कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्लोक

ślokaपुं · masc.

In 14 kośas: 10 synonym verses, 7 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.273 · p. 15
श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा रुशती पुनः ।अशुभा वाक्शुभा कल्या चर्चरी चर्भटी समे ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.153 · p. 18
विदुराम्रेडितं प्राज्ञा द्विस्त्रिर्व्याहरणं च यत् ।कीर्तिः श्लोको यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.76 · p. 73
साधुवादः समख्या स्याच्छ्लोको व्याहरणं जनैः ।कथा त्वाख्यायिकाऽऽख्यानं पुराणं पञ्चलक्षणम् ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.85 · p. 448
श्लोकः पुंसि यशः क्लीबे अभिख्या स्यात्समज्ञया ।यशः क्लीबे स्त्रियां कीर्तिः समाख्याता समाज्ञया ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.12 · p. 66
तद्दृश्यमभिनेयं यच्छ्रव्यं तु श्रवणार्थकम् ।वृत्तबन्धः पद्यमन्त्ये श्लोकः पुंस्यत्र[43a] सम्मतः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.40 · p. 69
श्लोको वर्णो ना यशोऽन्ते समाज्ञा-भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः ।श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्चस्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥
शालिनी
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.25 · p. 2
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.126 · p. 32
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.395 · p. 50
अथ कीर्तिः समाख्या स्याद् श्लोकोऽभिख्या यशस्तथा ।समाज्ञा रुशती वाणी सर्वथा याऽशुभा भवेत् ॥ ३९५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.905 · p. 113
श्लोकः कीर्तिः समज्ञा च यशः श्लाघा तु कत्थनम् ।स्तुतिः शंशा नुतिः स्तोत्रमीडनं स्तवनं स्तवः ॥ ९०५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.2
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ।पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.1 · p. 2
अथ कान्ता निगद्यन्ते पादेन क्रमशस्त्वमी ।श्लोको यशसि पद्ये स्याल्लोकस्तु भुवने जने ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.19 · p. 138
भुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च ।रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.122 · p. 31
रथस्य शीघ्रवहनसाधने चापि वस्तुनि ।श्लोकः पद्ये यशोवाचोः षण्ड इट्चरपण्डयोः ॥ १२२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.24 · p. 178
श्लोको यशसि पद्ये च स्तोकः स्याच्चातकाल्पयोः ।शुल्कं घट्टादिदेये तु वरादर्थग्रहे स्त्रियाः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2014 · p. 245
शष्पकर्दमयोः शादो वेदश्रवणयोः श्रुतिः ।श्लोकस्तु पद्ययशसोः शुण्डा मद्येभहस्तयोः ॥ २०१४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.60 · p. 218
कुक्कुटेऽग्नौ मयूरेंऽशौ वृक्षे केतुग्रहे शिखी ।पद्ये यशसि च श्लोकः षण्डौ विट्चरपण्डकौ ॥ ६० ॥
अनुष्टुप्

श्लोक as a meaning in nānārtha verses

  • धरणिकोश पद्यभृत्यो दासे भूतिर्भृत्या पुष्यः कलियुगर्क्षयोः । पद्यं श्लोके सृतिः पद्या लभ्यं लब्धव्ययुक्तयोः ॥ Dharaṇikośa 25.1.6
  • कोषकल्पतरु पद्यश्लोके तु पद्यं पथि योषिति स्यात् पुमांस्तु शूद्रे पदवेधके तु । दृश्यं पदं यत्र च तत्र भेद्ये बन्ध्यस्तु पूज्ये हठतोधृतेऽपि ॥ २७ ॥ Koṣakalpataru 6.26.27
  • नानार्थार्णवसंक्षेप रूपभूमौ तु रुह्वरी स्त्री स्यादथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुष्पु श्लोकशब्दयोः ॥ १११६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1116
  • शब्दरत्नावली इष्टिइष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् । कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥ Śabdaratnāvalī 7.11.3
  • शब्दरत्नावली गाथागन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥ गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥ उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥ दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ Śabdaratnāvalī 7.17.3
  • शब्दरत्नावली रूपग्रन्थावृत्तौ नाटकादौ श्लोके चा कोरकेऽपि च । रेपः क्रूरे निन्दिते च रोपो बाणे च रोपणे ॥ Śabdaratnāvalī 7.21.11
  • शब्दरत्नावली पद्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
  • शब्दरत्नाकर ग्रन्थशास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने । गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥ Śabdaratnākara 4.1.1909
  • शब्दरत्नाकर कारिकाकृतौ विवरणे श्लोके यातनायां च कारिका । कालिका घनजालेऽपि कमठो मुनिकूर्मयोः ॥ २०७० ॥ Śabdaratnākara 4.1.2070
  • वैजयन्ती रूपरूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ मितादिषु । सौन्दर्ये च स्वभावे च शरद्रेण्वार्तवे रजः ॥ २८ ॥ Vaijayantī 6.3.28
  • वैजयन्ती कारिकाकारिका यातनायां स्याच्छ्लोके विवरणे कृतौ । कूर्चिका मस्तुपिण्डेऽपि सूचितूलिकयोरपि ॥ ५ ॥ Vaijayantī 7.2.5