कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

स्वरादिकाण्डः · स्वर्गवर्गप्रकाशः (4/5)

स्मृतिर्धर्मसंहिता च संहिताश्रुतिजीविका ।अर्थानां विप्रकीर्णानां संक्षेपाद्ग्रहणन्तु यत् ॥
2.1.361 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
संग्राहः संग्रहोऽपि स्यात् समाहारः समाहृतिः ।संक्षेपार्थे समस्या च समासार्था भवेद्द्वयम् ॥
2.1.362 · p. 26
अनुष्टुप्
यथार्था निश्चिता वार्ता भवेत् सर्वजनात्मिका ।कुत्सितार्थानुवादो वा किंवदन्ती जनश्रुतिः ॥
2.1.363 · p. 26
अनुष्टुप्
वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादुदन्तकः ।नामाभिधानमाह्वानं नामधेयञ्च लक्षणम् ॥
2.1.364 · p. 26
अनुष्टुप्
व्यपदेशाह्वयौ संज्ञा गोत्रमाख्या च लक्ष्मणम् ।स्यादभिख्या तथाह्वा च नामपर्याय ईरितः ॥
2.1.365 · p. 26
अनुष्टुप्
आहूतिर्हूतिराह्वानं स्यादाकारणमित्यपि ।आकारणा च पर्याय आह्वाने परिकीर्तितः ॥
2.1.366 · p. 26
अनुष्टुप्
बहुभिः कृतामाह्वानं संहूतिरिति कथ्यते ।ऋणादिदायकलहे द्वयोर्बहुतरस्य वा ॥
2.1.367 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
विवादो व्यवहारश्च द्वयमेतन्निगद्यते ।वाङ्मुखं स्यादुपन्यासो वाक्यारम्भे भवेद्द्वयम् ॥
2.1.368 · p. 26
अनुष्टुप्
उपोद्घात उदाहारः स्यादुदाहरणे द्वयम् ।शपनं शपथः शापो मिथ्यानिरसने त्रयम् ॥
2.1.369 · p. 26
अनुष्टुप्
प्रश्नः पृच्छानुयोगश्च पृच्छनं पृच्छनापि च ।प्रत्युक्तिः प्रतिवाक्यं स्यादुत्तरं प्रतिवागपि ॥
2.1.370 · p. 26
अनुष्टुप्
प्रत्युत्तरञ्च केषाञ्चित् मतं न बहुसम्मतम् ।त्वं मे शतं धारयसीत्यादि मिथ्यानिरूपणे ॥
2.1.371 · p. 26
अनुष्टुप्
मिथ्याभियोगोऽभ्याख्यानमभ्याकाङ्क्षितमित्यपि ।त्वमेव स्वर्णचौरोऽसीत्येवं वाचा प्रदूषणम् ॥
2.1.372 · p. 26
अनुष्टुप्
मिथ्याभिशंसनं तत् स्यादभिशापस्तु स स्मृतः ।अनुरागवशाज्जातः शब्दः प्रणाद उच्चते ॥
2.1.373 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
कीर्तिर्यशः समाख्या स्यात् समाज्ञा कीर्तनापि च ।स्यादभिख्या समज्ञा च समज्यापि च कुत्रचित् ॥
2.1.374 · p. 27
अनुष्टुप्
यशःकीर्तिगतो भेदः सद्भिरुह्यः प्रयोगतः ।स्तवो नरः स्तुतिः स्तोत्रं नूतिस्तवनमित्यपि ॥
2.1.375 · p. 27
अनुष्टुप्
द्वित्रिवारं तदुक्तं स्यात् तदाऽम्रेडितमुच्यते ।उच्चैर्घुष्टं घोषणा स्यान्निर्घुष्टं घूष्टघोषणे ॥
2.1.376 · p. 27
अनुष्टुप्
शोकभीत्यादिभिः शब्दविकारे काकुरीरिता ।कुत्सा निन्दा जुगुप्सा च गर्हा गर्हणनिन्दने ॥
2.1.377 · p. 27
अनुष्टुप्
कुत्सनं परिवादः स्यात् परीवादो जुगुप्सनम् ।आक्षेपावर्णनिर्वादा उपक्रोशश्च भर्त्सनम् ॥
2.1.378 · p. 27
अनुष्टुप्
अपक्रोशोऽपवादः स्यादववादो विकुत्सनम् ।अगम्यागमनं युक्तं तवेत्यादिकभाषणम् ॥
2.1.379 · p. 27
अनुष्टुप्
कुलदोषाविष्करणं तत्र स्यात् परिभाषणम् ।आक्षारणाक्षारणं स्यादाक्रोशो मैथुनं प्रति ॥
2.1.380 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
आभाषणं स्यादालापः प्रियोक्त्यादौ गमे (?) ।उन्मत्तशोकसन्तप्तनिष्प्रयोजनभाषणे ॥
2.1.381 · p. 27
अनुष्टुप्metre not read in every line
अनर्थके च वचने प्रलापः परिकीर्तितः ।पुनः पुनर्भवेद्भाषा सोऽनुलापः प्रकीर्तितः ॥
2.1.382 · p. 27
अनुष्टुप्
क्रन्दनादौ विलापः स्यात् परिदेवनमित्यपि ।सुप्रलापः सुवचनं विप्रलापो विरोधवाक् ॥
2.1.383 · p. 27
अनुष्टुप्
क्रोधोक्तिराप्रलापः स्यात् संलापोऽन्योन्यभाषणम् ।अपलापो निह्नतिः स्यादपह्नुतिरपह्नवः ।निह्नवश्चेति विज्ञेयः पर्यायोऽयमपह्नवे ॥
2.1.384 · p. 27
अनुष्टुप्
वाचिकं तद्भवेद्यत्र दूतत्वेनाभिशंसनम् ।उत्तरे सत्यपर्यन्ता वाग्भेदास्त्रिषु कीर्तिताः ॥
2.1.385 · p. 27
अनुष्टुप्
हन्तव्यादिरकल्याणी वागुशत्युषतीत्यपि ।तत् सान्त्वं चित्तसुखदं अत्यर्थमधुरं हि यत् ॥
2.1.386 · p. 28
अनुष्टुप्
सङ्गतं तद्भवेद्वाक्यं यदेव हृदयङ्गमम् ॥
2.1.387 · p. 28
सोल्लुण्ठनन्तु सोत्प्रासं चटु चाटु प्रियोदितम् ॥
2.1.388 · p. 28
अथ कर्कशवाक्ये तु परुषं निष्ठुरञ्च तत् ।भण्डादिवचने तु स्यादश्लीलं ग्राम्यमित्यपि ॥
2.1.389 · p. 28
अनुष्टुप्
किञ्चित् प्रियमसत्यञ्च यथेन्द्रः स भवानिति ।किञ्चित् सत्यमप्रियञ्च यथा काणो भवानिति ॥
2.1.390 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)
सत्यं किञ्चित् प्रियं किञ्चित् यथा त्वं पण्डितो द्विजः ।इत्यादिवचने सद्भिः सुनृतं परिकीर्तितम् ॥
2.1.391 · p. 28
अनुष्टुप्
यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता ।माता च मम बन्ध्यासीदपुत्रस्तु पितामहः ॥
2.1.392 · p. 28
अनुष्टुप्
एवं सर्वविरुद्धार्थं संकुलं क्लिष्टमेव च ।अक्षरं वा पदं वापि नोच्चारितमशक्तितः ॥
2.1.393 · p. 28
अनुष्टुप्
यत्र वाक्ये भवेदेवं ग्रस्तं तत् परिकीर्तितम् ।तन्निरस्तं समाख्यातं भयादौ त्वरितोदितम् ॥
2.1.394 · p. 28
अनुष्टुप्
श्लेष्मनासाहतं वाक्यमम्बूकृतमुदाहृतम् ।समुदायार्थशून्ये स्यादबद्धञ्चाप्पबद्धकम् ॥
2.1.395 · p. 28
अनुष्टुप्
अनक्षरमवाच्यन्तु वचनार्हं न यद्भवेत् ।एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ॥
2.1.396 · p. 28
अनुष्टुप्
मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ।इत्याद्यन्तमिथ्योक्तिराहतं तत् प्रकीर्तितम् ॥
2.1.397 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 इ (syllables merged)
अविस्पष्टं भवेन्म्लिष्टं वितथं चानृतं मृषा ।अथ सत्यमृतं सम्यक् तथ्यावितथमित्यपि ॥
2.1.398 · p. 28
अनुष्टुप्
अमूनि त्रिषु सत्यानि अव्ययन्तु यथातथम् ।शब्दो निर्घोषनिर्ह्रादनिस्वानस्वाननिस्वनाः ॥
2.1.399 · p. 28
अनुष्टुप्
निनादनिनदध्वाननिध्वानध्वनिसंरवाः ।रव आरव आरावः संरावो राव इत्यपि ॥
2.1.400 · p. 28
अनुष्टुप्
विरावनादह्रासाः स्युरभिधानाभिधानकम् ।तथा कुहरितञ्चेति शब्दपर्याय ईरितः ॥
2.1.401 · p. 29
अनुष्टुप्
वस्त्राणामपि पर्णानां शब्दो मर्मर उच्यते ।अथ भूषणशब्दे तु शिञ्जा शिञ्जितमित्यपि ॥
2.1.402 · p. 29
अनुष्टुप्
वीणा ध्वनौ तु क्वणनं निक्वाणो निक्वणोऽपि च ।प्रक्वाणः प्रक्वणः क्वाणः क्वणः स्यात् सुक्वणादयः ॥
2.1.403 · p. 29
अनुष्टुप्
सोपसर्गः क्वणोऽपि स्यात् क्वचित् शिष्टप्रयोगतः ।सम्भूय बहुभिर्यः स्यादविस्पष्टकृतो ध्वनिः ॥
2.1.404 · p. 29
अनुष्टुप्
कोलाहलः कलकलः कालकीलोऽपि कुत्रचित् ।वासितं वाशितं यत् स्याद् यः शब्दपशुपक्षिणाम् ॥
2.1.405 · p. 29
अनुष्टुप्
स्त्री प्रतिश्रुत् प्रतिशब्दः प्रतिध्वानं प्रतिध्वनिः ।गीतं गानं निबद्धं स्यादनिबद्धमपि द्विधा ॥
2.1.406 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अथ सप्त स्वरा ज्ञेयास्तन्त्रीकण्ठसमुत्थिताः ।स्यात् षडज ऋषभश्चैव गान्धारो मध्यमोऽपि च ॥
2.1.407 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 डज (syllable split)
पञ्चमो धैवतश्चैव निषादश्चेति ते क्रमात् ।षड्जं मयूरा क्रवते वृषभा ऋषभं तथा ॥अजाविकौ तु गान्धारं क्रौश्चो नदति मध्यमम् ।पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् ॥
2.1.408 · p. 29
अनुष्टुप्
घोटको धैवतं रौति निषादं रौति कुञ्जरः ।स्वरादीनान्तु विस्तारो बाहुल्यात् समुपेक्षितः ॥
2.1.409 · p. 29
अनुष्टुप्
सूक्ष्मे कले काकली स्यात् कलः सुमधुरध्वनौ ।मन्द्रो गम्भीरेऽत्युच्चे तु तारस्त्रिषु कलादयः ॥
2.1.410 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 रेऽ (wrong syllable)
द्रुतादिलयसंयुक्त एकताल इति स्मृतः ॥
2.1.411 · p. 29
विपञ्ची वल्लकी वीणा रङ्गवल्ली विपञ्चिका ।सा वीणा सप्ततन्त्रीभिरुच्यते परिवादिनी ॥
2.1.412 · p. 29
अनुष्टुप्
मृदङ्गादिकमानद्धं ततं वीणादिवाद्यकम् ॥
2.1.413 · p. 29
वंश्यादिवाद्यं सुषिरं घनं कांस्यादितालजम् ।एवं वादित्रमातोद्यं वाद्यमेतच्चतुर्विधम् ॥
2.1.414 · p. 29
अनुष्टुप्
मृदङ्गो मुरजेऽपि स्यादङ्काद्यास्तद्विशेषकाः ।अङ्क्यश्चाङ्की तथालिङ्ग्य आलिङ्गी चोर्ध्वकोद्धकौ ॥
2.1.415 · p. 30
अनुष्टुप्
स्याद्यशः पढहो ढक्का तथा विजयमङ्गलः ।आनको दुन्दुभिर्भेरी पढहोऽस्त्री तथानकः ॥
2.1.416 · p. 30
अनुष्टुप्
वीणादिवादनं कोणः प्रवालस्तस्य दण्डके ।वीणाप्रान्ते वक्रकाष्ठे ककुभस्तु प्रसेवकः ॥
2.1.417 · p. 30
अनुष्टुप्
वीणाकाये तु कोलम्बः उपनाहो निबन्धने ।वाद्यभेदाश्च डमरुमड्डुमर्दलडिण्डिमाः ॥
2.1.418 · p. 30
अनुष्टुप्
झर्झरः पणवोऽन्ये च विशेषाः काहलादयः ।डमरुः कोणकोऽपि स्यादेकसूत्रो वृषाङ्कजः ॥
2.1.419 · p. 30
अनुष्टुप्
मड्डुमृदङ्गकौ मन्द्रो मर्दलो दारुजो मृजः ।डिण्डिमः स्यादेकवादो गुरुर्मङ्गल इत्यपि ॥
2.1.420 · p. 30
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable)
झर्झरो झल्लरी झल्ली झत्नरी झर्झरीत्यपि ।पणवः प्रणवः पाङ्कः प्राङ्कणः पणवेत्यपि ॥
2.1.421 · p. 30
अनुष्टुप्
काहलः काहलापि स्यात् ध्वनिमाला कलाहका ।एकवर्णी कङ्कमाला करताली कलङ्कषा ॥
2.1.422 · p. 30
अनुष्टुप्
तूरं तूर्यं चन्द्रकला द्रगडो लघुदुन्दुभिः ।मम्मदो दुन्दुभिद्वन्दो घटीनाली यमेरुका ॥
2.1.423 · p. 30
अनुष्टुप्
यामनाली यामघोषो दण्डढङ्का गभीरिका ।एवञ्च वाद्यभेदाः स्युस्ताड्यमानाः प्रकाशिकाः ॥
2.1.424 · p. 30
अनुष्टुप्
दण्डताम्री च ताम्री च मानरन्ध्रा विकालिका ।भुक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः ॥
2.1.425 · p. 30
अनुष्टुप्
संग्राहः पटहः शङ्खस्तथा चाभयडिण्डिमः ।महाद्वन्द्वो नृपाभीरुर्भीरु कोलाहलोऽपि च ॥
2.1.426 · p. 30
अनुष्टुप्
युद्धवाद्यस्य पर्यायश्चान्ये भेदाः शलादयः ।मुखवाद्यं वभ्रूताली वेणुर्विवरनालिका ॥
2.1.427 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
अथ वंशी च मुरली वंशिका वंशनालिका ।सानेयिका च सानेयी सानिका सूरनालिका ॥
2.1.428 · p. 30
अनुष्टुप्
अथ यन्त्राणि शारङ्गी शारदा कविलासिका ।सुरमण्डलिका रुद्री पिणाकी चण्डरुद्रिका ॥
2.1.429 · p. 30
अनुष्टुप्
क्रुञ्ची च कच्छपी वीणा वीणा तुम्बुरुनारदी ।सारस्वती केलिकला रामवीणा बलाञ्चिता ॥
2.1.430 · p. 30
अनुष्टुप्
अन्येऽपि यन्त्रभेदाः स्युर्विज्ञेया नाट्यशास्त्रतः ।वारवाणिः प्रगाता च यः स्यादुत्तमगायनः ॥
2.1.431 · p. 31
अनुष्टुप्
कथकः स्यादेकनटः कथाप्राणोऽपि संस्मृतः ।सर्ववेशी लयालम्बस्तानरेचनको नटः ॥
2.1.432 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
लयपुत्री नटी लास्या नर्तकी लासिकाऽपि च ।खङ्गधारादियोगेन यो नृत्यति पटुर्नरः ॥
2.1.433 · p. 31
अनुष्टुप्
प्लवकः केलकोनर्तुः केलिकोषः कलायनः ।भण्डश्चाटुपटुश्चेति गायको गाथकोऽपि च ॥
2.1.434 · p. 31
अनुष्टुप्
विलम्बितं द्रुतं मध्यं लय इत्यभिधीयते ।विलम्बितं भवेत्तत्त्वं द्रुतं मोघमिति स्मृतम् ॥
2.1.435 · p. 31
अनुष्टुप्
मध्यं घनमिति प्रोक्तं सर्वसाम्यं लयः स्मृतः ।गीतवाद्य-पदन्यास-क्रियाणां समता मिथः ॥
2.1.436 · p. 31
अनुष्टुप्
तथा क्रियाकालयोर्वा लय इत्यभिधीयते ।हस्ताङ्गुलिप्रसारणाकुञ्चनादि क्रिया हि या ॥
2.1.437 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 र (wrong syllable)
तया कालस्य मानं यत् स ताल इति कथ्यते ।कैश्चित्तु कालक्रिययोर्मानं तालः प्रकाशितः ॥
2.1.438 · p. 31
अनुष्टुप्
स एष तालो विज्ञेयो धीरैरनुद्रुतादिभिः ।अनुद्रुतं द्रुतञ्चैव लघुर्गुरुः प्लुतस्तथा ॥
2.1.439 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 र्गु (wrong syllable)
अर्धमात्रं द्रुतं ज्ञेयं द्रुतार्धञ्चाप्पनुद्रुतम् ।एकमात्रो लघुः प्रोक्तः द्विमात्रस्तु गुरुः स्मृतः ॥
2.1.440 · p. 31
अनुष्टुप्
तिमात्रं प्लुत आख्यातं नाट्यशास्त्रानुसारतः ।पञ्चलघ्वक्षरः कालो मात्रा निगदिता बुधैः ॥
2.1.441 · p. 31
अनुष्टुप्
अक्षराणि चवर्गादिपञ्चेत्युक्तं मनीषिभिः ।नृत्यं नृत्तञ्च नटनं नाट्यं नाटश्च नर्तनम् ॥
2.1.442 · p. 31
अनुष्टुप्
लासो लासं लास्यकञ्च ताण्डवोऽस्त्री नृतिः स्त्रियाम् ।लास्यताण्डवयोर्भेदो नृत्यशास्त्रे प्रकाशितः ।अथ वाद्यनृत्यगीतं नाट्यं तौर्यत्रिकं विदुः ॥
2.1.443 · p. 31
अनुष्टुप्metre not read in every line
अथ नारीवेशधारी पुरुषो यत्र नर्तकः ॥
2.1.444 · p. 31
भ्रकुंसश्च भ्रकुंसश्च भ्रूकुंसः स भृकुंसकः ॥
2.1.445 · p. 31
नाट्योक्तौ गणिका नाम अज्जुकेत्यभिधीयते ।विदुषो नाम भावः स्यादावुत्तो भगिनीपतिः ॥
2.1.446 · p. 32
अनुष्टुप्
युवराजद्वयं नाम कुमारो भर्तृदारकः ।राज्ञो नाम द्वयं नाट्ये देवो भट्टारकोऽपि च ॥
2.1.447 · p. 32
अनुष्टुप्
राजपुत्र्या द्वयं नाम कुमारी भर्तृदारिका ।राज्ञः कृताभिषेकायां पत्न्यां देवीति कीर्तिता ॥
2.1.448 · p. 32
अनुष्टुप्
अन्यासु राजपत्नीषु भट्टिन्यः समुदाहृताः ।अवध्यमिति नाट्योक्तौ अब्रह्मण्यमिति स्मृतम् ॥
2.1.449 · p. 32
अनुष्टुप्
राजश्यालः राष्ट्रियः स्यात् अम्बा तु मातरि स्मृता ।बालायान्तु भवेद्वासूर्मान्ये तु मारिषः स्मृतः ॥
2.1.450 · p. 32
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 तु (wrong syllable)
नाट्ट्ये ज्येष्ठभगिन्यां स्यादन्तिरप्यत्तिरन्तिका ।कनिष्ठा भगिनी नाम सखीवत् परिकीर्तितम् ॥
2.1.451 · p. 32
अनुष्टुप्
प्रस्तुतायाः कथायास्तु भवेद्यत्र समापनम् ।निवर्हणं निर्वहणं निष्ठा निर्वहणापि च ॥
2.1.452 · p. 32
अनुष्टुप्
नीचं प्रति समाह्वानं हन्तो हन्ते इति द्वयम् ।चेटीं हञ्जा तु हञ्जे च हलाह्वानं सखीं प्रति ॥
2.1.453 · p. 32
अनुष्टुप्
स्थानात् स्थानान्तरं प्राप्तौ अङ्गानाञ्चारुनर्तने ।अङ्गहारोऽङ्गविक्षेपो द्वयमत्र निगद्यते ॥
2.1.454 · p. 32
अनुष्टुप्
व्यञ्जकोऽभिनयश्चैव हस्तादिकार्यसूचके ।आङ्किकस्त्वङ्गनिर्वृत्ते सात्त्विकः सत्त्वनिर्वृते ॥
2.1.455 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
एतौ त्रिष्वाङ्गिकानान्तु लक्षणान्यप्यनेकशः ।नृत्यशास्त्रादिगम्यानि नोक्तानि ग्रन्थगौरवात् ॥
2.1.456 · p. 32
अनुष्टुप्
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।वैवर्ण्यमश्रुपातश्च इत्यष्टौ सात्त्विका मताः ॥
2.1.457 · p. 32
अनुष्टुप्
शृङ्गारवीरबीभत्साः रौद्रहास्यभयानकाः ।अद्भुतः करुणः शान्तो नाट्ये नवरसा अमी ॥
2.1.458 · p. 32
अनुष्टुप्
अस्मिन्नमरसिंहोऽपि सम्मतोऽयं चकारतः ॥
2.1.459 · p. 32
वात्सल्यसहिताः कैश्चिदुक्ता दशरसा अपि ।नामान्येतानि शृङ्गारे कैशिकः शुचिरुज्ज्वलः ॥
2.1.460 · p. 32
अनुष्टुप्
सम्भोगो विप्रलाम्भश्च तस्य भेदद्वयं भवेत् ।अथ वीरस्य पर्यायः वीर उत्साहबर्धनः ॥
2.1.461 · p. 32
अनुष्टुप्
त्रिषु बीभत्सं विकृतं वैकृत्यं वैकृतं तथा ।रौद्रमुग्रमपि ख्यातं हासो हास्यं तथा हसः ॥
2.1.462 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
दारुणो भीषणो भीष्मो भीमो घोरश्च भैरवः ।भयङ्करः प्रतिभयं त्रिष्वेते च भयानके ॥
2.1.463 · p. 33
अनुष्टुप्
अद्भुतञ्चित्रमाश्चर्यं त्रितयं त्रिषु विस्मयः ।करुणोऽपि च कारुण्यं करुणा च दया दयः ॥
2.1.464 · p. 33
अनुष्टुप्
कृपाऽनुकम्पाऽनुक्रोश एतेऽष्टौ करुणे रसे ॥
2.1.465 · p. 33
दरस्त्रासः भयं भीतिरुत्त्रासः साध्वसं भयम् ।दरदो भीः प्रतिभयं भय पर्याय ईरितः ॥
2.1.466 · p. 33
अनुष्टुप्
मनो विकारो भावोऽनुभावः स्याद्भावबोधकः ।गर्वो मदोऽभिमानः स्यादहङ्कारस्त्वहंकृतिः ॥
2.1.467 · p. 33
अनुष्टुप्
स्यादुत्कमनस्कत्वे मानश्चित्तसमुन्नतिः ।अहङ्कारस्य पर्याय इति केचित् प्रचक्षते ॥
2.1.468 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्या (syllables merged)
स्यादवज्ञा परीहारः परिहारः पराभवः ।अपमानं परिभवस्तिरस्कारस्तिरस्क्रिया ॥
2.1.469 · p. 33
अनुष्टुप्
अवहेला च हेला स्यादवहेलनहेलने ।अनादरस्त्वभिभवः सूक्ष्मेणञ्चापि सूक्ष्मणम् ॥
2.1.470 · p. 33
अनुष्टुप्
रीटाभिर्भूतिनिकृतिरसूक्षणमसूक्ष्मणम् ।न्यक्कारोऽपि च नीकारस्त्ववहेलनमाननम् ॥
2.1.471 · p. 33
अनुष्टुप्
क्षेपो निकारो धिक्कारः पर्यायः स्यादनादरे ।अथ मन्दाक्षमन्दास्यं लज्जा लज्जनं ह्रीस्त्रपा ॥
2.1.472 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नं (wrong syllable)
ब्रीडो ब्रीडा ब्रीडनञ्च लज्जा पर्याय ईरितः ॥
2.1.473 · p. 33
अपत्रपान्यतो लज्जापत्रपानुपत्रपापि च ।क्षमा क्षान्तिस्तितिक्षा च क्षमापर्याय ईरितः ॥
2.1.474 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विषयेच्छा परधनेऽभिध्या भिध्या द्वयं भवेत् ।अक्षान्तिरीर्ष्या चर्या च अक्षमायां प्रकाशिताः ॥
2.1.475 · p. 33
अनुष्टुप्
असूया कीर्तिता सद्भिर्दोषारोपो गुणेष्वपि ।वैरं विरोधो विद्वेषो द्वेषो द्वेषणमित्यपि ॥
2.1.476 · p. 33
अनुष्टुप्
मन्युः शोकःस्त्रियां शुक् च शुचा निःशम इत्यपि ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ।कोपः क्रोधः क्रोधाभीमः आमर्षः प्रतिघोऽपि च ॥
2.1.477 · p. 33
अनुष्टुप्metre not read in every line
सस्वम्भा(?)ऽमर्षरोषाश्च रुषा च रुट् क्रुधौ स्त्रियाम् ।चरित्रमपि चारित्रं चरितञ्च समं त्रयम् ॥
2.1.478 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे ।प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि ॥हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥
2.1.479 · p. 33
अनुष्टुप्
ईहा तृट् तर्ष आकाङ्क्षा कान्तिरुग्रुचयोऽपि च ।दोहदञ्चाभिलासः स्यादभिलाषश्च कीर्तितः ।इच्छा सुमहती या स्यात् सा भवेत् लालसा द्वयोः ॥
2.1.480 · p. 34
अनुष्टुप्