कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

देवविभागः (3/4)

अजितो देवकीसूनुः सुषेणः पांशुजालिकः ।खण्डास्यो जितमन्युश्च सुवृषः समितिञ्जयः ॥ २८२ ॥
3.282 · p. 38
अनुष्टुप्
षड्बिन्दुर्योगनिद्रालुः वृषाक्षो वायुवाहनः ।वर्द्धमानो वरारोहो रन्तिदेवो वृकोदरः ॥ २८३ ॥
3.283 · p. 38
अनुष्टुप्
यदुनाथो गदाचक्रशार्ङ्गश्रीवत्सशङ्खभृत् ।दशार्हः केशवः कृष्णः विश्वभुक् शिवकीर्तनः ॥ २८४ ॥
3.284 · p. 38
अनुष्टुप्
हृषीकेशो महाहंसः बहुरूपो महाक्रमः ।बहुशृङ्गो वरारोहो महामायो महातपाः ॥ २८५ ॥
3.285 · p. 38
अनुष्टुप्
हरिः सौरिः हृषीकेशः शौरिः सोमः स्वभूः स्थिरः ।पुनर्वसुः शतावर्तः शद्रुर्वंशः सुयामुनः ॥ २८६ ॥
3.286 · p. 38
अनुष्टुप्
अहिरिन्द्रानुजोऽजश्च पद्मेशयो वृषाकपिः ।ऊर्ध्वकर्मा महामायः उरुगाय उरुक्रम ॥ २८७ ॥
3.287 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
वैकुण्ठः कालकुण्ठश्च विष्वक्सेनो महीधरः ।धर्मलोकब्रह्मनाभाः सूक्ष्मनाभः सुरोत्तमः ॥ २८८ ॥
3.288 · p. 38
अनुष्टुप्
माधवो वासुदेवश्च मुञ्जकेशी कुमोदकः ।तमोघ्नश्च चतुर्दष्ट्रः त्रिधामाऽपि त्रिविक्रमः ॥ २८९ ॥
3.289 · p. 38
अनुष्टुप्
अच्युत आत्मभूश्चैव यज्ञनेमिर्बलिन्दमः ।शशसुवर्णबिन्दू वै वासवावरजस्तथा ॥ २९० ॥
3.290 · p. 39
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 3 सु (wrong syllable)
लोहिताक्षो लतापर्णः गोपेन्द्रोऽसंयुत्तोऽव्ययः ।गोवर्धनधरो वेधाः धारश्च धरणीधरः ॥ २९१ ॥
3.291 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 यु (wrong syllable)
लतापर्णो लतावर्णः कपिलः पाण्डवायनः ।पृश्निशृङ्गः शरुः शार्ङ्गी गरुडाङ्को गदाधरः ॥ २९२ ॥
3.292 · p. 39
अनुष्टुप्
दामोदरो मुकुन्दश्च क्रतुधामाऽप्यधोमुखः ।प्रासादः सोमसिन्धुश्च शलिकः शिलिकाजितः ॥ २९३ ॥
3.293 · p. 39
अनुष्टुप्
तीर्थपादस्तथा लक्ष्मीनाथश्चक्रपाणिः कपिः ।पद्मगर्भस्तथा भद्रकपिलश्च प्रमर्दनः ॥ २९४ ॥
3.294 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पा (wrong syllable)
पृश्निगर्भश्च हिरण्यकेशो यज्ञधरस्तथा ।एकाङ्गी एकशृङ्गश्च विश्वम्भरो जलेशयः ॥ २९५ ॥
3.295 · p. 39
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 हि (wrong syllable); pāda 4, syllable 3 म्भ (wrong syllable)
सुभद्रो वासुभद्रश्च विश्वरूपस्तथैव च ।वनमाली सदायोगी यवनारिरुदाहृतः ॥ २९६ ॥
3.296 · p. 39
अनुष्टुप्
पुनर्हिरण्यनाभश्च रुद्रकपिलनामकः ।लक्ष्मीनाथः स एवास्ति विष्णुनामानि चिन्तयेत् ॥ २९७ ॥
3.297 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्र (wrong syllable)
मधुर्मन्दो मुरः केशी हिरण्यकशिपुः बलिः ।अरिष्टः शिशुपालश्च द्विविदो यमलार्जुनौ ॥ २९८ ॥
3.298 · p. 40
अनुष्टुप्
कैटभः कालियः कंसः नरकः शकटस्तथा ।पूतना कालनेमिश्च हयग्रीवश्च धेनुकः ॥ २९९ ॥
3.299 · p. 40
अनुष्टुप्
राहुः साल्बश्च चाणूरो बाणो वध्योऽस्य मन्यते ।वाहनं वैनतेयस्तु शङ्खोऽस्य पाञ्चजन्यकः ॥ ३०० ॥
3.300 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
श्रीवत्सनामकोऽङ्कस्तु कृपाणोऽस्यास्ति नन्दकः ।कौमोदकी गदा विष्णोः ज्ञेया कौपोदकी तथा ॥ ३०१ ॥
3.301 · p. 40
अनुष्टुप्
चापं शार्ङ्गं तु विष्णोः स्यात् तथा चक्रं सुदर्शनः ।स्यमन्तको मणिर्हस्ते भुजमध्ये च कौस्तुभः ॥ ३०२ ॥
3.302 · p. 40
अनुष्टुप्
पिता तु वसुदेवोऽस्य स एवानकदुन्दुभिः ।दिन्दुः भूकश्यपश्चेति कथ्यते कोविदैः सदा ॥ ३०३ ॥
3.303 · p. 40
अनुष्टुप्

* बलदेवनामानि *

बलदेवो बलो रामः बलभद्रो बली हली ।प्रलापी कामपालश्च सात्वतोऽपि सितासितः ॥ ३०४ ॥
3.304 · p. 40
अनुष्टुप्
मुसली ताललक्ष्मा च कालिन्दीकर्षणस्तथा ।भद्रचलनभद्राङ्गौ प्रलम्बघ्नः प्रलम्बभिद् ॥ ३०५ ॥
3.305 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
अनन्तो नीलवस्त्रश्च सङ्कर्षणैककुण्डलौ ।यमुनाभित् तथा फालः रुक्मिभिद्रुक्मिदारणः ॥ ३०६ ॥
3.306 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
पौरः प्रियमधुर्गुप्तचरोऽच्युताग्रजस्तथा ।रेवतीशस्तथा रौहिणेयः शेषाहिनामभृत् ॥ ३०७ ॥
3.307 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्यु (wrong syllable)
इत्येवं बलदेवस्य नामानि कथितानि वै ।सौनन्दं मुसलं त्वस्य ज्ञेयं संवर्तकं हलम् ॥ ३०८ ॥
3.308 · p. 41
अनुष्टुप्

* लक्ष्मीनामानि *

भर्मरी विष्णुशक्तिः स्यात् क्षीरोदतनया तथा ।
3.269 · p. 41
अनुष्टुप्

* कामदेवनामानि *

अथ कामः कलाकेलिः कमनश्च शमान्तकः ॥ ३१० ॥
3.310 · p. 41
अनुष्टुप्
शिखिमृत्युर्मनोदाही मथनो मन्मथः स्मरः ।मदनो यौवनोद्भेदः प्रद्युम्नः पुष्पकेतनः ॥ ३११ ॥
3.311 · p. 41
अनुष्टुप्
अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः ।रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥
3.312 · p. 41
अनुष्टुप्
श्रीनन्दनश्च कन्दर्पः मधुदीपो महोत्सवः ।कन्तुः पुष्पध्वजो नाम मारश्च मधुसारथिः ॥ ३१३ ॥
3.313 · p. 41
अनुष्टुप्
स्यान् मनसिशयश्चेति नामानि हृच्छयोऽपि च ।इषुश्चापं तथाऽस्त्रं च कामपुष्पादि कथ्यते ॥ ३१४ ॥
3.314 · p. 41
अनुष्टुप्metre not read in every line
पुष्पास्त्रः पुष्पचापश्च पुष्पेषुः कुसुमायुधः ।तथा कुसुमधन्वा वै कुसुमबाणसंज्ञकः ॥ ३१५ ॥
3.315 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
अथ कामरिपुर्ज्ञेयः शंवरः शम्बरस्तथा ।शूर्पकश्चापि प्रख्यातः शंवरारिस्ततोऽपि सः ॥ ३१६ ॥
3.316 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
शम्बरारिः शूर्पकारिः कामचिह्नं तु केतनम् ।मीनश्च मकरश्चापि तस्मात् स मीनकेतनः ॥ ३१७ ॥
3.317 · p. 42
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स (wrong syllable)
मकरकेतनश्चापि स्याज्झषमकरध्वजौ ।बाणाः पञ्च तु कामस्य चूतं नीलोत्पलं तथा ॥ ३१८ ॥
3.318 · p. 42
अनुष्टुप्metre not read in every line
अरविन्दमशोकं च स्यात् तथा नवमल्लिका ।तस्मात् स पञ्चबाणोऽपि विषमेषुश्च कथ्यते ॥ ३१९ ॥
3.319 · p. 42
अनुष्टुप्
कामस्य स्त्री रतिर्नाम्नी तस्मात् रतिपतिर्भवेत् ।ज्ञेयो रतिवरश्चापि योनिस्त्वस्य मनस्तथा ॥ ३२० ॥
3.320 · p. 42
अनुष्टुप्
आत्मा शृङ्गारसंकल्पौ तस्मात् चेतोभवस्तथा ।आत्मभूरात्मयोनिश्च शृङ्गारयोनिरुच्यते ॥ ३२१ ॥
3.321 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
तथा शृङ्गारजन्मा च संकल्पयोनिसंज्ञकः ।स्मृतिभूश्च मनोयोनिः कामसंज्ञाश्च यौगिकाः ॥ ३२२ ॥
3.322 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्प (wrong syllable)
काममित्रं मधु चैत्रः तस्मात् चैत्रसखस्तथा ।मधुसुहृत् च नामानि कामस्य यौगिकानि च ॥ ३२३ ॥
3.323 · p. 42
metre not recognised
स्यात् सुतोऽस्याऽनिरुद्धो हि उषारमणसंज्ञकः ।ऋष्याङ्कः ऋष्यकेतुश्च उषेशो ब्रह्मसूरपि ॥ ३२४ ॥
3.324 · p. 42
अनुष्टुप्

* गरुडनामानि *

गरुडश्च गरुत्मान् वै कामायुः काश्यपिस्तथा ।सौपर्णेयः सुपर्णश्च वज्रिजिद्विष्णुवाहनम् ॥ ३२५ ॥
3.325 · p. 43
अनुष्टुप्
अरुणावरजस्तार्क्ष्यो महापक्षो विषापहः ।उन्नीतशः शिलाऽनीहः स्वर्णकायो विशालकः ॥ ३२६ ॥
3.326 · p. 43
अनुष्टुप्
पक्षिसिंहः सुधाहृत् च पक्षिस्वामी तथाऽहिभुक् ।स्वमुखभूर्महावेगः शाल्मली गरलस्तथा ॥ ३२७ ॥
3.327 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ख (wrong syllable)
वज्रतुण्डाह्वयश्चैव वैनतेयस्तथैव च ।सर्पारातिश्च नामानि ज्ञेयानि गरुडस्य वै ॥ ३२८ ॥
3.328 · p. 43
अनुष्टुप्

* बुद्धनामानि *

बुद्धो बौद्धो बुधो बोधिर्महाबोधिस्त्रिकालवित् ।बोधिसत्त्वो महासत्त्वो दशपारमिताधरः ॥ ३२९ ॥
3.329 · p. 43
अनुष्टुप्
संगुप्तः सुगतो योगी खजिद्विज्ञानमातृकः ।आर्यश्चाऽर्हन् दशाहश्च शास्ता विज्ञानदेशनः ॥ ३३० ॥
3.330 · p. 43
अनुष्टुप्
षडभिज्ञश्चतुस्त्रिंशज्जातकज्ञस्तथागतः ।जिनः समन्तभद्रश्च दशार्हः श्रीघनाऽद्वयौ ॥ ३३१ ॥
3.331 · p. 43
अनुष्टुप्
सिद्धार्थो विगतद्वन्द्वः लोकनाथः सुनिश्चितः ।लोकजित् मारजित् चैव त्रिकायश्च तथागतः ॥ ३३२ ॥
3.332 · p. 43
अनुष्टुप्
पञ्चज्ञानो महामैत्रो मुनीन्द्रश्च विनायकः ।धर्मधातुर्दयाकूर्चो भगवान् दशभूमिगः ॥ ३३३ ॥
3.333 · p. 44
अनुष्टुप्
धर्मराजश्च नामानि बुद्धस्य कथितानि वै ।तथैवेमानि नामानि विपश्यी च शिखी तथा ।विश्वभूश्च क्रकुच्छन्दः काञ्चनः काश्यपस्तथा ॥ ३३४ ॥
3.334 · p. 44
अनुष्टुप्
नामावल्यां शाक्यसिंहः मायासुतोऽर्कबान्धवः ।शुद्धोदनसुतः शाक्यो देवदत्ताप्रजस्तथा ॥ ३३५ ॥
3.335 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
राहुलसूश्च सर्वार्थसिद्धश्च गोतमान्वयः ।शौद्धोदनिश्च शाक्यस्य नामानि दश सन्ति च ॥ ३३६ ॥
3.336 · p. 44
अनुष्टुप्metre not read in every line

* असुरनामानि *

असुरा दानवाश्चैव दैतेया दितिजास्तथा ।दनुजाः पूर्वदेवाश्च पातालौकःसुरारयः ॥ ३३७ ॥
3.337 · p. 44
अनुष्टुप्
शुक्रशिष्याश्च नामानि ज्ञातव्यानि सदा बुधैः ।
3.298 · p. 44
अनुष्टुप्

* षोडश विद्यादेवीनामानि *

विद्यादेव्यास्तु नामानि षोडश क्रमशस्त्वधः ॥ ३३८ ॥
3.338 · p. 44
अनुष्टुप्
रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा ।देवी चक्रेश्वरी चैव नरदत्ताभिधा पुनः ॥ ३३९ ॥
3.339 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ञ (wrong syllable)
काली देवी महाकाली गौरीदेवी तथैव च ।गान्धारी चापि सर्वास्त्रमहाज्वाला च मानवी ॥ ३४० ॥
3.340 · p. 44
अनुष्टुप्
वैरोट्या संज्ञका देवी अच्छुप्ता मानसी तथा ।महामानसिका चेति कथ्यन्ते ज्ञानिभिः किल ॥ ३४१ ॥
3.341 · p. 45
अनुष्टुप्

* सरस्वतीदेवीनामानि *

देवी सरस्वती ब्राह्मी श्रुतदेवी च भारती ।वाग्गीर्वाणी तथा गौश्च भाषा च वचनं तु वै ॥ ३४२ ॥
3.342 · p. 45
अनुष्टुप्
भाषितं भणितं चैव जल्पितं लपितं वचः ।व्याहारश्चाभिधानं स्यादुदितं गदितं तथा ॥ ३४३ ॥
3.343 · p. 45
अनुष्टुप्

* वाक्यपदयोर्लक्षणम् *

सविशेषणमाख्यातं वाक्यं स्त्याद्यन्तकं पदम् ।
3.305 · p. 45
अनुष्टुप्

* आगमनामानि *

आगमश्चापि सिद्धान्तः राद्धान्तः समयस्तथा ॥ ३४४ ॥
3.344 · p. 45
अनुष्टुप्
आप्तोक्तिश्च कृतान्तो वै नामानि तु विशेषतः ।आचाराङ्गाह्वयं सूत्रकृतं थानाङ्गसंज्ञकम् ॥ ३४५ ॥
3.345 · p. 45
अनुष्टुप्
चतुर्थं समवायाङ्गं भगवत्यङ्गसंज्ञकम् ।ज्ञाताधर्मकथाङ्गं वै उपाशक्राऽन्तकृद्दशाः ॥ ३४६ ॥
3.346 · p. 45
अनुष्टुप्
अनुत्तरोपपातिकदशाङ्गं नवमं तथा ।प्रश्नव्याकरणाङ्गं वै विपाकाङ्गं श्रुतं तथा ॥ ३४७ ॥
3.347 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ति (wrong syllable)
इति चैकादशाङ्गानि उपाङ्गसहितानि हि ।उपाङ्गानां तु नामानि प्रथममौपपातिकम् ॥ ३४८ ॥
3.348 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
द्वितीयं राजप्रश्नीयं जीवाभिगममित्यपि ।प्रज्ञापनाह्वयं जम्बूद्वीपप्रज्ञप्तिरित्यपि ॥ ३४९ ॥
3.349 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज (wrong syllable)
चन्द्रप्रज्ञप्त्युपाङ्गं वै सूर्यप्रज्ञप्तिरित्यपि ।निरयावलिकोपाङ्गं तथा कल्पावतंसिका ॥ ३५० ॥
3.350 · p. 46
अनुष्टुप्
पुष्पिकासंज्ञकं पुष्पचूलिका नाम विद्यते ।वृष्णिदशाभिधं चेति स्यादुपाङ्गानि चागमे ॥ ३५१ ॥
3.351 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
पुनर्द्वादशमङ्गं वै दृष्टिवादाह्वयं किल ।द्वादशाङ्गी च प्रख्याता गणिपिटकमित्यपि ॥ ३५२ ॥
3.352 · p. 46
अनुष्टुप्metre not read in every line
भेदास्तु दृष्टिवादस्य क्रमशः पञ्चसंख्यकाः ।परिकर्म तथा सूत्रम् पूर्वानुयोगसंज्ञकम् ॥ ३५३ ॥
3.353 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
पूर्वगतं चतुर्थं स्यात् पञ्चमः चूलिकाऽभिधम् ।पूर्वगते तु पूर्वाणि चतुर्दश यथाक्रमम् ॥ ३५४ ॥
3.354 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable); pāda 3, syllable 3 ग (wrong syllable)
आद्यमुत्पादपूर्वं चाऽग्रायणीयाह्वयं तथा ।वीर्यप्रवादपूर्वं वै अस्तिनास्तिप्रवादकम् ॥ ३५५ ॥
3.355 · p. 46
अनुष्टुप्
ज्ञानप्रवादपूर्वं वै सत्यप्रवादसंज्ञकम् ।आत्मप्रवादपूर्वं च कर्मप्रवादपूर्वकम् ॥ ३५६ ॥
3.356 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
प्रत्याख्यानप्रवादं वै विद्याप्रवादपूर्वकम् ।तथा कल्याणप्रवादं प्राणावायप्रवादकम् ॥ ३५७ ॥
3.357 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
क्रियाविशालपूर्वं च हि लोकबिन्दुसारकम् ।इत्येवं कथितं शास्त्रे ज्ञानिभिश्च महर्षिभिः ॥ ३५८ ॥
3.358 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)

* वेदनामानि *

वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा ।आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥
3.359 · p. 47
अनुष्टुप्
ऋग्वेदश्च यजुर्वेदः सामवेदस्तृतीयकः ।चतुर्थोऽथर्ववेदस्तु तस्मात् चत्वार एव ते ॥ ३६० ॥
3.360 · p. 47
अनुष्टुप्
उपनिषच्च वेदान्तो वेदसारस्य नामनी ।मन्त्रबीजञ्च प्रख्यातमोङ्कारप्रणवाविमौ ॥ ३६१ ॥
3.361 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable); pāda 3, syllable 5 ञ्च (wrong syllable)
षडङ्गानि तु वेदस्य शिक्षा च कल्पसंज्ञकः ।व्याकरणं तथा छन्दो ज्योतिर्निरुक्तिरेव च ॥ ३६२ ॥
3.362 · p. 47
metre not recognised
स्मृतिः स्याद्धर्मशास्त्रञ्च तथा च धर्मसंहिता ।ज्ञातव्या तर्कविद्या वै आन्वीक्षिकी च या स्मृता ॥ ३६३ ॥
3.363 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 क्षि (wrong syllable)
विचारणा तु मीमांसा सर्गस्तु प्रतिसर्गकः ।तथा वंशश्च वंशानुवंशचरितसंज्ञकम् ॥ ३६४ ॥
3.364 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 श (wrong syllable)
मन्वन्तराणि यत्र स्युः पुराणं पञ्चलक्षणम् ।षडङ्गसहिता वेदाः मीमांसाऽऽन्विक्षिकी तथा ॥ ३६५ ॥
3.365 · p. 47
अनुष्टुप्
त्रयोदशं धर्मशास्त्रं पुराणं च चतुर्दशम् ।चतुर्दशैताः विधाः स्युः लोकशास्त्रे हि उत्तमाः ॥ ३६६ ॥
3.366 · p. 47
अनुष्टुप्
अथ सूचनकृत् सूत्रं सूत्रोक्तार्थप्रपञ्चकम् ।भाष्यं ज्ञेयं च प्रस्तावः प्रकरणं ज्ञायतां तथा ॥ ३६७ ॥
3.367 · p. 48
अनुष्टुप्metre not read in every line
पदभञ्जनमेवं हि निरुक्तं शीघ्रपाठतः ।अवान्तरप्रकरणविश्रामे ह्याह्निकं तु वै ॥ ३६८ ॥
3.368 · p. 48
अनुष्टुप्
अधिकारोऽधिकरणमेकन्यायोपपादनम् ।उक्तानुक्तदुरुक्तार्थचिन्ताकारि च वार्त्तिकम् ॥ ३६९ ॥
3.369 · p. 48
अनुष्टुप्
तथा निरन्तरव्याख्या सा टीका कथ्यते बुधैः ।पुनर्न्यासः पञ्जिकापि तथा स्यात् पदभञ्जिका ॥ ३७० ॥
3.370 · p. 48
अनुष्टुप्
अथाऽन्वर्थे निबन्धश्च वृत्तिः स्यात् संग्रहस्तु वै ।समाहृतिः तथा ज्ञेया परिशिष्टं तु पद्धतिः ॥ ३७१ ॥
3.371 · p. 48
अनुष्टुप्
अध्यायोऽङ्कस्तथोच्छवासः सर्गः प्रमुखमत्र स्यात् ।ग्रन्थस्यावयवाः प्रोक्ताः काव्यादौ यत्र कुत्रचित् ॥ ३७२ ॥
3.372 · p. 48
अनुष्टुप्metre not read in every line
कारिका स्वल्पवृत्तौ स्याद् बहोरर्थस्य सूचिका ।ज्ञातव्या सर्वविद्या च कलिन्दिका कडिन्दिका ॥ ३७३ ॥
3.373 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दि (wrong syllable)
निघण्टुः शब्दकोषः स्याद् नामसंग्रह इत्यपि ।इतिहासः पुरावृत्तं द्वयं पूर्वचरित्रके ॥ ३७४ ॥
3.374 · p. 48
अनुष्टुप्
सूचकः गुप्तभावस्य प्रवह्लिका प्रहेलिका ।जनश्रुतिः किंवदन्तीर्वार्तैतिह्यं पुरातनी ॥ ३७५ ॥
3.375 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह्लि (wrong syllable)
उदन्तस्तु प्रवृत्तिः स्याद् वार्ता वृत्तान्तकस्तथा ।अथाऽऽख्याऽऽह्वाऽभिधाऽभिख्या संज्ञा गोत्रं तथाऽऽह्वयः ॥ ३७६ ॥
3.376 · p. 48
अनुष्टुप्
नामधेयं च नाम स्यादथ सम्बोधनं पदम् ।आन्त्रणमपि ज्ञेयमाह्वानं त्वभिमन्त्रणम् ॥ ३७७ ॥
3.377 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आकारणं तथाऽऽकारो हूतिराकारणं हवः ।हक्कारकश्च हक्कारः संहूतिर्बहुभिः कृता ॥ ३७८ ॥
3.378 · p. 49
अनुष्टुप्

* प्रस्तावनामानि *

उपोद्घात उपन्यास उदाहारश्च वाङ्मुखम् ।विवादो व्यवहारः स्यात् शपनं शपथः शपः ॥ ३७९ ॥
3.379 · p. 49
अनुष्टुप्
अथ प्रतिवचस्तु स्यादुत्तरञ्चापि कथ्यते ।पृच्छाऽनुयोजनं प्रश्नः कथंकथिकता किल ॥ ३८० ॥
3.380 · p. 49
अनुष्टुप्
तथा पर्यनुयोगो वै अनुयोगश्च कथ्यते ।देवप्रश्नस्तथैव स्यादुपश्रुतिश्च चाटु च ॥ ३८१ ॥
3.381 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्रु (wrong syllable)
प्रियप्रायं चटु तु स्यात् प्रियसत्यं तु सूनृतम् ।अथ सत्यं तथा सम्यक् समीचीनं यथास्थितम् ॥ ३८२ ॥
3.382 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 टु (wrong syllable)
यथातथमृतं तथ्यं सद्भूतं स्यान् मृषाऽनृतम् ।अलीकं वितथं मिथ्याऽसत्यं सत्येतरत् तथा ॥ ३८३ ॥
3.383 · p. 49
अनुष्टुप्
स्यात् क्लिष्टं सङ्कुलं चैव परस्परपराहतम् ।सान्त्वं सुमधुरं ख्यातमश्लीलं ग्राम्यमस्फुटम् ॥ ३८४ ॥
3.384 · p. 49
अनुष्टुप्
अस्पष्टं स्यात् तथा म्लिष्टं लुप्तवर्णपदं पुनः ।ग्रस्तं ध्वस्तमवाच्यं तु प्रोक्तमनक्षरं बुधैः ॥ ३८५ ॥
3.385 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
अम्बूकृतं सनिष्ठेव सथूत्कारे च कथ्यते ।तथा निरस्तं सर्वत्र जानातु त्वरयोदितम् ॥ ३८६ ॥
3.386 · p. 50
अनुष्टुप्
भवेदाम्रेडितं द्विस्त्रिरुक्तं निरर्थकं तु वै ।असम्बद्धं तथाऽबद्धं कथितं पण्डितैर्जनैः ॥ ३८७ ॥
3.387 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
पृष्ठमांसादनं तद्यद् परोक्षे दोषदर्शनम् ।अथ मिथ्याभियोगः स्यादभ्याख्यानं तथा किल ॥ ३८८ ॥
3.388 · p. 50
अनुष्टुप्
स्याद्धृदयंगमं चैव सङ्गतं परुषं वचः ।विक्रुष्टं निष्ठुरं रुक्षमुच्चैर्घुंष्टं तु घोषणा ॥ ३८९ ॥
3.389 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
अथेडा वर्णना श्लाघा स्तवः स्तुतिर्नुतिस्तथा ।स्तोत्रं तथा प्रशंसा स्यादर्थवादश्च मन्यते ॥ ३९० ॥
3.390 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
विकत्थनं च मिथ्या स्यात् कौलिनं वचनीयता ।तथा जनप्रवादो वै विगानं च निगद्यते ॥ ३९१ ॥
3.391 · p. 50
अनुष्टुप्
उपक्रोशोऽपवादश्च गर्हा गर्हश्च गर्हणा ।जुगुप्सनं जुगुप्सा च निन्दा कुत्सा च धिक्क्रिया ॥ ३९२ ॥
3.392 · p. 50
अनुष्टुप्
निर्वादः परिवादश्चाऽवर्णः क्षेपश्च कथ्यते ।स्यादाऽक्रोशस्तथाऽऽक्षेपः शापस्तथाभिषङ्गकः ॥ ३९३ ॥
3.393 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
क्षारणाऽऽक्षारणा स्याद्वै स रते दूषणं तथा ।विरुद्धशंसनं गालिराशीर्मङ्गलशंसनम् ॥ ३९४ ॥
3.394 · p. 50
अनुष्टुप्
अथ कीर्तिः समाख्या स्याद् श्लोकोऽभिख्या यशस्तथा ।समाज्ञा रुशती वाणी सर्वथा याऽशुभा भवेत् ॥ ३९५ ॥
3.395 · p. 50
अनुष्टुप्
तथा कल्या शुभा वाणी चर्भटी चर्चरी समे ।यः सनिन्द उपालम्भः स्यात् तत्र परिभाषणम् ॥ ३९६ ॥
3.396 · p. 51
अनुष्टुप्
अथाऽऽपृच्छा च सोम्भाष आलापश्चापि कथ्यते ।मुहुर्वचोऽनुलापः स्यात् प्रलापश्चाप्यनर्थकम् ॥ ३९७ ॥
3.397 · p. 51
अनुष्टुप्
अथोयशोचनं स्याच्च विलापः परिदेवनम् ।उल्लापः काकुवाहः स्याद् अन्योन्यक्तिस्तु संकथा ॥ ३९८ ॥
3.398 · p. 51
अनुष्टुप्