समाप्त
samāptaIn 5 kośas: 0 synonym verses, 8 as a meaning of another word.
समाप्त as a meaning in nānārtha verses
- धरणिकोश सिततिक्तो रसे पर्पटिकौषधौ च तिक्तं सुगन्धे कटुका च तिक्ता । सितो निरुद्धे धवले समाप्ते ज्ञाते सिता स्यादशुचप्रकारे ॥ Dharaṇikośa 15.2.19
- धरणिकोश समापन्ननिर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । समापन्नं वधे प्रोक्तं समाप्तलब्धयोस्तथा ॥ Dharaṇikośa 19.2.80
- कोषकल्पतरु सितयुक्तेऽप्ययुक्तेऽप्यथ गत्यभावे स्थितं ध्रुवोर्ध्वेषु च सप्रतिज्ञे । सितः समाप्ते धवले च नि[286b]श्चिते शितं तु शाते निशितेऽथ शातम् ॥ ७ ॥ Koṣakalpataru 6.16.7
- कोषकल्पतरु समापन्नस्वीकृतविज्ञातार्थे प्रतिपन्नोऽथो समाप्ते तु । प्राप्ते क्षिप्ते च वधे त्वन्त्ये क्षिप्ते समापन्नम् ॥ ११ ॥ Koṣakalpataru 6.21.11
- नानार्थार्णवसंक्षेप संस्थितन्याय्ये शक्ते सदस्यस्तु यज्ञानां विधिदर्शिनि । सभ्ये च संस्थितस्तु स्यात् समाप्ते च मृतेऽपि च ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 3.4.58
- नानार्थार्णवसंक्षेप अवसितनिश्चिते स्यादवसितं समाप्त उषितेऽपि च । अवाचीनं विपर्यस्तेऽप्यवागर्थेऽपि दर्शितम् ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 6.9
- शब्दरत्नावली समापन्नसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- वैजयन्ती अवसितनिश्चिते स्यादवसितं समाप्त उषितेऽपि च । अवदातः सिते गौरे शुद्धे चाथावलंबिते ॥ ३ ॥ Vaijayantī 8.4.3