कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdārṇava

शब्दार्णव Śabdārṇava

272 verses · 970 words tagged · 145 marked doubtful (dashed)

Part 3 (3/3)

इति ।

CCXVIII. Mallinātha on Meghadūta I.10

वामस्तु वक्रे रम्ये स्यात् सव्ये वामगतेऽपि च ॥ २१८ ॥
218 · p. 542

इति शब्दार्णवे ।

CCXIX. Mallinātha on Meghadūta I.11

सहायस्तु सयात्रः स्यात् ॥ २१९ ॥
219 · p. 542

इति शब्दार्णवे ।

CCXX. Mallinātha on Meghadūta I.9

हृदयं जीविते चित्ते वक्षस्याकूतहृद्ययोः ॥ २२० ॥
220 · p. 542

इति शब्दार्णवे ।

CCXXI. Mallinātha on Meghadūta I.48 and Śiśupālavadha XI.30

शरो बाणे बाणतृणे ॥ २२१ ॥
221 · p. 542

इति शब्दार्णवे ।

CCXXII. Mallinātha on Meghadūta II.8

चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः ॥ २२२ ॥
222 · p. 542

इति शब्दार्णवे ।

CCXXIII. Mallinātha on Meghadūta I.11 and Śiśupālavadha VI.32

कदल्यां च शिलीन्ध्रः स्यात् ॥ २२३ ॥
223 · p. 542

इति शब्दार्णवे ।

CCXXIV. Mallinātha on Meghadūta I.1, Kumārasambhava IV.15, Śiśupālavadha IV.29 and XV.81

गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे ॥ २२४ ॥
224 · p. 542

इति शब्दार्णवे (वः) ।

CCXXV. Mallinātha on Meghadūta I.66

दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीयेऽसितांशुके ॥ २२५ ॥
225 · p. 542

इति शब्दार्णवे ।

CCXXVI. Mallinātha on Meghadūta I.42

तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम् ॥ २२६ ॥
226 · p. 542

इति शब्दार्णवे ।

CCXXVII. Mallinātha on Meghadūta I.14, Bhānujīdīkṣita on AK II.4.61, V. D. Sharma on AK II.4.61

वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे ॥ २२७ ॥
227 · p. 542

इति शब्दार्णवे (वात्) ।

CCXXVIII. Raghunātha (R. Sharma, Kalpadrukośa of Keśava, GOS no. 42, Introduction p. xvi, note 3)

कोषो दिव्यधनेऽपि स्यात् कुड्मलासिपिधानयोः ।पनसादिफलस्यान्तः कोषः शब्दस्य सङ्ग्रहः ॥ २२८ ॥
228 · p. 543
अनुष्टुप्

इति मूर्धन्यान्ते शब्दार्णवः ।

CCXXIX. Mallinātha on Meghadūta I.60

विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि ॥ २२९ ॥
229 · p. 543

इति शब्दार्णवे ।

CCXXX. Bhānujīdīkṣita on AK I.6.615, V. D. Sharma on AK I.6.15

नीचमाक्षारणं यः स आक्रोशो मैथुनं प्रति ॥ २३० ॥
230 · p. 543

इति शब्दार्णवः ।

CCXXXI. Mallinātha on Meghadūta I.29

शृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः ।तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥
254 · p. 543
अनुष्टुप्
आस्वादे च रसं प्राहुः … ॥ २३१ ॥
231 · p. 543

इति शब्दार्णवे ।

CCXXXII. Sarvānanda on AK III.5.15

तथाच शब्दार्णवः -

आखूत्थशलभोत्थादि तत् तदुत्थानमद्वयोः ॥ २३२ ॥
232 · p. 543

CCXXXIII. Hemacandra on Abhidhānacintāmaṇi IV.127

वाचस्पतिस्तु -

हिङ्गुलस्त्वस्त्रियाम् ॥ २३३ ॥
233 · p. 543

इति ।

PART 2

CCXXXIV. Ujjvaladatta on Uṇ. IV.188

देवा विंशतिरेवैते सुरूपाः सुतपाश्च ते ॥ २३४ ॥
234 · p. 346

इति शब्दार्णवः ।

CCXXXV. Ujjvaladatta on Uṇ. III.117

तपसश्चन्द्रमाः ॥ २३५ ॥
235 · p. 346

इति शब्दार्णवः ।

CCXXXVI. Ujjvaladatta on Uṇ. IV.41

शम्बुकः शम्बुको ज्ञेयः पूर्वः कान्तस्तु सर्वदा ।ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥ २३६ ॥
236 · p. 346
अनुष्टुप्

इति शब्दार्णवः ।

CCXXXVII. Ujjvaladatta on Uṇ. III.134, Jñānendrasarasvatī on Uṇ. 414

पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः ॥ २३७ ॥
237 · p. 346

इति शब्दार्णवः ।

CCXXXVIII. Ujjvaladatta on Uṇ. IV.41

भालूकः ॥ २३८ ॥
238 · p. 346

इति शब्दार्णवः ।

CCXXXIX. Ujjvaladatta on Uṇ. IV.138

अलिर्मधुकरोऽलि च ॥ २३९ ॥
239 · p. 346

इति शब्दार्णवः ।

CCXL. Ujjvaladatta on Uṇ. II.7

हिरण्यं द्रविणं द्युम्नं रिक्थं ऋक्थं धनं वसु ॥ २४० ॥
240 · p. 346

इति शब्दार्णवः ।

CCXLI. Ujjvaladatta on Uṇ. II.103 and III.92

लोष्टं दलिः स्त्री लोष्टुर्ना स महान् दरणिर्द्वयोः ॥ २४१ ॥
241 · p. 346

इति शब्दार्णवः ।

CCXLII. Ujjvaladatta on Uṇ. IV.119

सम्पातिर्वारुणिः ख्यातो जटायुश्च जटायुषि ॥ २४२ ॥
242 · p. 346

इति शब्दार्णवः ।

CCXLIII. Ujjvaladatta on Uṇ. I.2

जटायुः स्याद्विहगेन्द्रो जटायुररुणाग्रजः ॥ २४३ ॥
243 · p. 346

इति शब्दार्णवः ।

CCXLIV. Ujjvaladatta on Uṇ. V.57

ईश्वरः शङ्करे प्रोक्तः पार्वत्यामीश्वरी च ॥ २४४ ॥
244 · p. 346

इति शब्दार्णवः ।

CCXLV. Ujjvaladatta on Uṇ. IV.124

आवारिर्हट्टवेश्मसु ॥ २४५ ॥
245 · p. 346

इति शब्दार्णवः ।

CCXLVI. Ujjvaladatta on Uṇ. I.2

उषा रात्रिस्तदन्ते च वाणस्यापि सुता तथा ॥ २४६ ॥
246 · p. 346

इति वाचस्पतिः ।

CCXLVII. Ujjvaladatta on Uṇ. III.22

इति वाचस्पतिकोशः ।

CCXLVIII. Ujjvaladatta on Uṇ. IV.129

शालिपाली स्त्रियामुभे ॥ २४८ ॥
248 · p. 346