All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · तान्ताः (1/2)
[286a] इति णान्तादिवर्गः ।
एकतः
एकतान्ताः ।
तो मोहतन्त्रेऽपि च तस्करे चक्रोडे च पुच्छे श्रियि तु स्मृता [स्त्री]प्राहुर्जटाभार्ङ्गिकयोरथो तुनिर्वर्तने चाखिलतो विशेषे ॥ १ ॥
6.16.1 · p. 204
इन्द्रवज्रा
द्विताः ।
ततोऽनिले ना जनके च वीणा-दिकेऽन्तिमेऽथ त्रिषु विस्तृते स्यात् ।व्याप्तेऽथ भावक्तयुता द्विहीनामेद्येऽन्यथा स्युः सुरते तु गुह्ये ॥ २ ॥
6.16.2 · p. 205
उपजातिः
रतं घृतं त्वाज्यपयःसु न स्त्रीदीप्तेऽन्यवत्स्यादृतमुञ्छवृत्तौ ।सत्ये च तोये परवत्प्रदीप्त-सपूज्ययोश्चाथ कृतं युगे स्यात् ॥ ३ ॥
6.16.3 · p. 205
उपजातिः
फले च पर्याप्तगतं च षण्ढेत्रिषु प्रणीतेऽपि च हिंसिते च ।धुतं भवे*******धूतं तथा भर्त्सितकम्पितार्थम् ।पूतं पवित्रे बहुलीकृते चतोयेऽथ शास्त्रेऽवधृते श्रुतं स्यात् ॥ ५ ॥
6.16.5 · p. 205
उपेन्द्रवज्राtwo metres in one verse
स्यूतं प्रसेवोतगतं नतं तुनम्रे पुमान्स्यात्तगरद्रुमे च ।शीघ्रे विलीने च पलायिते चद्रुतं युतं हस्तचतुष्टये स्यात् ॥ ६ ॥
6.16.6 · p. 205
उपजातिः
युक्तेऽप्ययुक्तेऽप्यथ गत्यभावेस्थितं ध्रुवोर्ध्वेषु च सप्रतिज्ञे ।सितः समाप्ते धवले च नि[286b]श्चितेशितं तु शाते निशितेऽथ शातम् ॥ ७ ॥
6.16.7 · p. 205
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 10 नि[286b]श्चि (syllable split)
सुखे कृशे चाथ हितं धृते स्या-त्पथ्ये सुतः पार्थिवपुत्रयोः स्यात् ।विशेष्यवच्चाभिषुतेऽथ सूतःप्रसूतसंप्रेरिततक्षसु स्यात् ॥ ८ ॥
6.16.8 · p. 205
उपजातिः
स्यात्सारथौ बन्दिनि पारदे चक्षत्राद्द्विजस्त्रीतनयेऽपि तद्वत् ।प्लुतं तुरंगादिगतौ प्रलिप्तेत्रिमात्रके गुम्फितवस्त्रयोस्तु ॥ ९ ॥
6.16.9 · p. 205
उपजातिः
प्रोतं परेते त्वपि भूतभेदेप्रेतोऽन्तिमे श्वेतमुशन्ति रूप्ये ।द्वीपागयोर्ना परवत्तु शुक्लेस्त्रियां कपर्दे भिदि पाटलायाः ॥ १० ॥
6.16.10 · p. 206
उपजातिः
शङ्खौषधौ [संस्तु] सदस्यपूज्य-साधुप्रशस्येष्वपि विद्यमाने ।स्त्रियां त्वपर्णाकुलयोषितोः स्या-देतस्तु किर्मीर उपागते च ॥ ११ ॥
6.16.11 · p. 206
उपजातिः
तातोऽनुकम्प्ये जनकेऽपि जातंजातौ गणे च त्रिषु तु प्रजाते ।त्राते तु पातः पतनेऽथ रातोलातश्च दत्तेऽप्युररीकृते च ॥ १२ ॥
6.16.12 · p. 206
इन्द्रवज्रा
घातस्तु काण्डे प्रहृतौ च पोतःपुनर्वहित्रे पृथुके च पुंसि ।लोतं तु मुष्टेऽश्रुणि ना तु मेषेगीतं पुनः शब्दितगानयोः स्यात् ॥ १३ ॥
6.16.13 · p. 206
उपजातिः
प्रीतं पुनः स्याद्धृषिते च[287a]मर्म-ण्यसारहस्त्यश्वमुखेषु वीतम् ।सृणीक्रियायामथ भीतमाहु-र्भये भयेनापि युतेऽन्यलिङ्गम् ॥ १४ ॥
6.16.14 · p. 206
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 प्री (wrong syllable)
सत्ये व्यतीतेऽप्युचितोपमान-प्राप्तप्रवृत्तेषु विशेष्यगामि ।भूम्यादिपञ्चस्वपि चेतनेऽन्त्येप्रेते पिशाचेऽपि च भूतमस्त्री ॥ १५ ॥
6.16.15 · p. 206
इन्द्रवज्रा
कुमारके देवलके च नाथकेतुः पुमान्केतनरुग्ग्रहेषु ।उत्पातलक्ष्मारिषु चाथ सेतुःपुंस्यावलौ स्याद्वरुणेऽपि तद्वत् ॥ १६ ॥
6.16.16 · p. 207
उपजातिः
भातुर्मयूखे खरभासि चाथयातुः पुमानध्वगकालयोः स्यात् ।क्लीबे तु रक्षस्यथ धातुरश्म-विकारपञ्चेन्द्रियगोचरेषु ॥ १७ ॥
6.16.17 · p. 207
उपजातिः
वातादिदोषेषु रसादिकेषुश्रोण्यादिभूषास्तिपचादिषु स्यात् ।विशेषतस्त्वस्थिनि गैरिकेऽथदेहेऽप्तुराद्ये परगस्त्वभीष्टे ॥ १८ ॥
6.16.18 · p. 207
उपजातिः
मुनिप्रभेदे क्रतुरध्वरे चऋतुर्वसन्तादिकवीरयोश्च ।कान्तौ च योषित्कुसुमेषु पुंसिगातुस्तु गन्धर्वपिकालिषु स्यात् ॥ १९ ॥
6.16.19 · p. 207
उपजातिः
पान्थेऽन्यवद्रोषिणि पुंसि कन्तु-श्चित्ते स्मरेऽथो मनुजेऽपि मन्तुः ।प्रजापतावागसि चाथ जन्तु-[287b]र्न स्त्री कृमौ प्राणिनि च प्रदिष्टः ॥ २० ॥
6.16.20 · p. 207
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 प्र (wrong syllable)
पीतुर्हुताशे च दिवाकरे चकरे प्रकोष्ठेन युते कचादेः ।परः समूहेऽपि नयोषिदृक्षेत्वेष द्विलिङ्गोऽपि बुधैः प्रदिष्टः ॥ २२ ॥
6.16.22 · p. 207
उपजातिः
धूर्तं तु खण्डलवणे धत्तूरे ना शठे परवत् ।खातेऽस्त्रियां च पूर्तं परवच्छन्ने च पूरिते तत्स्यात् ॥ २३ ॥
6.16.23 · p. 208
उद्गीतिः
स्यान्मूर्तं मूर्छाले मूर्तियुते भेद्यलिङ्गस्थम् ।गर्तो देशविशेषे नर्यथ रन्ध्रे ककुन्दरे द्वंद्वे ॥ २४ ॥
6.16.24 · p. 208
उद्गीतिः
आप्तः सत्ये लब्धे प्राप्तं चिह्ने समञ्जसे लब्धे ।स्वाप्तं खाते क्रान्ते गुप्तं त्राते च गूढे च ॥ २५ ॥
6.16.25 · p. 208
आर्या
लिप्तं विषाक्तासितलेपनेषुदीप्तं तु दग्धे ज्वलितेऽतिभासि ।कृत्तं भवेच्छिन्नविवेष्टितेषुदत्तं वितीर्णे वदिते च शस्तम् ॥ २६ ॥
6.16.26 · p. 208
इन्द्रवज्रा
वातं प्रवाते पवने तु पुंसितूस्तं जटाधूलिरजःसु पापे ।अस्तः पुमान्पश्चिमपर्वतेऽथक्षिप्ते गते स्यादिह भेद्यलिङ्गः ॥ २७ ॥
6.16.27 · p. 208
इन्द्रवज्रा
ग्रासीकृते ग्रस्तमुशन्ति भेद्येतल्लुप्तवर्णे वचनेऽन्तिमे स्यात् ।पुस्तोऽस्त्रियां पुस्तकलेप्यकर्म-विज्ञानकेषु प्रथितः प्रवीणैः ॥ [288a] २८ ॥
6.16.26 · p. 208
इन्द्रवज्रा
क्षेमेऽन्तिमे शस्तमथ प्रशस्तेत्रयेऽथ वित्तं धनवाचि षण्ढे ।ज्ञाने प्रतीते तु विचारिते चत्रयेऽथ वृत्तौ चरितेऽपि वृत्तम् ॥ २९ ॥
6.16.29 · p. 208
उपजातिः
छन्दस्यपि स्त्री न दृढे त्वतीतेमृते वृते वर्तुलकेऽन्यवच्च ।अन्तो विनाशे चरमे स्वरूपेप्रान्ते तु न स्त्री निकटे त्रिलिङ्ग्याम् ॥ ३० ॥
6.16.30 · p. 208
उपजातिः
वृन्तं कुचाग्रे घटवारिधार-वाचि द्वयोनं सुमबन्धनेऽपि ।अद्रेर्नितम्बे दशने निकुञ्जेदन्तः स्त्रियामौषधिभेदवाची ॥ ३१ ॥
6.16.31 · p. 209
इन्द्रवज्रा
स्वान्तं भवेच्चेतसि गह्वरे चप्रासे तु चण्डे च गवेधुकायाम् ।कुन्तः स्त्रियां गुग्गुलुपादपे चस्यात्सल्लकीपाण्डुवधूगतश्च ॥ ३२ ॥
6.16.32 · p. 209
इन्द्रवज्रा
कान्तोऽश्मभेदे नरि तत्पटस्थ(?)प्रिये मनोज्ञे त्रितयेऽथ योषित् ।नारीफलिन्योरथ पुंसि शान्तोरसेऽतिमुक्ते दमितेऽन्यवत्स्यात् ॥ ३३ ॥
6.16.33 · p. 209
उपजातिः
व्यक्तो बुधे ना प्रकटे पराभो-ऽथोक्तं द्वयोरेककवर्णवृत्ते ।विशेष्यवत्स्यात्कथितेऽथ शुक्तमम्ले कठोरे त्रिषु पूतवाचि ॥ ३४ ॥
6.16.34 · p. 209
उपजातिः
तिक्तो रसे ना सुरभौ च षण्ढेकिरातके पर्पटके स्त्रियां तुकट्व्या[288b]मथो रिक्तमरण्य उक्तंशून्येऽन्यवत्स्याद्धुसृणे तु रक्तम् ॥ ३५ ॥
6.16.35 · p. 209
metre not recognised
प्राचीनके चामलके च ताम्रेरसोत्थधातौ विकसौषधौ स्त्री ।शोणे पुमांस्तद्वति रागयुक्तेनील्यादिरक्तेऽपि परस्य लिङ्गे ॥ ३६ ॥
6.16.36 · p. 209
उपजातिः
न्याये तु युक्तं त्रिषु मिश्रितादौकूरे तु भक्तं त्रिषु सेवितादौ ।मुक्तोऽपवृत्ते त्रिषु मोक्षिते स्यात्स्तः शंस्तारौ स्तोतृविनाशकौ च ॥ ३७ ॥
6.16.37 · p. 209
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 3 स्ता (wrong syllable)
समन्तभद्रे नरि शासके तुत्रय्यां च शास्ता करिपे तु यन्ता ।सूतेऽथ नप्तात्मजपुत्रकाजेक्षत्ता प्रतीहारिणि सारथौ च ॥ ३८ ॥
6.16.38 · p. 210
उपजातिः
क्षत्राङ्गनायां वृषलाच्च जातेतथा भुजिष्याभवनन्दनेऽपि ।होता तु ऋत्विग्भिदि यष्टरि स्यात्पोतापि ऋत्विग्भिदि केशवे च ॥ ३९ ॥
6.16.39 · p. 210
उपजातिः
वप्ता तु ताते दहनेऽथ धातारवौ विरिञ्चौ नरि भेद्यवत्तु ।स्यात्पालकेऽथो जननीधरण्योर्ब्राह्म्यादिषु स्याद्गवि चैव माता ॥ ४० ॥
6.16.40 · p. 210
उपजातिः
खे त्वन्तिमे मानकृतित्रये चपिता तु तातेऽप्यभयादिदे च ।भर्ता प्रभौ धातरि चाथ नेता[289a] स्यान्नायके प्राप्तिकरे च भेद्ये ॥ ४१ ॥
6.16.41 · p. 210
उपजातिःmetre not read in every line
त्रेता युगेऽग्नित्रितयेऽपि योषित्लता तु शाखाहरिताफलीषु ।ज्योतिष्मतीस्पृग्व्रततीषु वल्ली-कस्तूरिकायामतिमुक्तकेऽपि ॥ ४२ ॥
6.16.42 · p. 210
उपजातिः
लूतोर्णनाभे च पिपीलिकायांगदान्तरे स्यात्तु हरिद्रिकायाम् ।पीता स्त्रियां पुंसि तु गौरवर्णे-ऽन्यवत्तु तद्वत्यपि धीतनाम्नि ॥ ४३ ॥
6.16.43 · p. 210
उपजातिः
सीता स्त्रियां लाङ्गलपद्धतौ स्यात्रामाङ्गनायां सुरनिम्नगायाम् ।आकाशनद्यां त्रिषु मारिते स्या-च्छीतोऽभ्रपुष्पे बहुवारके च ॥ ४४ ॥
6.16.44 · p. 211
इन्द्रवज्रा
स्याज्जानकीलाङ्गलरेखयोः स्त्रीहिमेऽन्तिमे तद्वति तु त्रिलिङ्गः ।मन्दक्रिये चाथ चितं त्रिषु स्या-देकीकृतं संहतिचित्ययोस्तु ॥ ४५ ॥
6.16.45 · p. 211
उपजातिः
स्त्री चुल्लिकायामथ जीविकायांजनश्रुतौ वृत्तिगणे च वार्ता ।आरोग्यफल्ग्वाह्वययोश्च षण्ढे-ऽथारोग्यवृत्त्यन्वितयोर्विशेष्ये ॥ ४६ ॥
6.16.46 · p. 211
उपजातिः
वातिः पुमान्भास्करचन्द्रयोः स्या-द्गतिस्तु यात्राध्वदशाभ्युपाये ।नाडीव्रणे स्याच्छरणे च बुद्धौमतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री ।चि[289b]तिस्तु चित्यागणयोर्दितिस्तुस्याद्दैत्यमातर्यपि( ख )ण्डने च ।मूले गतौ चापि पतिः प्रभौ स्वा-श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥
6.16.48 · p. 211
उपजातिःmetre not read in every linenearly उपजातिः
यतिर्निकारे यतिनि स्मृतो नास्त्री पाठविच्छेदनवाचकः स्यात् ।शितिः स भूर्जे सितकृष्णयोर्नातत्संयुते स्यान्निशिते पराभम् ॥ ४९ ॥
6.16.49 · p. 211
उपजातिः
भृतिस्तु मूल्ये भरणे क्षितिस्तुस्थाने निवासे भुवि च क्षयेऽपि ।धृतिस्तु योगान्तरवृत्तभेद-संतोषधैर्याध्वरधारणासु ॥ ५० ॥
6.16.50 · p. 211
उपजातिः
श्रुतिस्तु वेदे निनदे ग्रहे चश्रोत्रे च वार्तासु च संप्रदिष्टा ।रतिः स्मरस्त्रीसुरतानुरागे-ष्वथानुभूतार्थमतिः स्मृतिः स्यात् ॥ ५० ॥
6.16.50 · p. 212
उपजातिः
मन्वादिशास्त्रेषु च मङ्गले तुस्पर्धाजुगुप्सागमने ऋतिः स्यात् ।वृतिस्तु वाटे वरणे सृतिस्तुस्यान्मार्गगत्योरथ घातकृत्योः ॥ ५१ ॥
6.16.51 · p. 212
उपजातिः
कृतिर्मितिर्मानपरिच्छिदोः स्या-दीतिस्तु डिम्बे गदिता प्रवासे ।तथातिवृष्ट्यादिकसप्तके चरीतिस्त्वयः किट्टक आरकूटे ॥ ५२ ॥
6.16.52 · p. 212
उपजातिः
सीम्नि प्रचारे त्रयकाव्यवृत्ति-भेदेष्वपि स्यात्तु[290a]रगे तु पुंसि ।पाने स्त्रियां पीतिरथो हये नास्त्रियां तु दीप्तौ प्रजनेऽशने च ॥ ५३ ॥
6.16.53 · p. 212
उपजातिःmetre not read in every line
वीतिर्गतौ चाथ नये च नीतिःप्राप्तावपि स्यादथ वृत्तभेदे ।गानेऽपि गीतिः प्रमदे तु हार्देयोगान्तरे प्रीतिरनङ्गपत्न्याम् ॥ ५४ ॥
6.16.54 · p. 212
इन्द्रवज्रा
भूतिस्तु संपद्गजभूषणे स्या-ज्जातौ तथा भस्मनि च प्रदिष्टम् ।स्यूतिस्तु संतानकसीवनेषुस्यूतौ भवेदूतिरिहावनेऽपि ॥ ५५ ॥
6.16.55 · p. 212
इन्द्रवज्रा
शस्त्रे रवेस्तेजसि वह्निकीलेहेतिः स्त्रियां स्यादथ जीविकायाम् ।वृत्तिः स्त्रियां टिप्पणिकासु कौशि-क्याद्यासु रीतिष्वपि संप्रदिष्टा ॥ ५६ ॥
6.16.56 · p. 213
इन्द्रवज्रा
युतिस्तथामिश्रण मिश्रणेषुच्युतिर्वराङ्गे च्यवने तथोक्ता ।त्वक्चर्मणोः कृत्तिरिहापि भूर्जेस्यात्कृत्तिकावाच्यथ भित्तिरुक्ता ॥ ५७ ॥
6.16.57 · p. 213
उपजातिः
कुड्ये प्रदेशेऽपि च संधिभागेतथावकाशेऽप्यथ संवृ(भृ?)ते स्यात् ।लाभे तथाप्तिः सुमहोदये तुप्राप्तिश्च लाभे परमे तथोक्ता ॥ ५८ ॥
6.16.58 · p. 213
उपजातिः
पत्तिर्गतौ सैन्यविशेषके स्त्रीपुमांस्तु शू[290b]रे पदगेऽन्यवत्स्यात् ।दृतिर्द्वयोश्चर्मपरे तु मत्स्येशास्तिस्तु शास्त्रे युजि शासनेऽपि ॥ ५९ ॥
6.16.59 · p. 213
उपजातिःmetre not read in every line
आतिः शरार्यां गमनेऽपि योषित्वित्तिस्तु संभूतिविचारयोः स्त्री ।ज्ञानेऽथ लाभेऽप्यथ गुप्तिरुक्ताकारागृहे स्यादवनेऽवटेऽपि ॥ ६० ॥
6.16.60 · p. 213
इन्द्रवज्रा
यमे नरि स्यादथ सुप्तिरुक्तास्पर्शाज्ञतारुक्स्वपनेऽन्यवत्तु ।विश्रम्भघातिन्यथ शीतिरुक्ता-रामे शुभेऽथ त्विषि च स्पृहायाम् ॥ ६१ ॥
6.16.61 · p. 213
उपजातिः
कान्तिर्भवेत्सातिरिह प्रदानेतथावसानेऽप्यथ जातिरुक्ता ।सामान्यवृत्तान्तरगोत्रजन्म-कम्पिल्लजातीफलचुल्लिकासु ॥ ६२ ॥
6.16.62 · p. 213
उपजातिः
धात्र्यामथो बान्धवतातयोः स्या-ज्ज्ञातिर्द्वयोः प्रातिरियं प्रदेशे ।पूर्तौ च बस्तिस्तु युगे च नाभे-रधोनिरूहेऽपि दशासु भूम्नि ॥ ६३ ॥
6.16.63 · p. 214
उपजातिः
वर्तिर्द्वयोर्दीपदशासु वस्त्र-दशासु तन्वा अनुलेपिनीषु ।दृगञ्जने भेषजनिर्मितौ स्या-दार्तिर्धनुःकोटिरुजोस्तथार्तिः ॥ ६४ ॥
6.16.64 · p. 214
उपजातिः
मूर्तिः शरीरे च [291a] कठोरभावेकीर्तिः प्रसादेऽपि निषद्वरे च ।यशस्यपि स्याद्विततौ च भक्तिःपुनर्विभागे भजने च गौण्याम् ॥ ६५ ॥
6.16.65 · p. 214
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 मू (wrong syllable); pāda 2, syllable 1 की (wrong syllable)
व्याप्तिस्तथा व्यापनलम्भयोः स्यात्भ्रान्तिस्तु मिथ्याधियि च भ्रमेऽपि ।पक्तिस्तथा गौरवपाकयोः स्या-द्रक्तिस्तु रागेऽपि च गीतिभेदे ॥ ६६ ॥
6.16.66 · p. 214
इन्द्रवज्रा
दशाक्षरे छन्दसि चावलौ चदशाख्यसंख्याविषये च पङ्क्तिः ।युक्तिः पुनर्योजनतर्कयोः स्या-च्छक्तिः प्रभावेऽपि बलेऽपि कास्वाम् ॥ ६७ ॥
6.16.67 · p. 214
उपजातिः
शुक्तिः कपालशकले रोमावर्ते तुरंगाणाम् ।मुक्तास्फोटे नखरे दुर्नामक्षुद्रशङ्खेषु ॥ ६८ ॥
6.16.68 · p. 214
metre not recognised
त्रिताः ।
अयाचिते स्याच्च घृते सुधायांस्त्रियां गुडूच्यामलकाभयासु ।असत्यकृष्योरनृतं हरौ तुप्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥
6.16.70 · p. 215
उपजातिः
[291b]पुंस्यच्युतः शार्ङ्गिणि भेद्यलिङ्गःस्थिरेऽर्दितं त्वीरणरोगभेदे ।त्रयेऽर्थिते हिंसितकेऽथ न स्त्रीस्यादक्षतं भूम्नि तु लाजवाचि ॥ ७१ ॥
6.16.71 · p. 215
उपजातिः
आपात उक्तः पतने तदात्वेसंकीर्तितस्तद्वदहिंसिते च ।आख्यातमुक्ते त्रिषु ल्युग्मु( ? )खेऽन्त्येघ्राते तथाघ्रातमिदं हतेऽपि ॥ ७२ ॥
6.16.72 · p. 215
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 7 षु (wrong syllable)
दग्धानिलोत्थामयशब्दितेषुत्वाध्मातमुक्तं किल कोषविज्ञैः ।स्यादाप्लुतः स्नातक आप्लवे चस्यादादृतस्त्वर्चितसादरार्थः ॥ ७३ ॥
6.16.73 · p. 215
इन्द्रवज्रा
पलायुतानां द्वितये च शाकटेस्यात्संगृहीतेऽपि हिते तथाचितः ।मृषार्थके स्याद्गुणिते च ताडितेमाने पुराणे सिचये तथाहतः ॥ ७४ ॥
6.16.74 · p. 215
upajati 12
देशान्तरे संगरनृत्यगेहे-ऽप्यानर्त उक्तो जनवाचकोऽपि ।आवर्त आवर्तनचिन्तनाम्भो-भ्रमेष्वथाब्दे प्रलयेऽक्षवृक्षे ॥ ७५ ॥
6.16.75 · p. 215
उपजातिः
संवर्त उक्तो नरि तु त्रिगर्तोदेशान्तरे स्याद्गणितान्तरे च ।कम्राङ्गनाघुर्घुरिकासु तु स्त्रीगणेऽपवृत्तौ[292a]नटने विवर्तः ॥ ७६ ॥
6.16.76 · p. 216
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 ग (wrong syllable)
शुष्कामिषोपप्लवयोश्च तप्ते-ऽप्युत्तप्तमभ्यस्तमितेषु तु स्यात् ।ज्ञातेऽपि युक्तेऽप्युचितं, त्रिषु स्या-दुद्धूतमप्युत्कलितेऽङ्कितेऽपि ॥ ७७ ॥
6.16.77 · p. 216
इन्द्रवज्रा
मुक्तेऽपि चाथोत्थितमुद्यते स्या-द्वृद्धे प्रजातेप्युषितं च दग्धे ।स्थिते तथा पर्युषिते हृते तुद्वेधीकृते स्यान्मुषितं त्रिलिङ्गम् ॥ ७८ ॥
6.16.78 · p. 216
उपजातिः
उपक्रमेऽङ्घ्रिस्खलने च डिम्बेस्यात्कुम्भकादित्रितये च सृत्याम् ।उद्धात उक्तो नरि मुद्गरेऽथो-द्गतोक्तयोः स्यादुदितं विशेष्ये ॥ ७९ ॥
6.16.79 · p. 216
उपजातिः
उन्नद्धवृद्धौदनिकेषु चोच्छ्रितंहेम्न्यस्त्रियां स्यात्कलधौतके तथा ।हारे द्विपानां दशनेऽथ पाण्डुरे-ऽन्यवद्गिरौ ना रजतं प्रदिष्टम् ॥ ८० ॥
6.16.80 · p. 216
upajati mixed
सुरता निर्जरभावे सुरतं[तु]स्याद्रहःकेलौ ।प्रहतं वितते क्षुण्णे संगतदृढयोस्तु संहतं प्राहुः ॥ ८१ ॥
6.16.81 · p. 216
metre not recognised
रसितं सुवर्णखचिते रुते तथा गर्जिते प्रोक्तम् ।पलितं त्वस्त्री तापे शैलजकर्दमविपक्वकेशेषु ॥ ८२ ॥
6.16.82 · p. 216
उद्गीतिः
ललितं हारविभेदे विभ्रमभेदे तथा[292b]भीष्टे ।स्खलितं भ्रेषे छलिते कलितं ज्ञाते तथा प्राप्ते ॥ ८३ ॥
6.16.83 · p. 217
metre not recognised
ज्वलितं भास्वति दग्धे त्वरितं प्रजवे द्रुतार्थे च ।स्तिमितं क्लिन्नेऽप्यचले हम्मितमाहुर्द्रुते दग्धे ॥ ८४ ॥
6.16.84 · p. 217
उपगीतिः
सुहितस्तृप्तेऽतिहिते सोच्छ्राये मूर्छितं सुदृढे ।हृषितं हृष्टे रोम्णि प्रतिहत उक्तं च विस्मिते प्रीते ॥ ८५ ॥
6.16.85 · p. 217
उद्गीतिः
गर्जित इभेऽतिमत्ते क्लीबे त्वम्भोधरध्वाने ।वर्धितमुक्तं प्रसृते छिन्ने संपूरिते तद्वत् ॥ ८६ ॥
6.16.86 · p. 217
metre not recognised
स्यात्स्थापितं च निहिते निर्णीते चापि चेष्टितं गत्याम् ।ईहायामथ लसके वेष्टितमुक्तं वराङ्गरुद्धार्थम् ॥ ८७ ॥
6.16.87 · p. 217
गीतिः
अर्थे ज्ञाते विदितं भावितमुक्तं च वासिते प्राप्ते ।कुटिले वेल्लितमन्त्ये परलिङ्गं तु प्लुते विधुते ॥ ८८ ॥
6.16.88 · p. 217
आर्या
ग्रन्थितमुक्तं गुम्फितहिंसितयोः स्यात्समाक्रान्ते ।मथितं निर्जलतक्रे निघृष्ट आलोडिते परवत् ॥ ८९ ॥
6.16.89 · p. 217
उपगीतिःmetre not read in every line
प्रार्थितमर्थितरुद्धाभिहतेषु स्याद्व( ? )रांगे तु ।जृम्भितमीहाजृम्भणविकसितिषु स्यादथाह्वाने ॥ ९० ॥
6.16.90 · p. 217
उपगीतिः
[293a]रुदिते क्रन्दितमाहुः प्रोक्षितमुक्तं हते सिक्ते ।बीजाकृतमुण्डितयोर्वापितमह्यादिदष्टे तु ॥ ९१ ॥
6.16.91 · p. 217
metre not recognised
स्याद्वर्मितेऽपि दंशितमथ सुकृतं स्याच्छुभे पुण्ये ।परवत्सुविहित उक्तं प्रतारिते निकृतं विकृते ॥ ९२ ॥
6.16.92 · p. 217
उपगीतिःmetre not read in every line
नीचेऽप्यथ विकृतं स्यादसंस्कृते रोगितेऽश्लीले ।संस्कृतमग्र्ये कृतके लक्षणयुक्तेऽप्यलंकृते पक्वे ॥ ९३ ॥
6.16.93 · p. 217
उद्गीतिः
दर्शत इन्दौ तरणौ मरतो मृतौ कृतान्ते च ।ऋत्विजि यजतोऽप्युक्तो यष्टव्ये त्वन्यलिङ्गः स्यात् ॥ ९४ ॥
6.16.94 · p. 217
metre not recognised
हर्यत उक्तस्तुरगे स्पृहणीये वाच्यलिङ्गोऽसौ ।प्राज्ये प्रभूतमुक्तं तथोद्गतेऽर्धाञ्जलौ प्रसृतः ॥ ९५ ॥
6.16.95 · p. 218
metre not recognised
जङ्घायां तु स्त्री स्यात्परवन्नम्रे प्रसन्ने च ।स्याद्वेगितेऽथ भद्रे सत्ये चान्त्ये प्रियोक्तौ तु ॥ ९६ ॥
6.16.96 · p. 218
metre not recognised
परवत्सूनृतमाहुरथ प्रसूने प्रसूतं स्यात् ।वाच्यवदुक्तं जाते विश्रुतमानन्दिते ख्याते ॥ ९७ ॥
6.16.97 · p. 218
metre not recognised
ज्ञातेऽथादरयुक्तप्रज्ञातज्ञातहृष्टेषु ।परवत्प्रतीत उक्तो निर्मुक्तस्त्य[293b]क्तसङ्गे स्यात् ॥ ९८ ॥
6.16.98 · p. 218
metre not recognised
निर्मोकमुक्तसर्पेऽथाव्यक्तः शंकरे विष्णौ ।मूलप्रकृतौ क्लीबे महदादावात्मवाच्यपि च ॥ ९९ ॥
6.16.99 · p. 218
metre not recognised
त्रिष्वस्फुटेऽथ मुक्ते विवेकयुक्तेऽप्यसंपृक्ते ।परवद्विविक्तमुक्तं द्वितयोनं तद्रहोवाचि ॥ १०० ॥
6.16.100 · p. 218
metre not recognised
हरिणझषविभेदभेदरोहि-द्रुषु नरि कुङ्कुमरक्तशक्रचापे ।मिथुनयुगिह रोहितं नदे तुक्षितितनये नरि लोहितोऽप्यथास्त्री ॥ १ ॥
6.16.1 · p. 218
पुष्पिताग्रा
असृजि च घुसृणे च तैलपर्ण्यांकुमलयजे परवत्स वर्णभेदे ।सुरमुनिभिदि पादपे च शैलेशकझषभिद्यपि पर्वतो मतो ना ॥ २ ॥
6.16.2 · p. 218
पुष्पिताग्रा
स्यूते तथा वस्तिपुटे विदीर्णेसंवासिते स्यात्पुटितं त्रिलिङ्गम् ।स्यात्पीडितं स्त्रीकरणे द्वयोनंत्रय्यां तु तद्बाधितयन्त्रितेषु ॥ ३ ॥
6.16.3 · p. 218
इन्द्रवज्रा
पिण्डितं गणितसान्द्रयोर्भवेत्पण्डितस्तु कविसिह्लकार्थकः ।पुंसि बिन्दुषु मृगेऽश्वरोहितेवाच्यवत्तु पृषतोऽब्दबिन्दुनि ॥ ४ ॥
6.16.4 · p. 218
रथोद्धता
हारीतः खगमुनिभेदकैतवेषुसन्मन्त्रैर्हुतभुजि संस्कृते कृते च ।सं[294a]पन्नेऽप्युपनिहिते प्रवेशिते चसंप्रोक्तं किल परलिङ्गकं प्रणीतम् ॥ ५ ॥
6.16.5 · p. 219
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
अपनीतेऽप्युपनीते जितेन्द्रियेऽश्वे तथा सुवहे ।वाणिज्ये निभृते चाभिधेयलिङ्गं विनीतमप्युक्तम् ॥ ६ ॥
6.16.6 · p. 219
उद्गीतिः
शाकुन्तलेये नटसूत्रकारेनटे च रामावरजे कुविन्दे ।स्यान्नाट्यशास्त्रे भरतोऽथ जम्बू-द्वीपेतिहासान्तरयोश्च षण्ढे ॥ ७ ॥
6.16.7 · p. 219
उपजातिः
स्याद्भारतं वृत्तिविभेदवाणीसत्पक्षिणीवाचि तु तत्स्त्रियां स्यात् ।दुर्जातमन्त्ये व्यसनेऽथ सम्य-गज्ञातवस्तुन्यथ रस्य( ? )लिङ्गः ॥ ८ ॥
6.16.8 · p. 219
इन्द्रवज्रा
भवेत्परेतो नरि भूतभेदेमृतेऽन्यवत्स्यादथ झल्लकण्ठे ।पुमान्कपोतः कविकापतंगे ।षण्ढे तु तन्मज्जननीचपक्त्योः ॥ ९ ॥
6.16.9 · p. 219
उपजातिः
स्याद्व्यायतं दीर्घदृढाधिकेषुव्यासक्तचेतस्यपि योगभेदे ।व्याघात उक्तः प्रहृतौ च विघ्नेसंघे तु घाते नरकान्तरे च ॥ १० ॥
6.16.10 · p. 219
इन्द्रवज्रा
संघात उक्तोऽथ हरेऽद्रिभेदेस्याद्रैवतोऽथाल्पतनौ किरातः ।स्यान्नार्यति[ति ? ]क्तेऽन्त्यजजातिभेदेमन्दाकिनीकुट्टनिकागतः स्त्री ॥ ११ ॥
6.16.11 · p. 219
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
कोविदा[294b]रे च मन्दारेऽप्यास्फोतः स्यात्स्त्रियां पुनः ।वनमाल्यां स उदितो गिरिकर्ण्यामपि श्रुतः ॥ १२ ॥
6.16.12 · p. 220
अनुष्टुप्metre not read in every line
उदात्त उक्तः स्वरभेदकाव्या-लंकारहृद्येषु महाशये च ।हेतौ निमित्तं किल लक्षणेऽपिधत्तूर उन्मत्तमुशन्ति पुंसि ॥ १३ ॥
6.16.13 · p. 220
उपजातिः
तत्तुल्यलिङ्गो मुचुकुन्दवृक्षे-ऽथोन्मादयुक्ते समदोपमानः ।पुमान्प्रपातोऽतटनिर्झरेषुपर्याप्तमुक्तं च यथेष्टवाचि ॥ १४ ॥
6.16.14 · p. 220
उपजातिः
तृप्तौ च शक्ते त्रिषु वारणेऽन्त्ये-ऽथेन्द्रे घने भूभृति देवताडे ।भृत्ये च जीमूतमुशन्ति सन्तःस्यादेधतुर्विष्णुहुताशपुंस्सु ॥ १५ ॥
6.16.15 · p. 220
इन्द्रवज्रा
पान्थे वृषे स्याद्वहतुर्न तु स्त्रीस्याज्जीविते जीवितभेषजे च ।भक्तेऽपि जीवातुरथो विहस्तःस्याद्विह्वले चण्डनरे च शस्तः ॥ १६ ॥
6.16.16 · p. 220
इन्द्रवज्रा
पर्यस्तः पतिते हतेऽथ कुपिते क्षिप्ते तथोत्तेजिते-ऽप्यायस्तो निहतेऽप्यथ प्रतिहते धूते निरस्तः स्मृतः ।तूर्णोक्तिप्रहितोज्झितेष्वथ मते विश्वासयोग्येऽन्यव-द्विश्वस्तो निभृतेऽपि योषिति पुननिर्भर्तृकावाचकः ॥ १७ ॥
6.16.17 · p. 220
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 12 न (wrong syllable)
संनाहेऽतिदृढे गृ[295a]हे च गदितो न स्त्री निवातोऽन्यव-द्वातोनेऽथ हरौ च शेषभुजगेऽनन्तः पुमान्खेऽन्तिमे ।दूर्वाभूम्यमृतासु गोपतनयाग्निज्वालिकालाङ्गली-षूक्तः स्त्री खगभेदभासखगमेषूक्तः शकुन्तः पुमान् ॥ १८ ॥
6.16.18 · p. 220
शार्दूलविक्रीडितम्metre not read in every line
दृष्टान्तस्तु निदर्शने च मरणे शास्त्रे कृतान्तः पुनःसिद्धान्तान्तकदैवनिःशुभकृतिष्वाख्यायते पण्डितैः ।क्लीबे धाम्नि निशान्तके तु कलिते शान्ते निशान्तोऽन्यव-द्वृत्तान्तस्तु रहोऽर्थके प्रकरणे कार्त्स्न्ये प्रवृत्तावपि ॥ १९ ॥
6.16.19 · p. 221
शार्दूलविक्रीडितम्
उद्वान्तस्त्वमदे द्विपे त्रिषु समुद्गीर्णेऽथ कक्षान्तरेक्ष्मापानां प्रमदापुरेऽप्यकुशले त्वस्वन्तमन्त्येऽन्तयोः ।क्षेत्रे चानवधौ *** वुदितः साधौ प्रवृत्तौ पुमान्अर्हन्तः क्षपणे जिनेऽथ जलधौ प्रोक्तस्तरन्तः पुमान् ॥ २० ॥
6.16.20 · p. 221
शार्दूलविक्रीडितम्metre not read in every line
तर्यां स्त्री गिरिशे ******** जयन्तः पुमान्शर्वाण्यां त्वरणिद्रुमेन्द्रतनयाधू ( ? )कास्वसौ योषिति ।गोदन्तो हरितालदंशितकयोर्भासे तु भासां निधौभासन्तस्त्रिषु सुन्दरेऽप्यथ मह[295b]त्प्राज्ये विशाले त्रिषु ॥ २१ ॥
6.16.21 · p. 221
metre not recognised