कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānaratnamālā (Halāyudha)

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)

889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)

स्वर्गकाण्डम् (1/2)

हलायुधकोशः

( अभिधानरत्नमाला )

प्रथमं स्वर्गकाण्डम्

शब्दब्रह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् ।यत्परिणामस्त्रिभुवनमखिलमिदं जयति सा वाणी ॥ १ ॥
1.1 · p. 1
आर्या
इयममरदत्तवररुचिभागुरिवोपालितादिशास्त्रेभ्यः ।अभिधानरत्नमाला कविकण्ठविभूषणार्थमुद्ध्रियते ॥ २ ॥
1.2 · p. 1
गीतिः
स्वः स्वर्गः सुरसद्म त्रिदशावासस्त्रिविष्टपं त्रिदिवम् ।द्यौर्गौरमर्त्यभुवनं नाकः स्यादूर्ध्वलोकश्च ॥ ३ ॥
1.3 · p. 1
आर्या
आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
1.4 · p. 1
शार्दूलविक्रीडितम्
असुरा दानवा दैत्या दैतेयाः सुरशत्रवः ।पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
1.6 · p. 2
metre not recognised
शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः ।पितामहो जगत्कर्ता विरञ्चिः कमलासनः ॥ ७ ॥
1.7 · p. 2
अनुष्टुप्
वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।ओङ्कारः प्रणवः प्रोक्तस्त्रयो वेदास्त्रयी स्मृताः ॥ ८ ॥
1.8 · p. 2
अनुष्टुप्
वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
ऊहस्तर्कोऽनुमानोक्तिर्मीमांसा स्याद्विचारणा ।स्मृताः कृतान्तराद्धान्तसिद्धान्तसमयाः समाः ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
1.11 · p. 2
शार्दूलविक्रीडितम्
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,कामध्वंसी व्योमकेशः कपाली ।नीलग्रीवो वह्निरेताः पिनाकी,भीमो भर्गः कृत्तिवासा वृषाङ्कः ॥ १२ ॥
1.12 · p. 2
शालिनी
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः ।गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः ॥ १३ ॥
1.13 · p. 2
अनुष्टुप्
पिनाकं स्यादजगवं प्रमथास्तु गणाः स्मृताः ।कपर्दोऽस्य जटाबन्धस्तण्डुः स्यान्नन्दिकेश्वरः ॥ १४ ॥
1.14 · p. 3
अनुष्टुप्
उमा भगवती दुर्गा चण्डी दाक्षायणी शिवा ।अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥ १६ ॥
1.16 · p. 3
अनुष्टुप्
ब्रह्माण्याद्याः स्मृताः सप्त देवतामातरो बुधैः ।चामुण्डा कर्णमोटी च चर्चा स्याद्भैरवी तथा ॥ १७ ॥
1.17 · p. 3
अनुष्टुप्
हेरम्बो लम्बोदर आखुरथो गणपतिश्च गजवदनः ।परशुधर एकदन्तो विनायको विघ्नराजश्च ॥ १८ ॥
1.18 · p. 3
आर्याmetre not read in every line
गौरीपुत्रः षण्मुखः शक्तिपाणिः,क्रौञ्चारातिः कार्त्तिकेयो विशाखः ।स्कन्दः स्वामी तारकारिः कुमारः,सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥
1.19 · p. 3
शालिनी
गाङ्गेयो ब्रह्मचारी च गुहो वर्हिणवाहनः ।महासेनो महातेजाः शरजन्मा च कथ्यते ॥ २० ॥
1.20 · p. 3
अनुष्टुप्
विष्णुः कृष्णः केशवो मञ्जुकेशी,श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।विष्वक्सेनो विश्वरूपो मुरारिः,शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
1.21 · p. 3
शालिनी
गोविन्दो धरणिधरः सुपर्णकेतु-र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।दैत्यारिर्मधुमथनो रथाङ्गपाणि-र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
1.22 · p. 4
प्रहर्षिणी
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
1.23 · p. 4
उपजातिः
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
1.24 · p. 4
अनुष्टुप्
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
1.25 · p. 4
अनुष्टुप्
चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा ।खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥
1.26 · p. 4
अनुष्टुप्
कौस्तुभो वक्षसि मणिः श्रीवत्सोऽस्य च लाञ्छनम् ।वसुदेवस्तु कथितो बुधैरानकदुन्दुभिः ॥ २७ ॥
1.27 · p. 4
अनुष्टुप्
बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बघ्नः ।सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
1.28 · p. 4
गीतिःmetre not read in every line
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
1.29 · p. 4
अनुष्टुप्
विहङ्गराजो गरुडो गरुत्मान्,तार्क्ष्यः सुपर्णीतनयः सुपर्णः ।स्याद्वैनतेयः पवनाशनाशः,सुरेन्द्रजित्कश्यपनन्दनश्च ॥ ३० ॥
1.30 · p. 4
उपजातिः
लक्ष्मीः श्रीः कमला पद्मा पद्मवासा हरिप्रिया ।क्षीरोदतनया मा च शब्दज्ञैरिन्दिरा स्मृता ॥ ३१ ॥
1.31 · p. 5
अनुष्टुप्
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
1.32 · p. 5
शार्दूलविक्रीडितम्
दर्पकः शूर्पकारातिरनङ्गो विषमायुधः ।आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥
1.33 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
मापत्यमिरजश्चैव कामपत्नी रतिः स्मृता ।अनिरुद्धश्च तत्सूनुरुषारमण इष्यते ॥ ३४ ॥
1.34 · p. 5
अनुष्टुप्
आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
1.35 · p. 5
शार्दूलविक्रीडितम्
मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः ।हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥
1.36 · p. 5
आर्या
ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः ।कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥
1.37 · p. 5
अनुष्टुप्
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
1.39 · p. 6
स्वागता
तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् ।आतपः कथ्यते रौद्रं निदाघो घर्म उच्यते ॥ ४० ॥
1.40 · p. 6
अनुष्टुप्
परिधिः परिवेषः स्यान्मण्डलं चोपसूर्यकम् ।उच्यते राहुसंस्पर्श उपराग उपप्लवः ॥ ४१ ॥
1.41 · p. 6
अनुष्टुप्
इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,सोमो राजा रोहिणीवल्लभोऽब्जः ।ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
1.42 · p. 6
शालिनी
द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः ।जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ॥ ४३ ॥
1.43 · p. 6
आर्या
चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः ।मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
1.44 · p. 6
अनुष्टुप्
अङ्कश्चिह्नमभिज्ञानं लाञ्छनं लक्ष्म लक्षणम् ।कलङ्कश्चेति विज्ञेया नातिनानार्थवाचकाः ॥ ४५ ॥
1.45 · p. 6
अनुष्टुप्
वक्रमङ्गारकं भौमं लोहिताङ्गं धरात्मजम् ।रौहिणेयं बुधं सौम्यमाहुश्चान्द्रमसायनम् ॥ ४६ ॥
1.46 · p. 6
अनुष्टुप्
वाचस्पतिराङ्गिरसो वृहस्पतिः कथ्यते गुरुर्जीवः ।धिषणस्त्रिदशाचार्यश्चित्रशिखण्डिप्रसूतश्च ॥ ४७ ॥
1.47 · p. 7
आर्या
उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः ।असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥
1.48 · p. 7
गीतिः
स्वर्भानुः सैंहिकेयश्च तमो राहुर्विधुन्तुदः ।केतवः शिखिनः प्रोक्ता आर्द्रालुब्धक उच्यते ॥ ४९ ॥
1.49 · p. 7
अनुष्टुप्
सप्तर्षयस्तु विद्वद्भिः स्मृताश्चित्रशिखण्डिनः ।कृत्तिका बहुला प्रोक्ताः पक्षस्तु बहुलोऽसितः ॥ ५० ॥
1.50 · p. 7
अनुष्टुप्
भं नक्षत्रं तारकं तारका च,ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा,दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥
1.51 · p. 7
शालिनी
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
1.52 · p. 7
शार्दूलविक्रीडितम्
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् ।आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥
1.53 · p. 7
गीतिः
शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः ।दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥
1.54 · p. 7
अनुष्टुप्
इन्द्राणी पौलोमी शची जयन्तश्च तत्सुतो ज्ञेयः ।अमरावती च नगरी नन्दनमुद्यानमिन्द्रस्य ॥ ५५ ॥
1.55 · p. 8
आर्या
पविरशनिः शतधारं वज्रं कुलिशं च भवति दम्भोलिः ।गौर्भिदुरं व्याधामः स्वरुरिन्द्रप्रहरणं तथा शम्बः ॥ ५६ ॥
1.56 · p. 8
गीतिः
स्फूर्जथुर्वज्रनिर्घोषो वज्रज्वालाऽतिभीः स्मृता ।ऋजु रोहितमिच्छन्ति बुधाः शक्रशरासनम् ॥ ५७ ॥
1.57 · p. 8
अनुष्टुप्
अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
1.58 · p. 8
अनुष्टुप्
धारासम्पात आसारो वातास्तं वारिसीकरः ।दुर्दिनं मेघतिमिरं करकः स्याद्घनोपलः ।चलन्नवाभ्रमाला च बुधैः कादम्बिनी स्मृता ॥ ५९ ॥
1.59 · p. 8
अनुष्टुप्
शम्पा चपला क्षणिका शतह्रदा ह्लादिनी तडिद्विद्युत् ।सौदामिन्यचिरांशुः प्राज्ञैरैरावती च विज्ञेया ॥ ६० ॥
1.60 · p. 8
गीतिः
ऐरावतोऽभ्रमातङ्गः स चैरावण उच्यते ।उच्चैःश्रवास्तु देवाश्वो मातलिः शक्रसारथिः ॥ ६१ ॥
1.61 · p. 8
अनुष्टुप्
सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
1.62 · p. 8
शार्दूलविक्रीडितम्
कृपीटयोनिर्दमुनाः कृष्णवर्त्माशुशुक्षणिः ।विभावसुरपांपित्तं जातवेदास्तनूनपात् ॥ ६३ ॥
1.63 · p. 9
अनुष्टुप्
वीतिहोत्रो बृहद्भानुराश्रयाशो धनञ्जयः ।हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ॥ ६४ ॥
1.64 · p. 9
अनुष्टुप्
अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
1.65 · p. 9
गीतिः
स्मृतः प्रकाश आलोक उद्द्योतश्च समास्त्रयः ।अग्नायी कथ्यते स्वाहा धूम्या स्याद्धूमसंहतिः ॥ ६६ ॥
1.66 · p. 9
अनुष्टुप्
ऊष्मा वाष्पः स्फुलिङ्गश्च कणा जिह्वास्तथार्चिषः ।अलातमुल्मुकं ज्ञेयमुल्का ज्वालास्य निर्गता ॥ ६७ ॥
1.67 · p. 9
अनुष्टुप्
भवति हिरण्या कनका रक्ता कृष्णा सुप्रभा चान्या ।अतिरक्ता बहुरूपेति सप्त सप्तार्चिषो जिह्वाः ॥ ६८ ॥
1.68 · p. 9
आर्याmetre not read in every line
एधस्तर्पणमिन्धनमेधः समिदिध्म इत्यभिन्नार्थाः ।भूतिर्भसितं भस्म क्षारं रक्षा च निर्दिष्टा ॥ ६९ ॥
1.69 · p. 9
आर्या
वनवह्निर्दवो दावो मेघवह्निरिरंमदः ।और्वः समुद्रवह्निः स्याद्वाडवो वडवामुखः ॥ ७० ॥
1.70 · p. 9
अनुष्टुप्
शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
1.71 · p. 9
आर्या
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
1.72 · p. 9
अनुष्टुप्
यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि ।नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥
1.73 · p. 10
metre not recognised
वरुणं यादसां नाथं पाशपाणिं प्रचेतसम् ।जलाधिदैवतं प्राहुः प्रत्यगाशापतिं बुधाः ॥ ७४ ॥
1.74 · p. 10
अनुष्टुप्
पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः ।पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥
1.75 · p. 10
आर्या
नभस्वान्मातरिश्वा च समीरश्च समीरणः ।सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥
1.76 · p. 10
अनुष्टुप्
कङ्कावातः सवृष्टिः स्याद्वात्या वातस्य मण्डली ।आमोदः स्यात्परिमलः सौरभ्यं च सुगन्धिता ॥ ७७ ॥
1.77 · p. 10
अनुष्टुप्
ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः ।श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥
1.78 · p. 10
आर्या
उत्तराशापतिर्यक्षः कुवेरो नरवाहनः ।गुह्यको राजराजश्च धनी पुण्यजनेश्वरः ॥ ७९ ॥
1.79 · p. 10
अनुष्टुप्
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
1.80 · p. 10
metre not recognised
अकुप्यं रूप्यहेमाख्यं कुप्यमन्यद्धनं भवेत् ।गोमहिष्यादिकं सर्वं बुधैर्जीवधनं स्मृतम् ॥ ८१ ॥
1.81 · p. 10
अनुष्टुप्
निक्षेपः स्यादुपनिधिः कथ्यते शेवधिर्निधिः ।किन्नरः स्यात्किम्पुरुषो मयुरश्वमुखस्तथा ॥ ८२ ॥
1.82 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कि (wrong syllable)
उद्यानं स्याच्चैत्ररथं विमानं चास्य पुष्पकम् ।अलका नगरी ज्ञेया पुत्रस्तु नलकूवरः ॥ ८३ ॥
1.83 · p. 11
अनुष्टुप्
विश्वकृद्विश्वकर्मा च त्वष्टा स्याद्देववर्धकिः ।नासत्यावश्विनौ दस्रौ प्रोक्तौ देवचिकित्सकौ ॥ ८४ ॥
1.84 · p. 11
अनुष्टुप्
शौद्धोदनिर्दशबलो बुद्धः शाक्यस्तथागतः सुगतः ।मारजिदद्वयवादी समन्तभद्रो जिनश्च सिद्धार्थः ॥ ८५ ॥
1.85 · p. 11
गीतिः
जिनेन्द्रो वीतरागोऽर्हन् केवली च त्रिकालवित् ।अलक्ष्मीर्निर्ऋतिर्ज्ञेया नियतिर्विधिरुच्यते ॥ ८६ ॥
1.86 · p. 11
अनुष्टुप्
यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
1.87 · p. 11
अनुष्टुप्
घृताची मेनका रम्भा उर्वशी च तिलोत्तमा ।सुकेशी मञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ॥ ८८ ॥
1.88 · p. 11
अनुष्टुप्
हेलाविलासविब्बोकलीलाललितविभ्रमाः ।स्त्रीणां शृङ्गारचेष्टाः स्युर्हावपर्यायवाचकाः ॥ ८९ ॥
1.89 · p. 11
अनुष्टुप्
बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् ।स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ ९० ॥
1.90 · p. 11
अनुष्टुप्
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
1.91 · p. 11
अनुष्टुप्
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
1.92 · p. 11
अनुष्टुप्
गीतं गानमिति प्रोक्तं वाद्यमातोद्यमिष्यते ।नृत्यं तु ताण्डवं लास्यं त्रितयं नाट्यमुच्यते ॥ ९३ ॥
1.93 · p. 12
अनुष्टुप्
तालः कालक्रियामानं लयः साम्यमुदाहृतम् ।अङ्गहारोऽङ्गविक्षेपः सूच्योऽर्थोऽभिनयः स्मृतः ॥ ९४ ॥
1.94 · p. 12
अनुष्टुप्
प्रेक्षार्थं गीतवाद्यं तु सङ्गीतमभिधीयते ।आदावेव तु यन्नाट्यं पूर्वरङ्गः स उच्यते ॥ ९५ ॥
1.95 · p. 12
अनुष्टुप्
प्रोक्ता घोषवती वीणा विपञ्ची परिवादिनी ।वल्लकी चेति तद्भेदास्तन्त्रीभेदसमुद्भवाः ॥ ९६ ॥
1.96 · p. 12
अनुष्टुप्
रङ्गः स्यान्नर्तनस्थानं मृदङ्गो मुरजः स्मृतः ।आनकः पटहो ज्ञेयो डिण्डिमः पणवस्तथा ॥ ९७ ॥
1.97 · p. 12
अनुष्टुप्
कोणो वादनदण्डः स्याद्भेरी दुन्दुभिरिष्यते ।नाट्ये राज्ञी स्मृता देवी कुमारो भर्तृदारकः ॥ ९८ ॥
1.98 · p. 12
अनुष्टुप्
भाव इत्युच्यते विद्वान् भावुको भगिनीपतिः ।आवुकस्तु पिता ज्ञेय आर्यो मारिष उच्यते ॥ ९९ ॥
1.99 · p. 12
अनुष्टुप्
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
1.100 · p. 13
उद्गीतिः
ऐन्द्री पूर्वा प्राची याम्या दिग्दक्षिणा तथाऽवाची ।स्याद्वारुणी प्रतीची कौवेरी चोत्तरोदीची ॥ १०१ ॥
1.101 · p. 13
metre not recognised
अन्तराला दिशश्चान्या विदिशः प्रदिशः स्मृताः ।उपरिष्टादुपर्यूर्ध्वं तथाधस्तादवागधः ॥ १०२ ॥
1.102 · p. 13
अनुष्टुप्
प्राचीनं प्राक् स्मृतं प्राज्ञैरुदीचीनमुदक् तथा ।प्रत्यक् चैव प्रतीचीनमपाचीनमपागिति ॥ १०३ ॥
1.103 · p. 13
अनुष्टुप्
ऐरावतः पुण्डरीकः कुमुदाञ्जनवामनाः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १०४ ॥
1.104 · p. 13
अनुष्टुप्
दिष्टः कालस्तथानेहास्तद्भेदाः स्युः कलादयः ।अहोरात्रं च विद्वद्भिः कथ्यते षष्टिनाडिकम् ॥ १०५ ॥
1.105 · p. 13
अनुष्टुप्
दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः ।प्रहरो यामः सन्ध्ये रजनीदिनयोः प्रवेशनिष्कासौ ॥ १०६ ॥
1.106 · p. 13
गीतिः
तमी तमिस्रा कथिता तमस्विनी,विभावरी नक्तमुखा च शर्वरी ।क्षपा त्रियामा क्षणदा निशीथिनी,निशा च दोषा रजनी च यामिनी ॥ १०७ ॥
1.107 · p. 13
वंशस्थम्
वसतिर्वासतेयी च श्यामा रात्रिश्च कथ्यते ।गणरात्रो निशा बह्व्यश्चिररात्रस्ततः परम् ॥ १०८ ॥
1.108 · p. 14
अनुष्टुप्
सायं दिवावसानं स्यात्प्रदोषो रजनीमुखम् ।निशीथो मध्यमा रात्रिः प्रोक्ता सा च महानिशा ॥ १०९ ॥
1.109 · p. 14
अनुष्टुप्
अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
1.110 · p. 14
आर्या
कल्यमुषः प्रत्यूषं प्रगे प्रभातं भवेद्विभातं च ।दिवसमुखं गोसर्गः प्रातर्व्युष्टं च निर्दिष्टम् ॥ १११ ॥
1.111 · p. 14
आर्या
शशिनि सिनीवाली स्याद्दृष्टे नष्टे कुहूरमावास्या ।अनुमतिरूने राका सम्पूर्णे पूर्णमासी च ॥ ११२ ॥
1.112 · p. 14
आर्या
त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः ।ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥
1.113 · p. 14
metre not recognised
चैत्रादिमासा मधुमाधवौ द्वौ,ततः परं शुक्रशुची क्रमेण ।नभोनभस्यौ कथिताविषोर्जौ,सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
1.114 · p. 14
उपजातिः
मासेन मनुष्याणां पित्र्यमहोरात्रमेकमिच्छन्ति ।अब्देन तु देवानां ब्राह्मं देवयुगसहस्राभ्याम् ॥ ११५ ॥
1.115 · p. 14
आर्याmetre not read in every line
हायनाब्दशरद्वर्षसंवत्सरसमाः समाः ।निदाघः कथ्यते ग्रीष्मो वर्षाः प्रावृट् तपात्ययः ॥ ११६ ॥
1.116 · p. 15
अनुष्टुप्
संवर्तः परिवर्तः क्षयो युगान्तो जगद्विनाशश्च ।कल्पान्तः समसुप्तिः संहारः स्यान्महाप्रलयः ॥ ११७ ॥
1.117 · p. 15
आर्या
सान्दृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ।तत्कालं तु तदात्वं स्यादुत्तरः काल आयतिः ॥ ११८ ॥
1.118 · p. 15
अनुष्टुप्
दितिरदितिर्दनुकद्रूनिकषाविनताश्च मातरः प्रोक्ताः ।दैत्यसुरदानवोरगपिशिताशनपक्षिराजानाम् ॥ ११९ ॥
1.119 · p. 15
आर्या
चन्द्रार्कावेकवाक्येन पुष्पदन्तौ प्रकीर्तितौ ।जायापती च विद्वद्भिर्जम्पती दम्पती तथा ॥ १२० ॥
1.120 · p. 15
अनुष्टुप्