कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānaratnamālā (Halāyudha)

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)

889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)

स्वर्गकाण्डम् (2/2)

द्यावाभूमी च रोदस्यौ रोदसी रोदसीति च ।कशिपुर्भोजनाच्छादावौशीरं शयनासने ॥ १२१ ॥
1.121 · p. 15
अनुष्टुप्
श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
1.122 · p. 15
अनुष्टुप्
प्रमोदप्रमदौ हर्षः प्रीतिरुत्कर्ष उद्धवः ।सम्मदो मुत्तथानन्दः शर्म जोषं च शं सुखम् ॥ १२३ ॥
1.123 · p. 15
अनुष्टुप्
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
1.124 · p. 15
आर्या
सनातनं ध्रुवं नित्यं शाश्वतं स्यादनश्वरम् ।धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
1.125 · p. 16
अनुष्टुप्
इष्टानिष्टफलं प्राज्ञैः स्मृतं दैवमयानयम् ।भागधेयं तथा भाग्यं विपाको भवितव्यता ॥ १२६ ॥
1.126 · p. 16
अनुष्टुप्
उपलिङ्गमरिष्टं स्यादुपसर्ग उपद्रवस्तथोत्पातः ।ईतिरजन्यं च बुधैर्डमरो डिम्बश्च विप्लवः कथितः ॥ १२७ ॥
1.127 · p. 16
गीतिः
अर्चा पूजा सपर्या स्यादुपहारो बलिः स्मृतः ।प्रणिधानं समाधानं समाधिश्च समास्त्रयः ॥ १२८ ॥
1.128 · p. 16
अनुष्टुप्
वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् ।सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥
1.129 · p. 16
गीतिः
प्रतिबिम्बं प्रतिरूपं प्रतिमानं प्रतिकृतिं प्रतिच्छन्दम् ।प्रतिकायं च प्रतिनिधिमाहुः प्रतियातनां प्रतिच्छायाम् ॥ १३० ॥
1.130 · p. 16
गीतिः
अर्चा तु प्रतिमा प्रोक्ता हरिणी स्याद्धिरण्मयी ।अन्यलोहमयी प्राज्ञैः सूर्मी स्थूणा च कथ्यते ॥ १३१ ॥
1.131 · p. 16
अनुष्टुप्
शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते ।विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥
1.132 · p. 16
अनुष्टुप्
भुवनं विष्टपं लोको जगदेकार्थवाचकाः ।अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥
1.133 · p. 16
अनुष्टुप्
असवो जीवितं प्राणा जीवो जीवा च कथ्यते ।क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः ॥ १३४ ॥
1.134 · p. 16
अनुष्टुप्
मन्दारपारिजातकहरिचन्दनकल्पवृक्षसन्तानाः ।पञ्चैते सुरतरवो मेरुः सुरपर्वतो ज्ञेयः ॥ १३५ ॥
1.135 · p. 17
आर्या
शक्रक्रीडाचलो मेरुः सुमेरुर्हेमपर्वतः ।रत्नसानुरिति ख्यातो हेमाद्रिस्त्रिदशालयः ॥ १३६ ॥
1.136 · p. 17
अनुष्टुप्
नभो मरुद्वर्त्म वियद्विहाय-स्तारापथः पुष्करमन्तरिक्षम् ।व्योमाम्बरं विष्णुपदं च खं द्यौ-र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
1.137 · p. 17
उपजातिः
ह्रादो नादः शब्दः स्वानो ध्वानः स्वरो रवो घोषः ।अभिधानव्याहारोदीरणकथनादयस्तु तद्भेदाः ॥ १३८ ॥
1.138 · p. 17
गीतिः
कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ।उच्चावचमिति प्रोक्तमनिबद्धं तु यद्वचः ॥ १३९ ॥
1.139 · p. 17
अनुष्टुप्
उच्चैस्तरो ध्वनिस्तारो मन्द्रो गम्भीर उच्यते ।कलश्च मधुरोऽव्यक्तो विक्रुष्टो निष्ठुरो मतः ॥ १४० ॥
1.140 · p. 17
अनुष्टुप्
सान्त्वं स्यान्मधुरं वाक्यं प्रियं सत्यं च सूनृतम् ।ख्यातं म्लिष्टमविस्पष्टमबद्धं वियुतार्थकम् ॥ १४१ ॥
1.141 · p. 17
अनुष्टुप्
तूर्णोदितं निरस्तं स्याद् ग्रस्तं लुप्तपदं स्मृतम् ।अम्बूकृतं सनिष्ठीवं ग्राम्यमश्लीलमुच्यते ॥ १४२ ॥
1.142 · p. 17
अनुष्टुप्
भिन्नकण्ठो ध्वनिर्धीरैः काकुरित्यभिधीयते ।समासप्रायमाख्यातं पदजातं च तण्डकम् ॥ १४३ ॥
1.143 · p. 17
अनुष्टुप्
ऋतं सत्यं समीचीनं सम्यक् तथ्यं यथातथम् ।अलीकं वितथं मिथ्या मृषा स्यादनृतं तथा ॥ १४४ ॥
1.144 · p. 18
अनुष्टुप्
अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः ।विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥
1.145 · p. 18
अनुष्टुप्
चटु चाटु प्रियं वाक्यं हृद्यार्थं हृदयङ्गमम् ।वार्त्तोदन्तः प्रवृत्तिश्च वृत्तान्तश्च समाः स्मृताः ॥ १४६ ॥
1.146 · p. 18
अनुष्टुप्
अनादिवार्त्ता ह्यैतिह्यं किंवदन्ती जनश्रुतिः ।कौलीनं जनवादः स्याद्विगानं वचनीयता ॥ १४७ ॥
1.147 · p. 18
अनुष्टुप्
अपवाद उपक्रोशो निर्वादावर्णवादपरिवादाः ।एकार्थाः कथ्यन्ते गर्हा निन्दा जुगुप्सा च ॥ १४८ ॥
1.148 · p. 18
आर्या
शाप आक्रोश आक्षेपः क्षारणा स्याद्विरूक्षणम् ।स्मृताः सोल्लुण्ठसोत्प्रासोपहासाः समास्त्रयः ॥ १४९ ॥
1.149 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अनुलापो मुहुर्भाषा प्रलापोऽनर्थकं वचः ।काक्वा वर्णनमुल्लापः संलापो भाषणं मिथः ॥ १५० ॥
1.150 · p. 18
अनुष्टुप्
मर्मरः शुष्कपर्णानां विस्फारो धनुषां ध्वनिः ।वृंहितं वारणानां च हेषा ह्रेषा च वाजिनाम् ॥ १५१ ॥
1.151 · p. 18
अनुष्टुप्
आख्या संज्ञाभिधाह्वानं नामधेयं च नाम च ।आख्यायिका कथाख्यानं प्रह्वलीका प्रहेलिका ॥ १५२ ॥
1.152 · p. 18
अनुष्टुप्
विदुराम्रेडितं प्राज्ञा द्विस्त्रिर्व्याहरणं च यत् ।कीर्तिः श्लोको यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः ॥ १५३ ॥
1.153 · p. 18
अनुष्टुप्
प्रश्नः स्यादनुयोगः पर्यनुयोगो भवेदुपालम्भः ।आकारणमाह्वानं कथयन्त्यभिमन्त्रणं प्राज्ञाः ॥ १५४ ॥
1.154 · p. 19
आर्या
तत्रभवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये ।पादा इति नामान्ते देवो भट्टारको वापि ॥ १५५ ॥
1.155 · p. 19
आर्या