कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

स्वर्गस्कन्धः · ब्रह्मप्रकाण्डः

धाता सुरासुरगुरुपर्यायः प्रपितामहः ।चतुराननपर्यायो विरिञ्चिर्द्रुहिणो विधिः ॥ १ ॥
3.2.1 · p. 439
अनुष्टुप्
स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः ।स्वभूः कञ्जोऽब्जपर्याययोन्यर्थः सर्वतोमुखः ॥ २ ॥
3.2.2 · p. 439
अनुष्टुप्
विरञ्चो विश्वसृड्ब्रह्मा स्त्रियां संजश्चिरन्तनः ।अष्टश्रवाः शतधृतिः पद्मपर्यायलाञ्छनः ॥ ३ ॥
3.2.3 · p. 439
अनुष्टुप्
सनाद्धंसरथो विश्वसृगर्थः कमनोऽपि च ।पुराणगीर्वेदगर्भो धरुजो द्रुघणः पुनः ॥ ४ ॥
3.2.4 · p. 439
अनुष्टुप्
अजो जन्युः सामयोनिः शम्भुनाभिज आपचः ।विश्वरेताः सदानन्दो भूतात्मा सनदव्ययम् ॥ ५ ॥
3.2.5 · p. 439
अनुष्टुप्
वेदीशो मृगयुः प्राण आ विरञ्च्यो विरञ्चनः ।भवान्तकृदजो हंसपर्यायाद्वाहनार्थकः ॥ ६ ॥
3.2.6 · p. 439
अनुष्टुप्
कुशकेतुर्भाववृत्तो नाभिर्ना शाश्वतः कविः ।पुराणगीतः स्थविरः प्रपूज्यः कस्ततः पुनः ॥ ७ ॥
3.2.7 · p. 439
अनुष्टुप्
आत्मस्वयंस्वपद्मानां पर्यायेभ्यो भुवोर्थकः ।उर्वेधाश्चापि कंजारस्तत्पुत्रा मानसा इमे ॥ ८ ॥
3.2.8 · p. 439
अनुष्टुप्
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।भृगुर्दक्षः प्रचेताश्च वसिष्ठो नारदस्तथा ॥ ९ ॥
3.2.9 · p. 439
अनुष्टुप्
सनकाद्या अपि च ते योगिनो बालरूपिणः ।मारीचः कश्यपस्त्र्यक्षोऽथास्य पत्न्यस्त्रयोदश ॥ १० ॥
3.2.10 · p. 440
अनुष्टुप्
अदितिश्च दितिश्चापि दनुः कालादनायुषा ।सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वशा ॥ ११ ॥
3.2.11 · p. 440
अनुष्टुप्
कद्रूश्च विनता चैता दाक्षायण्योऽथ तत्प्रजाः ।दैत्या देवाः खगा नागा गावोऽश्वाद्या अनेकशः ॥ १२ ॥
3.2.12 · p. 440
अनुष्टुप्
सोमो दत्तश्च दुर्वासा आत्रेयाश्च ततः परः ।बृहस्पत्यभ्युचथ्याद्या अङ्गिरस्तनया अथ ॥ १३ ॥
3.2.13 · p. 440
अनुष्टुप्
पौलस्त्यो विश्रवास्तस्य रावणाद्यास्त आसुराः ।क्रतोर्यज्ञाश्च कर्माणि मृकण्डो भार्गवः कविः ॥ १४ ॥
3.2.14 · p. 440
अनुष्टुप्
वासिष्ठः शक्तिरथ च मनुः स्वयंभुवः सुतः ।ब्रह्मणस्तस्य राज्यस्य कालं स्यात्तदनन्तरम् ॥ १५ ॥
3.2.15 · p. 440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
महिषी शतरूपाऽस्य तद्भवाः सर्वमानवाः ।पलं दीर्घैः षष्टिवर्णैस्तावद्भिस्तैर्घटी मता ॥ १६ ॥
3.2.16 · p. 440
अनुष्टुप्
तावतीभिरहोरात्रं घटीभिर्मानुषं पुनः ।तावद्भिस्तैरृतुस्तैस्तु षड्भिः संवत्सरस्ततः ॥ १७ ॥
3.2.17 · p. 440
अनुष्टुप्
दश सप्त दश द्वे च अष्टौ चत्वारि पञ्च च ।लक्षायुतानि चत्वारि तदेकस्थं चतुर्युगी ॥ १८ ॥
3.2.18 · p. 440
अनुष्टुप्
तैरेकसप्ततिमितैर्भवेन्मन्वन्तरं पुनः ।चतुर्दश ब्राह्ममहस्तावता रात्रिरिष्यते ॥ १९ ॥
3.2.19 · p. 441
अनुष्टुप्
एवं त्रिंशद्दिनो मासस्तेऽपि द्वादश हायनम् ।तेषां शत ब्राह्मणः स्यादायुर्नास्त्यत्र संशयः ॥ २० ॥
3.2.20 · p. 441
अनुष्टुप्
चतुर्दश स्युर्मनवो दिवसेऽस्मिन्विधेर्मताः ।स्वायंभुवः स्वारोचिष उत्तमस्तामसस्ततः ॥ २१ ॥
3.2.21 · p. 441
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
रैवतश्चाक्षुषो वैवस्वतः सावर्णिकः परः ।दक्षब्रह्मधर्मरुद्ररुचिभूतिसुताः क्रमात् ॥ २२ ॥
3.2.22 · p. 441
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह्म (wrong syllable)
अथेन्द्राः स्युर्विपश्चिच्च सुशान्तिश्च शिविर्विभुः ।मनोजवः पुरंदरो वलिरद्भुत इत्यपि ॥ २३ ॥
3.2.23 · p. 441
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द (wrong syllable)
शान्तिर्वृष ऋतधामा तथा दिवस्पतिः शुचिः ।अस्य प्रिया तु सावित्री दुहिता तु सरस्वती ॥ २४ ॥
3.2.24 · p. 441
अनुष्टुप्metre not read in every line
अपि स्याद्गीर्गिरा वाक् च स्त्रियां लापः पुमानयम् ।स्याद्वादरेला धिषणा गौर्जूः श्रीः पद्मलाञ्छना ॥ २५ ॥
3.2.25 · p. 441
अनुष्टुप्
लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् ।घोषः स्वरः स्वनोऽपि स्याद्गणो धेनाऽपि कारिका ॥ २६ ॥
3.2.26 · p. 441
अनुष्टुप्
तारा महाश्रीरोंकारा वसुधारा धनप्रदा ।सुदूरवासिनी भद्रा वेश्या नीलसरस्वती ॥ २७ ॥
3.2.27 · p. 441
अनुष्टुप्
शंखिनी श्रीर्महातारा लोचना च त्रिलोचना ।सैषा चतुर्विधा वाणी परा पश्यन्तिका पुनः ॥ २९ ॥
3.2.29 · p. 442
अनुष्टुप्
मध्यमा नाभिकण्ठे च मूर्द्धस्थाने स्थिताः क्रमात् ।गुप्तस्थानस्थितास्तिस्रश्चतुर्थी किल वैखरी ॥ ३० ॥
3.2.30 · p. 442
अनुष्टुप्
देवादीनां मनुष्याणां वर्णव्यापारकारिका ।व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ ३१ ॥
3.2.31 · p. 442
अनुष्टुप्
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ।श्रुतिस्त्रयी स्त्रियां वेद आम्नाय ऋषिरित्यपि ॥ ३२ ॥
3.2.32 · p. 442
अनुष्टुप्
निगमश्च पुनः क्लीबे छन्दो ब्रह्माथ बह्वृचः ।ऋग्वेदः पुंस्यथ क्लीबे यजुः सामापि न द्वयोः ॥ ३३ ॥
3.2.33 · p. 442
अनुष्टुप्
स्वरपत्तनमुक्थं तदृक् सामयजुषी त्रयी ।तदुद्धृतिरथर्वा स्यादथैषां चरणक्रमः ॥ ३४ ॥
3.2.34 · p. 442
अनुष्टुप्
एकविंशत्येकशतचतुःपञ्चेति ताः क्रमात् ।शिक्षा ज्योतिर्निरुक्तं च कल्पो व्याकरणं तथा ॥ ३५ ॥
3.2.35 · p. 442
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ये (wrong syllable)
छन्दो नासा दृक् श्रुतिश्च हस्तौ वदनमित्यपि ।पादौ श्रुतेस्तदर्थानि शाखाभेदः पुनश्च षण् ॥ ३६ ॥
3.2.36 · p. 442
अनुष्टुप्
चरणञ्चाथ मीमांसा धर्मशास्त्रं विचारणा ।वेदान्तोऽस्त्री ब्रह्मविद्या स्त्रियामुपनिषत्पुनः ॥ ३७ ॥
3.2.37 · p. 443
अनुष्टुप्
आन्वीक्षिकी तर्कविद्या न्यायः स्यादर्थशास्त्रयोः ।पुराणमष्टादशधा तदेवं पञ्चलक्षणम् ॥ ३८ ॥
3.2.38 · p. 443
अनुष्टुप्
सृष्टिप्रलयवंशाश्च वंशानुचरितानि च ।मन्वन्तराणीत्यथ च धर्मशास्त्रं स्मृतिः स्त्रियाम् ॥ ३९ ॥
3.2.39 · p. 443
अनुष्टुप्
अष्टादशविवादानामनुशासनमित्यपि ।सांख्यं शांख्यं कापिलं स्यादथापि चरकोऽस्त्रियाम् ॥ ४० ॥
3.2.40 · p. 443
अनुष्टुप्
व्याहार उक्तिर्लपितं भाषितं वचनं वचः ।अपभ्रंशोऽपशब्दः स्यान्म्लेच्छभाषा तु भाषितम् ॥ ४१ ॥
3.2.41 · p. 443
अनुष्टुप्
म्लेच्छो ना म्लेच्छितं क्लीबे शास्त्रे शब्दस्तु वाचकः ।वाय्वग्निभूजलाकाशा ह्रस्वा दीर्घाश्च संधिजाः ॥ ४२ ॥
3.2.42 · p. 443
अनुष्टुप्
विन्द्वन्ताः पञ्च पञ्चापि ह्रस्वदीर्घप्लुताः क्रमात् ।ऌवर्जास्त उदात्तानुदात्तस्वरितभेदतः ॥ ४३ ॥
3.2.43 · p. 443
अनुष्टुप्
त्रिविधा अनुदात्तस्तु निघातो नीच इत्यपि ।उच्चैरुदात्तः स्वरितः समवृत्तिरथो हलः ॥ ४४ ॥
3.2.44 · p. 443
अनुष्टुप्
स्पर्शाः काद्या मावसाना व्यापका यादिहान्तगाः ।द्व्यधिका विंशतिरचो दीर्घाभावाल्ऌसंज्ञके ॥ ४५ ॥
3.2.45 · p. 443
अनुष्टुप्
ह्रस्वाभावात्तथैवैचां चत्वारोऽन्ये यमा इति ।कुं खुं गुं घुममीषां च समावेशः क्रमाद्यथा ॥ ४६ ॥
3.2.46 · p. 444
अनुष्टुप्
पदेऽनन्त्यस्तु प्रथमोऽन्योऽन्त्यः स्यात्परतो यदि ।यथासंख्यो यमावेशस्तयोर्मध्ये मतान्तरम् ॥ ४७ ॥
3.2.47 · p. 444
अनुष्टुप्
क्लीबेऽक्षरं तु वर्णोर्णो ग्रन्थो द्वात्रिंशदक्षरी ।अपि प्रबन्धः सन्दर्भः सूत्रं सूचनकारि यत् ॥ ४८ ॥
3.2.48 · p. 444
अनुष्टुप्
भाष्यं सूत्रप्रयुक्तार्थकठिनांशप्रकाशकम् ।उक्तानुक्तदुरूहार्थचिन्ताकारि तु वार्त्तिकम् ॥ ४९ ॥
3.2.49 · p. 444
अनुष्टुप्
टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका ।निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ॥ ५० ॥
3.2.50 · p. 444
अनुष्टुप्
चूर्णी चूर्णिरुभेतुल्ये पद्धती पद्धतिः समे ।इत्येवं परिशिष्टादि पथाऽनेन समुन्नयेत् ॥ ५१ ॥
3.2.51 · p. 444
अनुष्टुप्
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।आक्षेपश्च समाधानं व्याख्यानं वर्णनं समे ॥ ५२ ॥
3.2.52 · p. 444
अनुष्टुप्
कारिका तु स्वल्पवृत्ता बह्वर्थस्य प्रकाशिका ।कलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ॥ ५३ ॥
3.2.53 · p. 444
अनुष्टुप्
इतिहासः पुरावृत्तमाख्यानं भारतादिकम् ।सर्गबन्धो महाकाव्यं तत्स्यादेभिर्गुणैर्युतम् ॥ ५४ ॥
3.2.54 · p. 444
अनुष्टुप्
समस्तैर्वर्णनीयैः स्याद् भूपामात्यपुरोहिताः ।राजवध्वश्च तत्पुत्राः सैन्यपः सैन्यनिर्गमः ॥ ५५ ॥
3.2.55 · p. 445
अनुष्टुप्
विषयो नगरं ग्रामः सरित्स्रोतस्विनी वनम् ।आश्रमो वाटिका मन्त्र ऋतुः समय इत्यपि ॥ ५६ ॥
3.2.56 · p. 445
अनुष्टुप्
हस्त्यश्वरथचन्द्रार्कास्तोदया विरहो रतम् ।स्वयंवरस्तथा युद्धं पुष्पावचय इत्यपि ॥ ५७ ॥
3.2.57 · p. 445
अनुष्टुप्
एतैरन्यैश्च संयुक्तं महारूपकनाटके ।अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा ॥ ५८ ॥
3.2.58 · p. 445
अनुष्टुप्
प्रबन्धकल्पना सा स्यात् प्रवह्लिका प्रहेलिका ।प्रहेलिः प्रश्नदूती च रथ्या वादस्तु वादलः ॥ ५९ ॥
3.2.59 · p. 445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्लि (wrong syllable)
समस्या तु समासार्था समाहारस्तु संग्रहः ।आख्यायिकोपरिकथोपलब्धार्थाऽपि चेष्यते ॥ ६० ॥
3.2.60 · p. 445
अनुष्टुप्
आख्यायिकापरिच्छेदे त्वाश्वासोच्छ्वासकौ समौ ।संदानमनिरुद्धं च प्रकीर्णं गुच्छकादिकम् ॥ ६१ ॥
3.2.61 · p. 445
अनुष्टुप्
सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः ।उल्लासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ ६२ ॥
3.2.62 · p. 445
अनुष्टुप्
स्थानं प्रकरणं पर्वाह्निकं तु शीघ्रपाठतः ।अवान्तरप्रकरणं विश्रामो ग्रन्थसंधयः ॥ ६३ ॥
3.2.63 · p. 445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
अथाधिकरणं तद्यदेकन्यायोपपादनम् ।प्रज्ञप्तिः परिभाषा स्याच्छैली संकेत इत्यपि ॥ ६४ ॥
3.2.64 · p. 446
अनुष्टुप्
प्रतिवाणिरभिप्रायः समुदाचार इत्यपि ।प्रतिवचनं संगरिका प्रतिरूपकथाऽपि च ॥ ६५ ॥
3.2.65 · p. 446
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 तिव (syllable split)
स्यात्स्वाच्छन्द्यानुमननं प्राकाम्यं चावसर्गकः ।ऐतिह्यं ना द्वयोर्वार्ता किंवदन्ती पुरातनी ॥ ६६ ॥
3.2.66 · p. 446
अनुष्टुप्
जनश्रुतिः किंवदन्तिर्वार्त्तोदन्तः पुमानयम् ।वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥ ६७ ॥
3.2.67 · p. 446
अनुष्टुप्
गोत्रं स्त्रियामभिख्याख्या संज्ञाह्वा ना समाह्वयः ।लक्षणं लक्ष्मणं क्लीबेऽभिधानमभिधा स्त्रियाम् ॥ ६८ ॥
3.2.68 · p. 446
अनुष्टुप्
अथाभिमन्त्रणं हूतिः स्त्रियामाकारणं न ना ।सम्बोधनमामन्त्रणमाह्वानं चाहवः पुमान् ॥ ६९ ॥
3.2.69 · p. 446
अनुष्टुप्metre not read in every line
आकारणं द्वयोर्हूतिः स्त्रियां सा बहुभिः कृता ।संहूतिश्च प्रहूतिः स्यादाहूतिरथ वाङ्मुखम् ॥ ७० ॥
3.2.70 · p. 446
अनुष्टुप्
उपन्यास उपोद्घात उदाहारः शपः पुमान् ।शपथः शपनं क्लीबे प्रतिवाक्योत्तरे समे ॥ ७१ ॥
3.2.71 · p. 446
अनुष्टुप्
कथंकथिकता तु स्यात् पृच्छा प्रश्नोऽनुयोजनम् ।अनुयोगोऽप्यथो दैवप्रश्नः स्त्री स्यादुपश्रुतिः ॥ ७२ ॥
3.2.72 · p. 446
अनुष्टुप्
चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् ।सत्यं तथ्यं समीचीनमृतं सत्यं यथातथम् ॥ ७३ ॥
3.2.73 · p. 447
अनुष्टुप्
यथास्थितं च सद्भूतेऽलीके तु वितथानृते ।अथ क्लिष्टं संकुलं च परस्परपराहते ॥ ७४ ॥
3.2.74 · p. 447
अनुष्टुप्
अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् ।परुषं निष्ठुरं रूक्षं विक्रुष्टं क्लिष्टमस्फुटम् ॥ ७५ ॥
3.2.75 · p. 447
अनुष्टुप्
लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् ।अम्बूकृतं सनिष्ठीवं निरस्तं त्वरितोदिदम् ॥ ७६ ॥
3.2.76 · p. 447
अनुष्टुप्
आम्रेडितं द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् ।सोल्लुण्ठनं तु सोत्प्रासं मणितं रतकूजितम् ॥ ७७ ॥
3.2.77 · p. 447
अनुष्टुप्
सुरते कर्णमूले च व्यब्धदेशीयभाषया ।दम्पत्योर्जल्पितं मन्दं मन्मनं तं विदुर्बुधाः ॥ ७८ ॥
3.2.78 · p. 447
अनुष्टुप्
चाटुपूर्वाणि सर्वाणि त्रिष्वमूनि च तद्वति ।पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् ॥ ७९ ॥
3.2.79 · p. 447
अनुष्टुप्
मिथ्याभियोगोऽभ्याख्यानं ग्राम्यमश्लीलमित्यपि ।उच्चैर्घुष्टं घोषणा स्त्री सङ्गतं हृदयङ्गमम् ॥ ८० ॥
3.2.80 · p. 447
अनुष्टुप्
परुषं निष्ठुरं रूक्षं विक्रुष्टं चाप्यथ स्तुतिः ।वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥ ८१ ॥
3.2.81 · p. 447
अनुष्टुप्
क्लीबे स्तोत्रं चार्थवादः सा तु मिथ्याविकत्थनम् ।जनप्रवादः कौलीनं वगानं वचनीयता ॥ ८२ ॥
3.2.82 · p. 448
अनुष्टुप्
स्यादवर्ण उपक्रोशो वादो निःपर्यवात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ ८३ ॥
3.2.83 · p. 448
अनुष्टुप्
आक्रोशाभीषङ्गाक्षेपाः शापः साक्षारणा रते ।विरुद्धशंसनं गालिराशीर्मङ्गलशंसने ॥ ८४ ॥
3.2.84 · p. 448
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
श्लोकः पुंसि यशः क्लीबे अभिख्या स्यात्समज्ञया ।यशः क्लीबे स्त्रियां कीर्तिः समाख्याता समाज्ञया ॥ ८५ ॥
3.2.85 · p. 448
अनुष्टुप्
समाख्या कीर्त्तनाऽपि स्यात्समाज्याऽपि समज्यया ।त्रिषूत्तरे स्युर्वाग्भेदा रुशती त्वशुभा च वाक् ॥ ८६ ॥
3.2.86 · p. 448
अनुष्टुप्
उषती चाप्यथ पुनः कल्पा काल्पा शुभात्मिका ।सैव ज्ञेया चर्चरी च वर्त्तरी च समे इमे ॥ ८७ ॥
3.2.87 · p. 448
अनुष्टुप्
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ।आपृच्छालापसंभाषोऽनुलापः स्यान्मुहुर्वचः ॥ ८८ ॥
3.2.88 · p. 448
अनुष्टुप्
अनर्थकं तु प्रलापो न ना तु परिदेवना ।उल्लापः स्यात् काकुवागन्योक्तिः संलापसंकथे ॥ ८९ ॥
3.2.89 · p. 448
अनुष्टुप्
समासप्रायवचनमपि स्याद्दण्डकोऽस्त्रियाम् ।विप्रलापो विरोधोक्तावपलापस्तु निह्नवः ॥ ९० ॥
3.2.90 · p. 448
अनुष्टुप्
अपह्नुतिर्निह्नुतिश्च निह्नुती स्यादपह्नुती ।सुप्रलापः सुवचनं संदेशगिरि वाचिकम् ॥ ९१ ॥
3.2.91 · p. 449
अनुष्टुप्
आज्ञा शिष्टिर्निराङ्विभ्यो देशो नियोगः शासनम् ।अनुवादोऽप्यथाहूय प्रेषणं प्रतियातनम् ॥ ९२ ॥
3.2.92 · p. 449
अनुष्टुप्metre not read in every line
संवित्संधास्थाभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ ९३ ॥
3.2.93 · p. 449
अनुष्टुप्
वाक्क्रोधगर्भा वैद्योता स्नेहगर्भा तु माल्लुका ।निर्वेदगर्भा निःसंगा दैन्यगर्भा तु नश्वरी ॥ ९४ ॥
3.2.94 · p. 449
अनुष्टुप्
कुटिनारी तु या कूटवाग्वैदर्भं च तन्मतम् ।वर्करस्तु स एवोक्तो यदि द्व्यर्थैः पदैः कथा ॥ ९५ ॥
3.2.95 · p. 449
अनुष्टुप्
हूत्कार आर्तशब्दः स्यादोवल्लिर्व्याघ्रगर्जने ।मुखघण्टा हुलहुली गल्लवाद्यमथ श्रमात् ॥ ९६ ॥
3.2.96 · p. 449
अनुष्टुप्
सुखनिद्रादिशब्दो यस्तत्र नन्दीमुखी स्त्रियाम् ।घुरिका श्वासहेतिश्च घोरिका टरटोऽपि च ॥ ९७ ॥
3.2.97 · p. 449
अनुष्टुप्
अङ्गुष्ठतर्जनीशब्दः स्त्रियां सा छोटिका मता ।अङ्गुष्ठमध्यमाशब्दो मदस्फुटिरुदीरिता ॥ ९८ ॥
3.2.98 · p. 449
अनुष्टुप्
स एव हस्तचटकारोप इत्यभिधीयते ।कोयष्टिकादेः स्तभनं रोलोऽस्पष्टरवे पुमान् ॥ ९९ ॥
3.2.99 · p. 449
अनुष्टुप्
निःसाणोऽनेकवाद्यानामेकदा यो रणे ध्वनिः ।भेरीशतसहस्राणि तथा दशशतानि च ॥ १०० ॥
3.2.100 · p. 450
अनुष्टुप्
युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते ।शब्दो निनादो निर्घोषो निह्रादो निःस्वनः स्वनः ॥ १०१ ॥
3.2.101 · p. 450
अनुष्टुप्
स्वानो ध्वानः स्वरो ह्रादो निस्वानो रव इत्यपि ।नादो घोषः क्वणः क्वाणो निक्वाणो निक्वणः क्वणः ॥ १०२ ॥
3.2.102 · p. 450
अनुष्टुप्
समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ ।ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥ १०३ ॥
3.2.103 · p. 450
अनुष्टुप्
क्रन्दितं रुदितं क्रुष्टं तदपुष्टं तु गह्वरः ।शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ॥ १०४ ॥
3.2.104 · p. 450
अनुष्टुप्
पर्दनं गुदजे शब्दे कर्दनं कुक्षिसम्भवे ।कोलाहलः कलरवः संकुलो व्याकुलो रवः ॥ १०५ ॥
3.2.105 · p. 450
अनुष्टुप्
मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् ।हेषा ह्रेषा तुरङ्गाणां गजानां गर्जबृंहिते ॥ १०६ ॥
3.2.106 · p. 450
अनुष्टुप्
कूजितं स्याद्विहङ्गानां तिरश्चां वासितं रुतम् ।वृषस्य रेषणं रेषा वुक्कनं भषणं शुनः ॥ १०७ ॥
3.2.107 · p. 450
अनुष्टुप्
पीडितानां तु कणितं प्रक्वाणः प्रक्वणोऽपि च ।वीणायाः क्वणिते च स्यान्मर्दलस्य तु गुन्दलः ॥ १०८ ॥
3.2.108 · p. 450
अनुष्टुप्
क्षीजनं कीचकानां च भेरीशब्दस्तु दर्दुरः ।स्यात्प्रतेर्ध्वनिपर्यायः प्रतिच्छन्दः प्रतिष्कशः ॥ १०९ ॥
3.2.109 · p. 451
अनुष्टुप्
कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके ।ब्रह्मप्रकाण्डः प्रथमः साङ्गः सिद्धिमुपागतः ॥ ११० ॥
3.2.110 · p. 451
अनुष्टुप्