कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

त्र्यक्षरकाण्डः · वाच्यलिङ्गाध्यायः

इति त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः ।

अथाभिधेयलिङ्गानां त्र्यक्षराणां प्रणीयते ।अध्यायोऽध्यक्षशब्दोऽय प्रत्यक्षेऽधिकृतेऽप्यथ ॥ १ ॥
3.4.1 · p. 41
अनुष्टुप्
अभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यधमः पुनः ।न्यूनेऽपि गर्हितेऽधीरः पुनर्भीरौ च चञ्चले ॥ २ ॥
3.4.2 · p. 41
अनुष्टुप्
अवरस्त्वप्रशस्ते स्यादर्वाच्यप्यखिलं पुनः ।कृत्स्ने गर्ह्येऽनुगस्तु स्यादनुगामिनि सेवके ॥ ३ ॥
3.4.3 · p. 41
अनुष्टुप्
अगाढोऽनवगाढे चाप्यभृशे च प्रकीर्तितः ।अथानक्षरवाक्ये चाप्यवक्तव्येऽप्यवाच्यवाक् ॥ ४ ॥
3.4.4 · p. 41
अनुष्टुप्
अगर्ह्ये चाथ रभसः प्रमादीदमवोचत ।अवद्यमपशब्दे च गर्ह्ये चेत्याप्लुतः पुनः ॥ ५ ॥
3.4.5 · p. 41
अनुष्टुप्
स्नाते चापि समावृत्तेऽथात्मीयोः निजमित्रयोः ।आविद्धं कुटिले क्षिप्ते रभसस्तु पराहते ॥ ६ ॥
3.4.6 · p. 41
अनुष्टुप्
आहार्यमाहर्तव्ये चामिनये भूषणादिभिः ।कृते स्यादाहतं तु स्यात् ताडिते गुणिते हते ॥ ७ ॥
3.4.7 · p. 41
अनुष्टुप्
मृषार्थवाक्येऽप्याहाथो आदृतः सादरेऽर्चिते ।आपन्नस्तु विपन्ने च प्राप्ते च कथितो बुधैः ॥ ८ ॥
3.4.8 · p. 41
अनुष्टुप्
आयस्तः कुपिते क्षिप्ते क्लेशिते तेजितेऽपि च ।अनुज्ज्वलं त्वाविलं स्यात् कलुषे चेतरः पुनः ॥ ९ ॥
3.4.9 · p. 42
अनुष्टुप्
अन्यस्मिन् पामरे चाथ स्यादुत्कृष्टः प्रकृष्टके ।ऊर्ध्वस्थानं प्रापिते चाप्युत्क्षिप्ते तूद्धृतं विदुः ॥ १० ॥
3.4.10 · p. 42
अनुष्टुप्
भुक्तोज्झितेऽप्यथोत्तानं निम्नस्य प्रतियोगिनि ।ऊर्ध्वीकृतपुरोभागेऽप्युच्छ्रितं तून्नतेऽपि च ॥ ११ ॥
3.4.11 · p. 42
अनुष्टुप्
प्रवृद्धोत्पन्नयोरूर्ध्वस्थापितेऽप्युदितं पुनः ।उद्गते कथितेऽथ स्यादुदूढं विपुलेऽपि च ॥ १२ ॥
3.4.12 · p. 42
अनुष्टुप्
ऊढे च पीवरे चाथो उपोढो निकटोढयोः ।उषितं न्युपिते दग्ध इति सर्चे निघण्टवः ॥ १३ ॥
3.4.13 · p. 42
अनुष्टुप्
उषितन्युषिते युक्तं दग्धे त्वेतदसाम्प्रतम् ।उषित्वा(१)दोषतेरेतच्छाकटायन उक्तवान् ॥ १४ ॥
3.4.14 · p. 42
अनुष्टुप्
प्रत्युष्ट' रक्ष इति च प्रयोगः शाश्वतस्तथा ।उत्थितं प्रोद्यते जाते वृद्धिमत्यपि दृश्यते ॥ १५ ॥
3.4.15 · p. 42
अनुष्टुप्
उदारो महति ख्याते दानशौण्डविदग्धयोः ।उत्तालं पुनरुत्तान उन्नतोच्चण्डयोरपि ॥ १६ ॥
3.4.16 · p. 42
अनुष्टुप्
उत्कटस्तूद्भटे मत्ते तीव्रेऽपि रभसोऽपठीत् ।उज्जटः शून्यदेशे स्यादूर्ध्वीभूतजटादिषु ॥ १७ ॥
3.4.17 · p. 42
अनुष्टुप्
उज्झकस्त्वपि निःस्नेहे स्यादुज्झितरि च स्मृतः ।उन्निद्रस्तु भवेत् फुल्ले निद्रया हीन एव च ॥ १८ ॥
3.4.18 · p. 42
अनुष्टुप्
उद्बुद्धस्तु भवेत् फुल्ले प्रवृद्धे च प्रकीर्तितः ।एकाग्रमग्रे यस्यैकं तत्र तत्पर एव च ॥ १९ ॥
3.4.19 · p. 42
अनुष्टुप्
अनाकुलेऽथ कलितं सङ्ख्याते ज्ञातबद्धयोः ।आप्ते च विहिते चाह रभसः कमरः पुनः ॥ २० ॥
3.4.20 · p. 43
अनुष्टुप्
मूर्खे च कामुके चाथ कनीयांस्तु जघन्यजे ।युवतरे चाल्पतरे क्षुल्लकस्त्वल्पनीचयोः ॥ २१ ॥
3.4.21 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 व (wrong syllable)
दरिद्रे चाथ कुचरः कुवादे भूचरेऽपि च ।गान्धिको लेखके चापि सुगन्धव्यवहारिणि ॥ २२ ॥
3.4.22 · p. 43
अनुष्टुप्
जठरः कठिने जीर्णे कुक्षौ च ज्वलितं पुनः ।दीप्ते च ज्वलिते चाथ डिङ्गरो क्षेप्यगङ्गरौ ॥ २३ ॥
3.4.23 · p. 43
अनुष्टुप्
तलिनं विरलेऽल्पेऽथ तीरितं पारिते तथा ।तीरं च प्रापिते तीरीकृते च व्यवहारगैः ॥ २४ ॥
3.4.24 · p. 43
अनुष्टुप्
सदेवासत्कृतं सभ्यैर्यत् तत्राप्यथ दुर्विधः ।नीचे दरिद्रे दोषज्ञः पुनर्भिषजि पण्डिते ॥ २५ ॥
3.4.25 · p. 43
अनुष्टुप्
दोषस्य बोधके चाथ नदीष्णः कुशले मतः ।तरणे य पटुस्तस्मिन् नदीप्ण इति सज्जनः ॥ २६ ॥
3.4.26 · p. 43
अनुष्टुप्
नश्वरं नाशशीलादौ दैन्यगर्भवचस्यपि ।निवातस्त्वाश्रये शस्त्राभेद्यवर्मण्यमारुते ॥ २७ ॥
3.4.27 · p. 43
अनुष्टुप्
निकृतो विप्रलब्धेऽपि हते विप्रकृतेऽपि च ।निसृष्टं जनिते न्यस्ते निरस्तस्तु निराकृते ॥ २८ ॥
3.4.28 · p. 43
अनुष्टुप्
निष्ठ्यूते प्रास्तबाणे च वचने च द्रुतोदिते ।निहतस्तु हते नीचस्वरयुक्तेऽक्षरेऽपि च ॥ २९ ॥
3.4.29 · p. 43
अनुष्टुप्
निर्ग्रन्थः स्यात् क्षपणके दरिद्रे ग्रन्थवर्जिते ।निर्दटः परदोषोक्तिपरे निष्ठुरभाषिणि ॥ ३० ॥
3.4.30 · p. 43
अनुष्टुप्
प्रहृष्टस्तु सरोमाञ्चे प्र(क?ह)र्षवति विस्मिते ।तथा प्रतिहते चाथ प्रमीतः प्रोक्षिते मृते ॥ ३१ ॥
3.4.31 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रतीतो हर्षिते ख्याते ज्ञाते प्रत्ययिते बुधे ।सादरे प्रतियातेऽथ प्रणीतः स्यात् प्रवेशिते ॥ ३२ ॥
3.4.32 · p. 44
अनुष्टुप्
उपसम्पन्नौदनादौ निर्मितक्षिप्तयोरपि ।स्थानात् स्थानान्तरं नीते वह्नौ च विधिना स्मृतः ॥ ३३ ॥
3.4.33 · p. 44
अनुष्टुप्
प्रबद्धो विरतस्वापे सावधानेऽपि पण्डिते ।प्रवृद्धस्त्वेधिते चापि प्रसृतेऽथ प्रसिद्धवाक् ॥ ३४ ॥
3.4.34 · p. 44
अनुष्टुप्
ख्यातभूषितयोः सिद्धे प्रभिन्नस्तु विदारिते ।मत्तहस्तिनि चाथ स्याद् व्युत्पन्नक्षुण्णयोरयम् ॥ ३५ ॥
3.4.35 · p. 44
अनुष्टुप्
प्रहतः प्रयतस्तु स्यात् संस्कृते पूत एव च ।अततं वितते क्षुण्णे प्रदीप्तं त्वपि भासिते ॥ ३६ ॥
3.4.36 · p. 44
अनुष्टुप्
दग्धेऽप्यथ प्रगाढः स्याद् भृशे कृच्छ्रेऽप्यथ स्मृतः ।प्रतीक्ष्यः प्रतिपाल्ये च पूज्ये चाथ प्रणाय्यवाक् ॥ ३७ ॥
3.4.37 · p. 44
अनुष्टुप्
असम्मते च निष्कामे प्रसव्यं पुनरुच्यते ।प्रतिकूलेऽनुकूले च सव्यदक्षिणयोरपि ॥ ३८ ॥
3.4.38 · p. 44
अनुष्टुप्
आयत्ते पतितस्त्वेष धर्मशास्त्रनिरूपितः ।द्विजातिकर्मभ्योः हीने प्रस्कन्ने परुषः पुनः ॥ ३९ ॥
3.4.39 · p. 44
अनुष्टुप्
अस्निग्धे कर्बुरे मिश्रे तथा निष्ठुरभाषिते ।प्रयोक्ता तूत्तमर्णे स्यात् तथैव स्यात् प्रयोजके ॥ ४० ॥
3.4.40 · p. 44
अनुष्टुप्
प्रत्यर्थी त्ववगन्तव्यः शात्रवप्रतिवादिनोः ।पामरस्तु भवेदज्ञे नीचे च रभसः पुनः ॥ ४१ ॥
3.4.41 · p. 44
अनुष्टुप्
खण्डेऽप्याह प्रार्दितं तु हतयाचितयोरपि ।अभियुक्ते पेशलस्तु चारौ दक्षे च कीर्तितः ॥ ४२ ॥
3.4.42 · p. 44
अनुष्टुप्
प्रोक्षितं निहते सिक्ते बहुलं त्वपि पुष्कले ।सान्द्रे च बालिशस्तु स्याद् बाले मूर्खेऽथ बेटकः ॥ ४३ ॥
3.4.43 · p. 44
अनुष्टुप्
सञ्जातयौवने चापि तथा वैकटिकेऽपि च ।भङ्गुरो नश्वरे नम्रे भावितं त्वपि वासिते ॥ ४४ ॥
3.4.44 · p. 44
अनुष्टुप्
तथैवोत्पादिते लब्थे मलिनं तु मलीमसे ।कृष्णे च मत्सरी तु स्यात् परसम्पदसोढरि ॥ ४५ ॥
3.4.45 · p. 45
अनुष्टुप्
कदर्याढ्ये मूर्छितस्तु मूढसोच्छ्राययोरपि ।अजयस्तु प्रवृद्धेऽपि वदान्यस्त्वपि दातरि ॥ ४६ ॥
3.4.46 · p. 45
अनुष्टुप्
वल्गुवाग्वाग्मिनोश्चापि वरदन्तु समर्धके ।प्रसन्ने वल्लभस्तु स्यादध्यक्षे दयितेऽपि च ॥ ४७ ॥
3.4.47 · p. 45
अनुष्टुप्
वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने ।वक्तव्यः कुत्सिते नीचेऽप्यधीनकथनीययोः ॥ ४८ ॥
3.4.48 · p. 45
अनुष्टुप्
वठरस्तु भवेत् स्थूले रभसस्तु शठेऽपि च ।वरीयान् स्यादुरुतरे प्रशस्ततर एव च ॥ ४९ ॥
3.4.49 · p. 45
अनुष्टुप्
व्यायतं व्यापृते दीर्धे दृढे विगतवाक् पुनः ।वीते च निष्प्रभे चाथ विसृतं विगते तते ॥ ५० ॥
3.4.50 · p. 45
अनुष्टुप्
विदितं सश्रुते ज्ञाते विधुतं त्वपि कम्पिते ।त्यक्ते च विकृतं तु स्याद् दूरूपे व्याधितेऽपि च ॥ ५१ ॥
3.4.51 · p. 45
अनुष्टुप्
तथा विकारापन्ने च बीभत्सेऽथ विविक्तवाक् ।निर्जने च पृथग्भूते शुद्धे चापि विचारिते ॥ ५२ ॥
3.4.52 · p. 45
अनुष्टुप्
असम्बाधेऽथ विच्छिन्नं समालब्धे द्विधाकृते ।विरब्धं निभृते शस्ये तथा विश्वसितेऽपि च ॥ ५३ ॥
3.4.53 · p. 45
अनुष्टुप्
विवशस्त्वस्वतन्त्रात्मन्यवश्ये रभसोऽपठीत् ।अरिष्टदुष्टबुद्धौ च कथयन्ति मनीषिणः ॥ ५४ ॥
3.4.54 · p. 45
अनुष्टुप्
विज्ञेयं विधुरं सद्भिः कष्टविश्लिष्टयोरपि ।विकले प्रत्यवेते च विलीनं त्वपि विद्रुते ॥ ५५ ॥
3.4.55 · p. 45
अनुष्टुप्
लीनेऽथ वेल्लितं वक्रे कम्पिते स्याद्रथे पुनः ।व्याघ्रचर्मावृते ज्ञेयो वैयाघ्रो व्याघ्रयोगिनि ॥ ५६ ॥
3.4.56 · p. 45
अनुष्टुप्
शिरःस्थो व्यवहारस्थेऽभियोक्तरि शिरःस्थिते ।समर्थस्तु समानार्थ सम्बन्धार्थे हितेऽपि च ॥ ५७ ॥
3.4.57 · p. 46
अनुष्टुप्
न्याय्ये शक्ते सदस्यस्तु यज्ञानां विधिदर्शिनि ।सभ्ये च संस्थितस्तु स्यात् समाप्ते च मृतेऽपि च ॥ ५८ ॥
3.4.58 · p. 46
अनुष्टुप्
सम्यक्स्थिते सत्तमस्तु श्रेष्ठ चाप्यतिशोभने ।तथा पूज्यतमे चाथ सङ्कीर्णो निचितेऽपि च ॥ ५९ ॥
3.4.59 · p. 46
अनुष्टुप्
अशुद्धव्याप्तयोश्चापि कुत्रचिद्वर्णसङ्करे ।सङ्कुलं तु भवेद्व्याप्ते परस्परपराहते ॥ ६० ॥
3.4.60 · p. 46
अनुष्टुप्
वचने स्यादविस्पष्टवचनेऽन्येऽथ मिश्रिते ।संसृष्टशब्दं जानीयाच्छुद्धे च वमनादिभिः ॥ ६१ ॥
3.4.61 · p. 46
अनुष्टुप्
समूढः पूजिते भुग्ने सद्योजातेऽप्युपप्लुते ।संहतं दृढसन्धौ च सङ्गते स्थायुकः पुनः ॥ ६२ ॥
3.4.62 · p. 46
अनुष्टुप्
म्याद्ग्रामाधिकृते स्थास्नावथ साधिष्ठ इत्ययम् ।भवेद्भृशतमे चैव तथा साधुतमेऽपि च ॥ ६३ ॥
3.4.63 · p. 46
अनुष्टुप्
अथो भृशतरे साधुतरे साधीय इत्यदः ।स्तिमितं निश्चले क्लिन्ने तृप्ते तु सुहितो भवेत् ॥ ६४ ॥
3.4.64 · p. 46
अनुष्टुप्
तथा सुष्ठु हितेऽपि स्यात् सेनारक्षे तु सैनिकः ।स्यात् सेनासमवेते च हृषितस्तु मनोहरे ॥ ६५ ॥
3.4.65 · p. 46
अनुष्टुप्
सरोमाञ्चे प्रतिहते सहर्षे विस्मितेऽपि च ।तथा स्तब्धे च रोमादावित्यध्याय समाप्तवान् ॥ ६६ ॥
3.4.66 · p. 46
अनुष्टुप्