषदर्थेऽभिविधौ सीम्नि कर्मविशेषणे । आ प्रगृह्ये स्मृतौ वाक्येऽप्यास्तु संतापकोपयोः ॥ २२५० ॥ Śabdaratnākara 5.1.2250
  • शब्दरत्नाकर स्मसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः । हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥ Śabdaratnākara 5.1.2256
  • तन्त्राभिधान गग-कारो देवि! शारङ्गी स्मृतिः पञ्चान्तकोऽपि च । घ-कारश्च महेशानि! खड्गी चैव शिवोत्तमः ॥ १४ ॥ Tantrābhidhāna 1.14
  • तन्त्राभिधान गगो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः । शार्ङ्गी पञ्चान्तको गाथा गन्धर्वः सर्वगः स्मृतिः ॥ ६३ ॥ Tantrābhidhāna 2.20.63
  • तन्त्राभिधान जलम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृका धरा । दीर्घबाहू रुचिर्हंसो नन्दी तेजः सुराधिपः ॥ ८० ॥ Tantrābhidhāna 2.25.80
  • तन्त्राभिधान डडः स्मृतिर्दारुको नन्दिरूपिणी योगिनी प्रियः । ----------------------------------- कौमारी शङ्करस्त्रासस्त्रिवक्त्रो(क्रो) नदको ध्वनिः ॥ ९५ ॥ Tantrābhidhāna 2.30.95
  • वैजयन्ती आआ प्रगृह्यः स्मृतौ वाक्य आस्तु सन्तापकोपयोः । ऐ दुःखभावने कोपे प्रत्यक्षे सन्निधावपि ॥ २ ॥ Vaijayantī 8.7.2
  • वैजयन्ती स्मसमुच्चये च वै पापे वाक्यारंभप्रसिद्धयोः । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः ॥ ७ ॥ Vaijayantī 8.7.7