कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · पुरवर्गः

इति भूमिवर्गः

अथ पुरवर्गः

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् ।स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।
2.2.1
अनुष्टुप्
आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥
2.2.2
अनुष्टुप्
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् ।
2.2.3
अनुष्टुप्
प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥
2.2.3
अनुष्टुप्
भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् ।
2.2.5
अनुष्टुप्
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
2.2.5
अनुष्टुप्
वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् ।चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥
2.2.6
अनुष्टुप्
चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा ।
2.2.8
अनुष्टुप्
आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥ ७ ॥
2.2.7
अनुष्टुप्
मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् ।
2.2.10
अनुष्टुप्
गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ।
2.2.11
अनुष्टुप्
कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् ॥ ८ ॥
2.2.8
अनुष्टुप्
वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः ।
2.2.13
अनुष्टुप्
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥
2.2.9
अनुष्टुप्
सौधोऽस्त्री राजसदनमुपकार्योपकारिका ।
2.2.15
अनुष्टुप्
स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् ।
2.2.16
अनुष्टुप्
स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् ।
2.2.17
अनुष्टुप्
प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥
2.2.12
अनुष्टुप्
गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे ।
2.2.19
अनुष्टुप्
अधस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥
2.2.13
अनुष्टुप्
प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् ।
2.2.21
अनुष्टुप्
वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥
2.2.14
अनुष्टुप्
गोपानसी तु वलभी छादने वक्रदारुणि ।
2.2.23
अनुष्टुप्
कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् ॥ १५ ॥
2.2.15
अनुष्टुप्
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ।
2.2.25
अनुष्टुप्
तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम् ॥ १६ ॥
2.2.16
अनुष्टुप्
कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु ।
2.2.27
अनुष्टुप्
कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥
2.2.17
अनुष्टुप्
आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी ।
2.2.29
अनुष्टुप्
सम्मार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा ॥ १८ ॥
2.2.18
अनुष्टुप्
क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् ।
2.2.31
अनुष्टुप्
समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥
2.2.19
अनुष्टुप्
ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे ।
2.2.33
अनुष्टुप्
घोष आभीरपल्ली स्यात्पक्कणः शबरालयः ॥ २० ॥
2.2.20
अनुष्टुप्