कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समाज्ञा

samājñāस्त्री · fem.

In 8 kośas: 8 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.273 · p. 15
श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा रुशती पुनः ।अशुभा वाक्शुभा कल्या चर्चरी चर्भटी समे ॥ २७३ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर देवकाण्डः Abhidhānacintāmaśiloñcha 2.22 · p. 1
समाख्यापि समाज्ञावद्रुशतीवद्रिशत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.85 · p. 448
श्लोकः पुंसि यशः क्लीबे अभिख्या स्यात्समज्ञया ।यशः क्लीबे स्त्रियां कीर्तिः समाख्याता समाज्ञया ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.40 · p. 69
श्लोको वर्णो ना यशोऽन्ते समाज्ञा-भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः ।श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्चस्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥
शालिनी
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.189 · p. 28
क्षारणा रतशापे स्यादाशीः परसुभाषणम् ।कीर्तिर्यशः समाज्ञा चाभिख्याम्रेडितमेव तत् ॥ १८९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.126 · p. 32
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.395 · p. 50
अथ कीर्तिः समाख्या स्याद् श्लोकोऽभिख्या यशस्तथा ।समाज्ञा रुशती वाणी सर्वथा याऽशुभा भवेत् ॥ ३९५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.374 · p. 27
कीर्तिर्यशः समाख्या स्यात् समाज्ञा कीर्तनापि च ।स्यादभिख्या समज्ञा च समज्यापि च कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.

समाज्ञा as a meaning in nānārtha verses