All kośas › Abhidhānaratnamālā (Halāyudha)
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)
889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)
भूमिकाण्डम् (2/4)
शीनं स्त्यानं शृतं पक्वं विलीनं द्रुतमुच्यते ।मन्था मन्थश्च मन्थानो वैशाखः खजकस्तथा ॥ २७६ ॥
2.276 · p. 33
अनुष्टुप्
सन्दानं दामनी दाम पशूनां बन्धनं मतम् ।अजः प्रोक्तः स्तभो वस्तश्छागश्छगलकश्छगः ॥ २७७ ॥
2.277 · p. 33
अनुष्टुप्
वर्करः कथ्यते सद्भिः सर्वोऽपि तरुणः पशुः ।तूवरः शृङ्गहीनस्तु पुमानव्यञ्जनश्च यः ॥ २७८ ॥
2.278 · p. 33
अनुष्टुप्
अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।अविसोढमविमरीसं स्यादविदूसं च दुग्धमवेः ॥ २७९ ॥
2.279 · p. 34
आर्याmetre not read in every line
दासेरकः क्रमेलक उष्ट्रो मयरवणकरभशृङ्खलकाः ।बालेयश्चक्रीवान् खरगर्दभरासभाश्च तुल्यार्थाः ॥ २८० ॥
2.280 · p. 34
गीतिः
कौलेयकः सारमेयो भषणः श्वा च कुर्कुरः ।शुनको मृगदंशश्च बुधैः शालावृको मतः ॥ २८१ ॥
2.281 · p. 34
अनुष्टुप्
मृगव्ये कुशलः श्वा च विश्वकद्रुरिति स्मृतः ।अलर्को रोगितो ज्ञेयः शुनकी सरमोच्यते ॥ २८२ ॥
2.282 · p. 34
अनुष्टुप्
पशूनां षट्कसंख्यायां षड्गवं स्मर्यते बुधैः ।द्वित्वे च गोयुगं तेषां नामोच्चारणपूर्वकम् ॥ २८३ ॥
2.283 · p. 34
अनुष्टुप्
नीवृज्जनपदो देश उपवर्तनमिष्यते ।जनो लोकः प्रजा प्रोक्ता विषयो ग्रामसंख्यया ॥ २८४ ॥
2.284 · p. 34
अनुष्टुप्
पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् ।नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥
2.285 · p. 34
अनुष्टुप्
स्कन्धावार इति प्राज्ञै राजधानी निगद्यते ।शाखानगरमाख्यातं तथोपनगरं बुधैः ॥ २८६ ॥
2.286 · p. 34
अनुष्टुप्
विदेहा मिथिला प्रोक्ता काशिर्वाराणसी स्मृता ।अवन्त्युज्जयिनी ज्ञेया कन्यकुब्जा महोदया ॥ २८७ ॥
2.287 · p. 34
अनुष्टुप्
हस्तिनखः परिकूटं च कथ्यते गोपुरं पुरद्वारम् ।वप्रं शालं प्राकारमाहुरररं कपाटं च ॥ २८८ ॥
2.288 · p. 34
आर्या
प्रतोली विशिखा रथ्या मुखं निःसरणं स्मृतम् ।शृङ्गाटकः पथां श्लेषः संस्थानं तु चतुष्पथम् ॥ २८९ ॥
2.289 · p. 35
अनुष्टुप्
गृहभूमिस्तु वास्तुः स्याद्वाट आवेष्टको वृतिः ।गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका ॥ २९० ॥
2.290 · p. 35
अनुष्टुप्
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
2.291 · p. 35
शार्दूलविक्रीडितम्
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।अपवरकं गर्भगृहं संजवनं स्याच्चतुःशालम् ॥ २९२ ॥
2.292 · p. 35
आर्याmetre not read in every line
गृहमिष्टकादिरचितं प्रासादो देवतानरेन्द्राणाम् ।आयतनं देवानामन्येषां धनवतां हर्म्यम् ॥ २९३ ॥
2.293 · p. 35
आर्या
सुधाधवलितं सौधं कुट्टिमं बद्धभूमिकम् ।इन्द्रकोशस्तमङ्गः स्यादट्टश्चाट्टालको मतः ॥ २९४ ॥
2.294 · p. 35
अनुष्टुप्
पाकस्थानं रसवती कथ्यते तन्महानसम् ।उशन्ति शयनस्थानं वासागारं विशारदाः ॥ २९५ ॥
2.295 · p. 35
अनुष्टुप्
आवेशनं शिल्पिशाला वाजिशाला तु मन्दुरा ।पण्यविक्रयशाला स्यादापणो विपणिस्तथा ॥ २९६ ॥
2.296 · p. 35
अनुष्टुप्
कर्मशाला च कारूणामन्वासनमुदाहृतम् ।प्रपा पानीयशाला स्यात्सत्त्रशाला प्रतिश्रयः ॥ २९७ ॥
2.297 · p. 35
अनुष्टुप्
उपघ्न आश्रयः प्रोक्तो मुनीनां स्थानमाश्रमः ।मठश्च व्रतिनां स्थानं मण्डपः स्याज्जनाश्रयः ॥ २९८ ॥
2.298 · p. 36
अनुष्टुप्
वेश्मैकदेशः प्रघणः प्रघाणः स्यादलिन्दकः ।अजिरं प्राङ्गणं प्रोक्तं वेदिका च वितर्दिका ॥ २९९ ॥
2.299 · p. 36
अनुष्टुप्
द्वार्द्वारं बलजं ज्ञेयमर्गला परिघः स्मृतः ।उत्तरङ्गं मतं तिर्यक् द्वारस्योपरि दारु यत् ॥ ३०० ॥
2.300 · p. 36
अनुष्टुप्
बुधैर्वन्दनमाला तु तोरणं परिकीर्त्यते ।आरोहणं स्यात्सोपानं निःश्रेणिरधिरोहिणी ॥ ३०१ ॥
2.301 · p. 36
अनुष्टुप्
गृहावग्रहणी प्रोक्ता देहली तु मनीषिभिः ।सम्मार्जनी वर्धनी स्यात्सङ्करोऽवकरः स्मृतः ॥ ३०२ ॥
2.302 · p. 36
अनुष्टुप्
आच्छादनं स्याद्वलभी गृहाणां,गोपानसी दारु च वक्रसंस्थम् ।नीव्रं वलीकं पटलान्तमाहुः,कपोतपाली च विटङ्कसंज्ञा ॥ ३०३ ॥
2.303 · p. 36
उपजातिः
वातायनो गवाक्षश्च जालकं जालमुच्यते ।कक्षान्तरं प्रकोष्ठं च चन्द्रशाला शिरोगृहम् ॥ ३०४ ॥
2.304 · p. 36
अनुष्टुप्
स्वस्तिको वर्धमानश्च नन्द्यावर्तादयस्तथा ।विच्छन्दकविशेषाः स्युरमी भूपतिवेश्मनाम् ॥ ३०५ ॥
2.305 · p. 36
अनुष्टुप्
परिवारः परिकरः परिस्पन्दः परिग्रहः ।तथोपकरणं प्रोक्तं परिवर्हः परिच्छदः ॥ ३०६ ॥
2.306 · p. 36
अनुष्टुप्
पर्यङ्कः शयनं शय्या तल्पं च तलिनं स्मृतम् ।अपाश्रयस्तु विद्वद्भिः कथ्यते मत्तवारणः ॥ ३०७ ॥
2.307 · p. 37
अनुष्टुप्
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुथा ।नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥ ३०८ ॥
2.308 · p. 37
अनुष्टुप्
अपटी काण्डपटः स्यात्प्रतिसीरा जवनिका तिरस्करिणी ।उच्छीर्षकमुपधानं धीरैरुपवर्हमाख्यातम् ॥ ३०९ ॥
2.309 · p. 37
आर्या
चन्द्रोदयो वितानं स्यादुल्लोचः कदकस्तथा ।व्यञ्जनं तालवृन्तं च विष्टरः पीठमासनम् ॥ ३१० ॥
2.310 · p. 37
अनुष्टुप्
वेत्रासनं तथासन्दी कङ्कतं केशमार्जनम् ।पादुकानुपदीना स्यादुपानत्पादरक्षणम् ॥ ३११ ॥
2.311 · p. 37
अनुष्टुप्
दर्वी तर्दूश्च खजिका कथ्यते दारुहस्तकः ।पेटां वदन्ति मञ्जूषां कुशूलं धान्यकोष्ठकम् ॥ ३१२ ॥
2.312 · p. 37
अनुष्टुप्
अम्बरीषो भवेद्भ्राष्ट्रः कन्दुः स्वेदनिका स्मृता ।चुल्ल्यश्मन्तकमुद्ध्मानं स्मृताधिश्रयणी बुधैः ॥ ३१३ ॥
2.313 · p. 37
अनुष्टुप्
अङ्गारशकटीं प्राहुर्हसन्तीं च हसन्तिकाम् ।उखा स्थाली चरुः कुम्भी पिठरं कुण्डमुच्यते ॥ ३१४ ॥
2.314 · p. 37
अनुष्टुप्
कटाहः कर्परो ज्ञेयो भृङ्गारः कनकालुका ।शालाजिरो वर्धमानः शरावः स्मर्यते बुधैः ॥ ३१५ ॥
2.315 · p. 37
अनुष्टुप्
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
2.316 · p. 38
अनुष्टुप्
कर्करी करकः प्रोक्तो वर्धनी च गलन्तिका ।गर्गरी मन्थनी प्रोक्ता मणिकः स्यादलिञ्जरः ॥ ३१७ ॥
2.317 · p. 38
अनुष्टुप्
धान्याम्लमारनालं सन्धानं काञ्जिकं च सौवीरम् ।अभिषवमवन्तिसोमं तुषोदकं शुक्तमिच्छन्ति ॥ ३१८ ॥
2.318 · p. 38
आर्या
अन्धः कूरं भक्तं दिदीविरन्नं तथौदनो भिस्सा ।अशनं स्यादाहारः पूपापूपौ च पूपलिका ॥ ३१९ ॥
2.319 · p. 38
metre not recognised
यवागूरुष्णिका श्राणा तरला च विलेपिका ।क्षैरेयी पायसं प्रोक्तं परमान्नं च सूरिभिः ॥ ३२० ॥
2.320 · p. 38
अनुष्टुप्
मिष्टान्नं व्यञ्जनं ज्ञेयं वेषवार उपस्करः ।दधिमण्डो भवेन्मस्तु करम्भो दधिसक्तवः ॥ ३२१ ॥
2.321 · p. 38
अनुष्टुप्
दाधिकं संस्कृतं दध्ना सार्पिषं सर्पिषा स्मृतम् ।लवणोदकसंसिद्धमुदलावणिकं मतम् ॥ ३२२ ॥
2.322 · p. 38
अनुष्टुप्
अङ्गारेषु विपक्वं मांसं भूतिर्भरूटकं भृष्टम् ।उख्यमुखासंसिद्धं शूले शूल्यं भटित्रं च ॥ ३२३ ॥
2.323 · p. 38
metre not recognised
किलाटः कूर्चिका चेति क्षीरस्य विकृती उभे ।फाणितविकृतिर्गौडी मत्स्यण्डी खण्डशर्कराः ॥ ३२४ ॥
2.324 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
वल्भनमभ्यवहारः प्रत्यवसानं च जेमनं जग्धिः ।खादनमशनं भक्षणमाहारो भोजनं स्वदनम् ॥ ३२५ ॥
2.325 · p. 39
आर्या
पर्य्याप्तमुपसम्पन्नं तृप्तिः सौहित्यमुच्यते ।विघसो भुक्तशेषं स्याद्भुक्तोच्छिष्टं तु फेलिका ॥ ३२६ ॥
2.326 · p. 39
अनुष्टुप्
अमत्रं भाजनं पात्रं स्थालं तुल्यार्थमिष्यते ।गल्वर्कश्चानुतर्षश्च चषकः सरकः स्मृतः ॥ ३२७ ॥
2.327 · p. 39
अनुष्टुप्
आपानं पानगोष्ठी स्यात्सपीतिः सहपानकम् ।उपदंशावदंशौ च चक्षणं सम्प्रचक्षते ॥ ३२८ ॥
2.328 · p. 39
अनुष्टुप्
मध्वासवः शीधु सुरा प्रसन्ना,परिस्रुता स्यान्मदिरा मदिष्ठा ।कादम्बरी स्वादुरसा च शुण्डा,गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
2.329 · p. 39
उपजातिः
कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् ।माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥
2.330 · p. 39
अनुष्टुप्
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।पुमान्पञ्चजनो ना च पुरुषः पूरुषश्च विट् ॥ ३३१ ॥
2.331 · p. 39
अनुष्टुप्
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
2.332 · p. 39
शालिनी
बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः ।विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ॥ ३३३ ॥
2.333 · p. 40
अनुष्टुप्
प्रेक्षा प्रज्ञा प्रतिभा धीर्धिषणा शेमुषी मनीषा च ।बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धिः ॥ ३३४ ॥
2.334 · p. 40
आर्या
चतुरः स्यात्क्षेत्रज्ञः कृतहस्तः कृतमुखश्च कृतकर्मा ।दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च ॥ ३३५ ॥
2.335 · p. 40
गीतिः
वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
2.336 · p. 40
अनुष्टुप्
अर्वाणमणकमपसदमवममवद्यं निकृष्टमपकृष्टम् ।अधमं चेलं काण्डं खेटं पापं च रेफसं प्राहुः ॥ ३३७ ॥
2.337 · p. 40
गीतिः
ऐकागारिकतस्करदस्युप्रतिरोधकाः परास्कन्दी ।चौरो मलिम्लुचः स्यात्परिमोषी पारिपन्थिकः स्तेनः ॥ ३३८ ॥
2.338 · p. 40
गीतिः
पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः ।द्रव्यं ह्यपहृतं लोप्त्रं स्तेयं चौर्यमिति स्मृतम् ॥ ३३९ ॥
2.339 · p. 40
अनुष्टुप्
पाटच्चरः पटचौरो बद्धो नद्धश्च संयतः ।क्षेमङ्करो रिष्टतातिः शिवतातिः शिवङ्करः ॥ ३४० ॥
2.340 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
परवांस्तु पराधीनो निघ्नः परवशस्तथा ।परतन्त्रः परायत्तः परच्छन्दश्च गृह्यकः ॥ ३४१ ॥
2.341 · p. 40
अनुष्टुप्
कठोरः कठिनः क्रूरः कक्खटः कर्कशो दृढः ।उच्यते बहुलः स्थूलः पीनः पीवा च पीवरः ॥ ३४२ ॥
2.342 · p. 40
अनुष्टुप्
अर्यः परिवृढः स्वामी प्रभुर्नेता च नायकः ।अधिभूरधिपः प्रोक्तो ह्यधीशोऽधिपतिस्तथा ॥ ३४३ ॥
2.343 · p. 41
अनुष्टुप्
तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती ।रजोहरणधारी च श्वेतवासाः सिताम्बरः ॥ ३४४ ॥
2.344 · p. 41
अनुष्टुप्
नग्नाटो दिग्वासाः क्षपणः श्रमणश्च जीवको जैनः ।आजीवो मलधारी निर्ग्रन्थः कथ्यते सद्भिः ॥ ३४५ ॥
2.345 · p. 41
आर्या
दुर्जनः पिशुनः क्षुद्रो नीचः कर्णेजपः खलः ।दोषग्राही पुरोभागी द्विजिह्वो मत्सरी मतः ॥ ३४६ ॥
2.346 · p. 41
अनुष्टुप्
कदर्यहीनकीनाशकिम्पचानमितम्पचाः ।कृपणक्षुल्लकक्लीवक्षुद्रा एकार्थवाचकाः ॥ ३४७ ॥
2.347 · p. 41
अनुष्टुप्
क्षुद्रदरिद्राकिञ्चनदुर्विधदुःस्थाश्च दुर्गताः प्रोक्ताः ।इतरप्राकृतपामरपृथग्जना वर्वराश्च तुल्यार्थाः ॥ ३४८ ॥
2.348 · p. 41
गीतिः
दाण्डाजिनिकः कुहकः कार्पटिको जालिकश्च कौसृतिकः ।धूर्तो व्यंसक उक्तो मायावी मायिको मायी ॥ ३४९ ॥
2.349 · p. 41
आर्या
आद्यूनः स्यादौदरिको भक्षको घस्मरोऽद्मरः ।तमसेचनकं प्राहुस्तृप्तिर्यस्य न जायते ॥ ३५० ॥
2.350 · p. 41
अनुष्टुप्
परान्नः परपिण्डादः परजातः परैधितः ।सर्वान्नीनः सर्वभक्षो मांसादी शौष्कलः स्मृतः ॥ ३५१ ॥
2.351 · p. 41
अनुष्टुप्
उच्यते प्रवणः प्रह्वस्तत्परश्च परायणः ।व्युत्पन्नः प्रहतः क्षुण्णः संस्कृतश्च निगद्यते ॥ ३५२ ॥
2.352 · p. 42
अनुष्टुप्
लोलुभं लोलुपं लोलं लालसं लम्पटं विदुः ।प्रतूर्णस्त्वरितस्तूर्ण उत्सुकः प्रसृतः स्मृतः ॥ ३५३ ॥
2.353 · p. 42
अनुष्टुप्
शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् ।दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ॥ ३५४ ॥
2.354 · p. 42
अनुष्टुप्
क्षुभितः शङ्कितश्चेति नातिनानार्थवाचकाः ।महोत्साहो महोद्योगो महेच्छः स्यान्महामनाः ॥ ३५५ ॥
2.355 · p. 42
अनुष्टुप्
उदात्तश्च तथोदीर्णो महात्मोदार उच्यते ।आढ्यः समृद्धो धनवानिन ईशो धनीश्वरः ॥ ३५६ ॥
2.356 · p. 42
अनुष्टुप्
अभ्यागारिकमिच्छन्ति कुटुम्बव्यापृतं जनाः ।पान्थोऽध्वगोऽध्वनीनः स्यादध्वन्यः पथिकस्तथा ॥ ३५७ ॥
2.357 · p. 42
अनुष्टुप्
जङ्घालो जवनो वेगी पाथेयं शम्बलं स्मृतम् ।आवेशिकः प्राघुणक आगन्तुरतिथिः स्मृतः ॥ ३५८ ॥
2.358 · p. 42
अनुष्टुप्
आतिथेयं तथातिथ्यमातिथेयी च कथ्यते ।अर्थी मार्गणकः प्रोक्तो याचकश्च वनीपकः ॥ ३५९ ॥
2.359 · p. 42
अनुष्टुप्
अध्येषणैषणा याच्ञा याचना प्रार्थना स्मृता ।क्षुद्वान्बुभुक्षितः प्सातो जिघत्सुः क्षुधितस्तथा ॥ ३६० ॥
2.360 · p. 42
अनुष्टुप्
अशनाया बुभुक्षा प्सा जिघत्साक्षुत्क्षुधाः समाः ।कोपनः क्रोधनः क्रोधी रोषणः स्यादमर्षणः ॥ ३६१ ॥
2.361 · p. 43
अनुष्टुप्
कोपः क्रोधस्तथामर्षो रोषः प्रतिघ उच्यते ।तृषितस्तर्षितः प्रोक्तः पिपासुश्च पिपासितः ॥ ३६२ ॥
2.362 · p. 43
अनुष्टुप्
उदन्या तर्षतृट्तृष्णापिपासाश्च समाः स्मृताः ।तृष्णको गर्धनो गृध्नुर्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३६३ ॥
2.363 · p. 43
अनुष्टुप्
तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते ।अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
2.364 · p. 43
अनुष्टुप्
दासो दासेरकश्चेटो भुजिष्यः किङ्करो मतः ।श्लक्ष्णो मधुरवाक् प्रोक्तः स्थूललक्षो बहुव्ययी ॥ ३६५ ॥
2.365 · p. 43
अनुष्टुप्
प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः ।भवेदक्षिगतो द्वेष्यः प्रणाय्योऽसम्मतो मतः ॥ ३६६ ॥
2.366 · p. 43
अनुष्टुप्
चक्षुष्यः सुभगो ज्ञेयो वल्लभो दयितः प्रियः ।गेहेनर्दी गेहेशूरः पिण्डीशरश्च कथ्यते ॥ ३६७ ॥
2.367 · p. 43
अनुष्टुप्metre not read in every line
स्थानस्थो यो परान् द्वेष्टि गोष्ठश्वं तं विदुर्बुधाः ।असौ पञ्चजनीनः स्याद्यो भाण्डादिरतो नरः ॥ ३६८ ॥
2.368 · p. 43
अनुष्टुप्
वैरङ्गिको विरागार्हो धनवानस्तिमान्मतः ।प्रेष्यः प्रोक्तः परिस्कन्दः कर्मशूरश्च कर्मठः ॥ ३६९ ॥
2.369 · p. 43
अनुष्टुप्
अलङ्कर्मीण इत्युक्तः कर्मशीलस्तु यः पुमान् ।उत्तालस्त्वरितो ज्ञेयो विश्रब्धः स्थिर उच्यते ॥ ३७० ॥
2.370 · p. 43
अनुष्टुप्
तीक्ष्णोपायेन योऽन्विच्छेत्स आयःशूलिको मतः ।अरुन्तुदः स्याद्व्यथको वियातो धृष्ट उच्यते ॥ ३७१ ॥
2.371 · p. 44
अनुष्टुप्
शरारुर्घातको हिंस्रो नृशंसः क्रूरकर्मकृत् ।साधुः सज्जन आर्यः स्याद्गृहमेधी गृहाधिपः ॥ ३७२ ॥
2.372 · p. 44
अनुष्टुप्
कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान् ।चिद्रूपः स्यात्सहृदयः सहस्तः शिक्षितायुधः ॥ ३७३ ॥
2.373 · p. 44
अनुष्टुप्
समुखः स खलु प्रोक्तो यो वक्ति प्रतिभान्वितः ।नीलीरागः स विज्ञेयः स्थिरप्रेमा च यः पुमान् ॥ ३७४ ॥
2.374 · p. 44
अनुष्टुप्
क्षणमात्रानुरागी च हरिद्राराग उच्यते ।शाली श्रेयानधृष्टौ च प्रोक्तौ शालीनशारदौ ॥ ३७५ ॥
2.375 · p. 44
अनुष्टुप्
दूरार्थानर्थसन्दर्शी दीर्घदृष्टिः प्रकीर्तितः ।प्रत्युत्पन्नमतिर्ज्ञेयस्तत्कालोत्पन्नधीर्नरः ॥ ३७६ ॥
2.376 · p. 44
अनुष्टुप्
यद्भविष्यो दैवपरो यद्वदः स्यादनुत्तरः ।अज्ञो मातृमुखः प्रोक्तो दुर्मुखो मुखरः स्मृतः ॥ ३७७ ॥
2.377 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
कद्वदो गर्ह्यवादी स्यात्कट्वरः कुत्सितो भवेत् ।प्रकाण्डोद्धौ प्रशंसायामाक्षेपे हतकः स्मृतः ॥ ३७८ ॥
2.378 · p. 44
अनुष्टुप्
अहंयुः स्यादहङ्कारी शुभंयुः शुभसंयुतः ।यथाकामी स्वरुचिः स्यात्स्वच्छन्दो निरवग्रहः ॥ ३७९ ॥
2.379 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
अन्वेष्टानुपदी प्रोक्तः प्रतिभूर्लग्नकः स्मृतः ।रोगादुन्मुक्त उल्लाघः कल्यो वार्त्तो निरामयः ॥ ३८० ॥
2.380 · p. 44
अनुष्टुप्
जैवातृकः स्यादायुष्मान् बलवानंसलो मतः ।जाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥
2.381 · p. 44
अनुष्टुप्
वेश्यापतिर्भुजङ्गः स्याद्विटः पल्लवकः स्मृतः ।विहस्तो व्याकुलः प्रोक्तः कुण्ठो मन्दः क्रियासु यः ॥ ३८२ ॥
2.382 · p. 45
अनुष्टुप्
क्रियावान्कर्मसूद्युक्तो दीर्घसूत्रो जडक्रियः ।निकृतो विप्रलब्धः स्यात्समुन्नद्धोऽतिगर्वितः ॥ ३८३ ॥
2.383 · p. 45
अनुष्टुप्
प्रतीक्ष्यः कथ्यते पूज्यः पूजितोऽपचितो भवेत् ।ईर्ष्यालुः कुहनः प्रोक्तो जारो ह्युपपतिः स्मृतः ॥ ३८४ ॥
2.384 · p. 45
अनुष्टुप्
सरलो दक्षिणो ज्ञेयो विदग्धश्छेक उच्यते ।उत्पश्यमुन्मुखं विद्यान्न्युब्जं विद्यादधोमुखम् ॥ ३८५ ॥
2.385 · p. 45
अनुष्टुप्
आसीन उपविष्टः स्यादूर्ध्वं ऊर्ध्वन्दमः स्थितः ।क्षीवो मत्तः क्षमः शक्तः प्रगल्भः प्रौढ उच्यते ॥ ३८६ ॥
2.386 · p. 45
अनुष्टुप्
उत्क उत्कण्ठितः प्रोक्तो विक्लवो विह्वलः स्मृतः ।अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥
2.387 · p. 45
अनुष्टुप्
पोगण्डो विकलाङ्गः स्याल्लोहलोऽव्यक्तवाग्भवेत् ।कितवः स्याद्द्यूतकारो द्यूतमक्षवती भवेत् ।अक्षो दुरोदरं प्रोक्तं सभिको द्यूतकारकः ॥ ३८८ ॥
2.388 · p. 45
अनुष्टुप्
परीक्षकः कारणिको गृह्यः पक्ष उदाहृतः ।अभिजातः कुलीनः स्यात्कुचरः कुटिलाशयः ॥ ३८९ ॥
2.389 · p. 45
अनुष्टुप्
निषादिनो गजारोहा अश्वारोहास्तु सादिनः ।रथिनः स्यन्दनारोहा नावारोहास्तु नाविकाः ॥ ३९० ॥
2.390 · p. 45
अनुष्टुप्
ब्राह्मणो वाडवो विप्रो भूमिदेवो द्विजोत्तमः ।अग्रजन्मा द्विजन्मा च षट्कर्मा सोमपा द्विजः ॥ ३९१ ॥
2.391 · p. 46
अनुष्टुप्
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।शूद्रस्तुरीयवर्णः स्यात्तद्भेदास्वन्त्यजाः स्मृताः ॥ ३९२ ॥
2.392 · p. 46
अनुष्टुप्
ब्रह्मचार्यादयो वेदे प्रोक्ताश्चत्वार आश्रमाः ।शूद्रोऽगृहस्थ एव स्यात्क्षत्रियो न यतिर्भवेत् ॥ ३९३ ॥
2.393 · p. 46
अनुष्टुप्
ब्रह्मचारी भवेद्वर्णी गृहस्थः स्नातकस्तथा ।वैखानसो वानप्रस्थः कर्मसंन्यासिको यतिः ॥ ३९४ ॥
2.394 · p. 46
अनुष्टुप्
अनूचानः सर्ववेदः श्रोत्रियश्छान्दसो मतः ।प्रख्यातात्पितुरुत्पन्न आमुष्यायण इष्यते ॥ ३९५ ॥
2.395 · p. 46
अनुष्टुप्