कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

शेषकाण्डः · अभिधेयवल्लिङ्गाध्यायः

इति एकाक्षरः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां शेषकाण्डे नपुंसकलिङ्गाध्यायः

शेषकाण्डे अभिधेयवल्लिङ्गाध्यायः

अभिजातः कुलीने च न्याय्यपण्डितयोरपि ।अभिनीतः सुयुक्ते स्यादमर्षवति संस्कृते ॥ १ ॥
8.4.1 · p. 275
अनुष्टुप्
अभिपन्ना विपन्नाप्तग्रस्तात्तद्रुतदक्षिणाः ।अधिक्षिप्तं प्रणिहिते प्रेषिते भर्त्सितेऽपि च ॥ २ ॥
8.4.2 · p. 275
अनुष्टुप्
निश्चिते स्यादवसितं समाप्त उषितेऽपि च ।अवदातः सिते गौरे शुद्धे चाथावलंबिते ॥ ३ ॥
8.4.3 · p. 275
अनुष्टुप्
अविदूरेऽप्यवष्टब्धमसंपृक्तो रहस्यपि ।उज्झिते धिक्कृतेऽपि स्यादवध्वस्तोऽवचूर्णिते ॥ ४ ॥
8.4.4 · p. 275
अनुष्टुप्
स्यादभ्यारूढमारूढे सातिरेके च संपदा ।उत्कीर्णे स्यादुल्लिखितमनुषक्ते तनूकृते ॥ ५ ॥
8.4.5 · p. 275
अनुष्टुप्
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ।कौक्कुटिको डांभिके स्याद्यश्चादूरेरितेक्षणः ॥ ६ ॥
8.4.6 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 टि (wrong syllable)
दशमीस्थस्तु स्थविरे नष्टबीजे मृताशने ।परिप्राप्ते परिगतं प्रज्ञाते परिवेष्टिते ॥ ७ ॥
8.4.7 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)
प्रतिशिष्टप्रतिक्षिप्तावाहूयप्रेषितास्तयोः ।विशिष्टे स्यात्प्रतिहतं प्रतिस्खलितवस्तुनि ॥ ८ ॥
8.4.8 · p. 275
अनुष्टुप्
समाहिते प्रणिहितं न्यस्ताभिप्राप्तयोरपि ।पुरस्कृतः पूजिते द्विडभियुक्तेऽग्रतः कृते ॥ ९ ॥
8.4.9 · p. 275
अनुष्टुप्
पौरुषेयं वधे पुंसो बृन्दे कार्यविकारयोः ।ब्रह्मबन्धुरधिक्षेप्ये निर्देश्ये ब्राह्मणाधमे ॥ १० ॥
8.4.10 · p. 275
अनुष्टुप्
यातयामं यातयामे जीर्णे भुक्तोज्झितेऽपि च ।लालाटिकः प्रभोश्छन्ददर्शी कार्याक्षमश्च यः ॥ ११ ॥
8.4.11 · p. 275
अनुष्टुप्
विशारदो बुधे धृष्टे वंचिते तु विलंबितम् ।मन्दे चाथ समुन्नद्धौ पण्डितम्मन्यगर्वितौ ॥ १२ ॥
8.4.12 · p. 276
अनुष्टुप्

इति चतुरक्षराः

कथाप्रसङ्गस्तु विषवैद्ये वाताधिकेऽपि च ।
8.4.13 · p. 276
अनुष्टुप्

इति पञ्चाक्षरः

प्रहृष्टो हृषितो हृष्टः प्रहर्षवति विस्मिते ॥ १३ ॥
8.4.13 · p. 276
अनुष्टुप्
सरोमाञ्चे प्रतिहतेऽप्यथ सप्रभदग्धयोः ।स्युः प्रदीप्तप्रज्वलितदीप्ता ज्वलित इत्यपि ॥ १४ ॥
8.4.14 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
कुत्सिते वाच्यवक्तव्यौ वदितव्यविहीनयोः ।प्राप्तरूपोऽभिरूपश्च पण्डिते रूपवत्यपि ॥ १५ ॥
8.4.15 · p. 276
अनुष्टुप्

इति विषमाक्षराः

सन् सत्येऽभ्यर्हिते श्रेष्ठे साधीयसि भवत्यपि ।किं प्रश्नाक्षेपकुत्सानां वितर्कस्य च गोचरे ॥ १६ ॥
8.4.16 · p. 276
अनुष्टुप्