आम्रेडित
āmreḍitaक्ली · neut.In 12 kośas: 12 synonym verses.
genderक्लीneut.
विदुराम्रेडितं प्राज्ञा द्विस्त्रिर्व्याहरणं च यत् ।कीर्तिः श्लोको यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः ॥ १५३ ॥
अनुष्टुप्
genderक्लीneut.
आक्षेपे निष्ठुरा तु स्याद्वाक्यं तु वचनं वचः ।आम्रेडितं द्विस्त्रिरुक्तं गुणितं घोषितं रुतम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
आम्रेडितं द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् ।सोल्लुण्ठनं तु सोत्प्रासं मणितं रतकूजितम् ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
उच्चैर्घुष्टं घोषणाम्रेडितं तुद्विस्त्रिः प्रोक्तं काकु वाक्ये न पुंसि ।उल्लापने स्याद्गह्वरो पुष्टशब्दोवारं वारं भाषणे चानुलापः ॥ ४५ ॥
शालिनीmetre not read in every linenearly शालिनी
genderक्लीneut.
क्षारणा रतशापे स्यादाशीः परसुभाषणम् ।कीर्तिर्यशः समाज्ञा चाभिख्याम्रेडितमेव तत् ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.
आम्रेडितं बहुततं पौनरुक्त्ये प्रकीर्तितम् ।निन्दावाचि विगर्हा स्यात्कुत्सा चापि विगर्हणा ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
भीतिः शोकारवः काकुरुपन्यासोऽतिवाङ्मयम् ।आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्ट[ष्ठ]नघोषणे ॥ ३६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
भवेदाम्रेडितं द्विस्त्रिरुक्तं निरर्थकं तु वै ।असम्बद्धं तथाऽबद्धं कथितं पण्डितैर्जनैः ॥ ३८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderविadj.
द्वित्रिवारं तदुक्तं स्यात् तदाऽम्रेडितमुच्यते ।उच्चैर्घुष्टं घोषणा स्यान्निर्घुष्टं घूष्टघोषणे ॥
अनुष्टुप्
genderक्लीneut.
द्वित्रिरुदीरितमाम्रेडितमथ शोकेन भीत्यादेः ।काकुः स्त्री ध्वनिविकृतिर्व्यवहारोऽक्षो विवादश्च ॥ ९२६ ॥
उपगीतिः
genderक्लीneut.
आम्रेडितं द्विस्त्रिरुक्तं गुणितं घोषितं समे ।अरणिर्ना मुहुः प्रोक्तमनुलापश्च वर्तनम् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.