समाख्या
samākhyāस्त्री · fem.In 5 kośas: 5 synonym verses.
genderस्त्रीfem.
विदुराम्रेडितं प्राज्ञा द्विस्त्रिर्व्याहरणं च यत् ।कीर्तिः श्लोको यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
समाख्या कीर्त्तनाऽपि स्यात्समाज्याऽपि समज्यया ।त्रिषूत्तरे स्युर्वाग्भेदा रुशती त्वशुभा च वाक् ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ कीर्तिः समाख्या स्याद् श्लोकोऽभिख्या यशस्तथा ।समाज्ञा रुशती वाणी सर्वथा याऽशुभा भवेत् ॥ ३९५ ॥
अनुष्टुप्
genderस्त्रीfem.
कीर्तिर्यशः समाख्या स्यात् समाज्ञा कीर्तनापि च ।स्यादभिख्या समज्ञा च समज्यापि च कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.