All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
चतुरक्षरकाण्डः (3/9)
अभिरूपो बुधे चारावभिपन्नं त्वभिद्रुते ।अभिग्रस्तेऽपराद्धे च तथैवोक्तं विपद्गते ॥ ३ ॥
6.3 · p. 23
अनुष्टुप्
अभियुक्तः परिचिते परिक्षिप्तेऽरिसेनया ।व्यवहारप्रवृत्तानां तथैवोत्तरवादिनि ॥ ४ ॥
6.4 · p. 23
अनुष्टुप्
अभिशस्तोऽभिशस्ते स्याद् विवाद्युत्तरवादिनि ।अत्यारूढं समारूढे दृश्यतेऽभ्यधिकेऽपि च ॥ ५ ॥
6.5 · p. 23
अनुष्टुप्
अधिक्षिप्तं प्रणिहिते प्रेक्षिते भर्त्सितेऽपि च ।अथाध्यक्षेऽप्यधिकृतः स्वरितेनानुवर्तिते ॥ ६ ॥
6.6 · p. 23
अनुष्टुप्
अवदातः सिते पीते प्रधाने शुद्ध एव च ।अविदूरे(ऽप्य?त्व)वष्टब्धमवलम्बित एव च ॥ ७ ॥
6.7 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
अपध्वस्तं धिक्कृते स्यादुज्झितेऽप्यवचूर्णिते ।केचित् तु निन्दिते प्राहुर्धिक्कृतार्थमशासतः ॥ ८ ॥
6.8 · p. 23
अनुष्टुप्
निश्चिते स्यादवसितं समाप्त उषितेऽपि च ।अवाचीनं विपर्यस्तेऽप्यवागर्थेऽपि दर्शितम् ॥ ९ ॥
6.9 · p. 23
अनुष्टुप्
अतिवेलं भृशे वेलामतिक्रान्तेऽप्यथोच्यते ।सहाये स्यादनुचरस्तथैवाप्यनुगन्तरि ॥ १० ॥
6.10 · p. 23
अनुष्टुप्
असम्पृक्तस्त्वसंस्पृष्टे रहस्यन्तर्गतः पुनः ।विस्मृतेऽन्तःप्रविष्टेऽथो अवकीर्णमिति ध्वनिः ॥ ११ ॥
6.11 · p. 23
अनुष्टुप्
अवज्ञातेऽप्यवाकीर्णेऽप्यथानूचान इत्ययम् ।विनयावनते साङ्गवेदाधीतिनि च द्विजे ॥ १२ ॥
6.12 · p. 24
अनुष्टुप्
अभियोक्ता विवादेषु पूर्ववादिन्यपि द्विषः ।परिक्षेप्तरि सैन्येन स्यादथो अनुजीविवाक् ॥ १३ ॥
6.13 · p. 24
अनुष्टुप्
सहाये सेवके चाथो आक्षारित इति ध्वनिः ।विवादेष्वभियुक्ते चास्राविते चाभिशस्तके ॥ १४ ॥
6.14 · p. 24
अनुष्टुप्
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरथ ।उत्कीर्णे स्यादुल्लिखितमनुषक्ते तनूकृते ॥ १६ ॥
6.16 · p. 24
अनुष्टुप्
कक्ष्यापालस्त्वौपरिके शूरपालेऽजयोदितः ।कौकूटिको दाम्भिके च स्याच्चादूरेरितेक्षणे ॥ १७ ॥
6.17 · p. 24
अनुष्टुप्
दशमीस्थो नष्टबीजे स्थविरे च व्रताशने ।प्रतिशिष्टं निरस्ते स्यादाहूय प्रेषिते तथा ॥ १८ ॥
6.18 · p. 24
अनुष्टुप्
स्यात् तु प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते ।विद्विष्टे तु प्रतिहतं प्रतिस्खलितवस्तुनि ॥ १९ ॥
6.19 · p. 24
अनुष्टुप्
अथ प्रज्वलितं दग्धे दीप्ते दीपित एव च ।अथो परिगतं व्याप्ते विज्ञाते परिवेष्टिते ॥ २० ॥
6.20 · p. 24
अनुष्टुप्
स्यात् तु पक्षचरो यूथभ्रष्टेऽप्येकचरेऽपि च ।प्राप्तरूपः सुन्दरे स्यात् तथैव च विचक्षणे ॥ २१ ॥
6.21 · p. 24
अनुष्टुप्
पुरस्कृतः पूजिते स्यादभियुक्ते च शत्रुभिः ।अग्रतश्च कृते कश्चित् त्वभिषिक्तेऽप्यभाषत ॥ २२ ॥
6.22 · p. 25
अनुष्टुप्
पुण्यश्लोकः पुण्यकीर्त्तौ सज्जनस्तु प्रियंवदे ।ब्रह्मबन्धुरधिक्षिप्य निर्देश्ये ब्राह्मणाधमे ॥ २३ ॥
6.23 · p. 25
अनुष्टुप्
मत्तनागे मदकलो मदेनाव्यक्तवाचि च ।यातयामं तु जीर्णे स्यात् परिभुक्तोज्झितेऽपि च ॥ २४ ॥
6.24 · p. 25
अनुष्टुप्
लालाटिकः प्रभुच्छन्ददर्शिकार्यासमर्थयोः ।विशारदो बुधे धृष्टे तथा विगतशारदे ॥ २५ ॥
6.25 · p. 25
अनुष्टुप्
विवक्षितं तु रुचिरे वक्तुमिष्टे च भाषितम् ।विलम्बितं वञ्चिते स्यान्मन्दे शाकुनिकः पुनः ॥ २६ ॥
6.26 · p. 25
अनुष्टुप्
वैतंसिके निमित्तज्ञे समाहितपदं पुनः ।प्रतिज्ञाते समाधिस्थे तथा परिहृतेऽप्यथ ॥ २७ ॥
6.27 · p. 25
अनुष्टुप्
गर्विते पण्डितम्मन्ये समुन्नद्ध उदीरितः ।समर्यादं समीपे स्यान्मर्यादासहिते तथा ॥ २८ ॥
6.28 · p. 25
अनुष्टुप्
इति चतुरक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथ चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
अथो चतुःस्वराः शब्दा नानालिङ्गाश्च ये स्मृताः ।तेषामयमिहाध्यायः स्पष्टः प्रस्तूयतेऽधुना ॥ १ ॥
6.1 · p. 25
अनुष्टुप्
अम्बरीषः पुमान् सूर्ये राजर्षौ च चिरन्तने ।तथाश्वसाधके तैलपर्ण्यां च क्ली तु संयुगे ॥ २ ॥
6.2 · p. 25
अनुष्टुप्
तृणजातिविशेषे च वर्षे रोधसि वाससि ।केचिच्चुल्ल्यां महाभ्राष्ट्रेऽप्याहुरन्ये कुलेऽपि च ॥ ३ ॥
6.3 · p. 25
अनुष्टुप्
अस्त्रियां भ्राष्ट्रमात्रेऽन्ये किशोरे तु द्वयोरयम् ।अकूपारस्तु नादित्ये समुद्रे कूर्मराजि च ॥ ४ ॥
6.4 · p. 26
अनुष्टुप्
अकूपारा तु कस्याञ्चित् पुत्र्यामङ्गिरसः स्त्रियाम् ।अनुरूपस्तु सदृशे स्मृतस्त्रिषु मनीषिभिः ॥ ५ ॥
6.5 · p. 26
अनुष्टुप्
स्याद्बहिष्पवमानस्य द्वितीये च तृचे पुमान् ।ना त्वव्यथिष आदित्ये समुद्रे च सुखेऽपि च ॥ ६ ॥
6.6 · p. 26
अनुष्टुप्
क्षेत्रज्ञेऽव्यथिषी तु स्त्री पृथिव्यां रजनावपि ।द्वयोस्त्वनिमिषो देवे मत्स्ये त्रिस्त्वनिमेषके ॥ ७ ॥
6.7 · p. 26
अनुष्टुप्
अनिमेषो द्वयोर्देवे मत्स्ये त्रिस्त्वनिमेषके ।अविशेषस्त्ववेः शेषे विशेषादितरत्र च ॥ ८ ॥
6.8 · p. 26
अनुष्टुप्
ना यस्य न विशेषोऽस्ति तत्र स्याद्भेद्यलिङ्गकः ।अन्तरिक्षं तु गगने क्ली साम्नोरुभयोरपि ॥ ९ ॥
6.9 · p. 26
अनुष्टुप्
वैरूपाष्टकवर्गस्य ये साम्नी उपरि स्थिते ।वास्तुदेवविशेषे तु पुंसि स्यात् सर्वदक्षिणे ॥ १० ॥
6.10 · p. 26
अनुष्टुप्
कोष्ठे यो वर्तते प्राच्यकोष्ठपङ्क्तेर्हि वास्तुनः ।क्ली त्वग्निशिखमाम्नातं कुसुम्भे कुङ्कुमेऽपि च ॥ ११ ॥
6.11 · p. 26
अनुष्टुप्
स्त्रियां त्वग्निशिखा शक्रपुष्पीति प्रथितौषधौ ।लाङ्गलक्याह्वयायां च वहेश्चापि तथार्चिषि ॥ १२ ॥
6.12 · p. 26
अनुष्टुप्
अग्निज्वाला पुनः स्त्री स्याद् धातकीसंज्ञपादपे ।स्त्रीपुंसयोस्तु वह्नेः स्याज्ज्वालेऽथो अग्निगन्धवाक् ॥ १३ ॥
6.13 · p. 26
अनुष्टुप्
कणजीरणनामम्ना स्यात् प्रसिद्धे सूक्ष्मजीरके ।अग्नेर्गन्धे च पुंस्यग्नितुल्यगन्धे तु स त्रिषु ॥ १४ ॥
6.14 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अग्निहोत्रं त्वाहिताग्नेर्नित्यहोमे नपुंसकम् ।होमधेनौ त्वग्निहोत्री स्त्र्यवतंसस्तु पुन्नपोः ॥ १५ ॥
6.15 · p. 26
अनुष्टुप्
शेखरे कर्णपूरे चाप्यथ स्यादवहारवाक् ।ग्राहाख्ययादसि द्वे स्यात् त्रिषु चोरे पुमान् पुनः ॥ १६ ॥
6.16 · p. 27
अनुष्टुप्
निमन्त्रणोपनेतव्यद्रव्येऽवहरणेऽपि च ।द्यूतयुद्धादिविश्रान्तादथ स्यादवगीतवाक् ॥ १७ ॥
6.17 · p. 27
अनुष्टुप्
निर्वादे क्ली त्रिषु पुनर्मुहुर्दृष्टेऽपि गर्हिते ।अवलग्नं तनोर्मध्ये न स्त्री सक्ते पुनस्त्रिषु ॥ १८ ॥
6.18 · p. 27
अनुष्टुप्
अवखातस्तु पुंसि स्याच्छ्रीसंज्ञजलाशये ।खाते त्रिरतिमुक्तस्तु पुमांस्तिमिशपादपे ॥ १९ ॥
6.19 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
माधवीसंज्ञकुसुमलतायां चाप्यथ त्रिषु ।अतीव मुक्तेऽत्याकारस्त्वधिक्षेपे परे पुनः ॥ २० ॥
6.20 · p. 27
अनुष्टुप्
अवज्ञायां त्रिषु पुनरत्याकृतिनि नप् पुनः ।काञ्जिकेऽभिषवे चाभिषुतं स्यात् त्वन्यलिङ्गकम् ॥ २१ ॥
6.21 · p. 27
अनुष्टुप्
कर्मण्यभिषवस्याथो अभिषिक्तपदं द्वयोः ।क्षत्त्रियायां समुद्भूते ब्राह्मणाद्व्यभिचारतः ॥ २२ ॥
6.22 · p. 27
अनुष्टुप्
कृताभिषेके तु त्रि स्यादभिधानं तु पुन्नपोः ।नाम्नि क्लीबं तु वचने बन्धने च स्त्रियां पुनः ॥ २३ ॥
6.23 · p. 27
अनुष्टुप्
अभिधानी पशो रज्जावभिप्लवपदं पुनः ।पुमानभिमुखप्लुत्यां यज्ञस्याहर्गणान्तरे ॥ २४ ॥
6.24 · p. 27
अनुष्टुप्
त्रिः पुनः सेवकेऽथ स्यादनुदात्तः पुमान् स्वरे ।निघाताख्ये तद्वति तु त्रिरुदात्तात् परत्र च ॥ २५ ॥
6.25 · p. 27
अनुष्टुप्
अनुक्रोशः कृपायां ना स्यादनुक्रोशनेऽपि च ।क्ली तु सामान्तरेऽथ स्यादस्थिखादः शुनि द्वयोः ॥ २६ ॥
6.26 · p. 27
अनुष्टुप्
त्रिष्वस्थ्नः खादकेऽस्थ्नस्तु खादने पुंस्त्रियोरथ ।अहिच्छत्रं तु नब्लिङ्गं छत्राके स्यान्नृभूम्नि तु ॥ २७ ॥
6.27 · p. 28
अनुष्टुप्
प्रत्यग्रधा इति ख्याते ख्यातो जनपदान्तरे ।अनिरुद्धः पुमान् पत्यावुषायाम्नि त्ववारिते ॥ २८ ॥
6.28 · p. 28
अनुष्टुप्
अर्धहस्तस्तु ना पञ्चहस्तमाने नृनप् पुनः ।हस्तस्यार्धेऽर्धचन्दा तु मसूरविदलाह्वये ॥ २९ ॥
6.29 · p. 28
अनुष्टुप्
लताभेदे स्त्रियां ना तु क्षुरप्राख्यायुधान्तरे ।चन्द्रस्यार्धेऽप्यथो अम्बुप्रियो ना वेतसद्रुमे ॥ ३० ॥
6.30 · p. 28
अनुष्टुप्
त्रि तु प्रियजलेऽथालिप्रियो ना चूतनीपयोः ।काकजम्बूसमाख्ये च जम्बूभेदे स्त्रियां त्वयम् ॥ ३१ ॥
6.31 · p. 28
अनुष्टुप्
अलेः प्रियायां त्रिषु तु प्रिये मधुलिहस्तथा ।भलिर्यस्य प्रियस्तत्राप्यथो अश्वप्रियो यवे ॥ ३२ ॥
6.32 · p. 28
अनुष्टुप्
पुमान् समासभेदेषु त्वर्थो लिङ्गं च पूर्ववत् ।अश्वबालस्तु काशे ना बाले त्वश्वस्य पुन्नपोः ॥ ३३ ॥
6.33 · p. 28
अनुष्टुप्
अश्वपण्यस्त्वनूढायां वैश्यायां क्षत्त्रिया(न्त?न)रे ।जाते द्वयोस्त्रिषु पुनर्बहुव्रीहौ नपि त्वदः ॥ ३४ ॥
6.34 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ज्ञेयं तत्पुरुषेऽथ स्यादपक्रम इति त्रिषु ।गर्ह्यक्रमयुते पुंसि त्वपगत्यां पलायने ॥ ३५ ॥
6.35 · p. 28
अनुष्टुप्
त्रिषु त्वपशदो नीचे द्वे तु षट्सु नृजातिषु ।वर्णानामानुलोम्येन जातास्वथ पराक्रमे ॥ ३६ ॥
6.36 · p. 28
अनुष्टुप्
अपदानं नपि त्रिस्तु बहुव्रीहावथो पुमान् ।अपसव्यः सूतकादौ प्रतिकूले तु स त्रिषु ॥ ३७ ॥
6.37 · p. 28
अनुष्टुप्
दक्षिणे च तनोर्ना तु चारभेदेऽपसर्पवाक् ।अपसृप्तौ बहुव्रीहौ त्वेष त्रिः क्ली त्वपासनम् ॥ ३८ ॥
6.38 · p. 29
अनुष्टुप्
वधे निरसने चापि बहुव्रीहौ तु तत् त्रिषु ।अपाश्रयस्तु ना मत्तवारणेऽपाश्रितावपि ॥ ३९ ॥
6.39 · p. 29
अनुष्टुप्
अन्येषु च समासेषु लिङ्गार्थौ पूर्ववत् स्मरेत् ।अ(प?प्र)हृष्टस्तु काके द्वे त्रि त्वप्रमुदिते भवेत् ॥ ४० ॥
6.40 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अष्टापदोऽस्त्री कनके तथा शारिफलेऽपि च ।अष्टवर्गस्तु ना राज्ञामारम्भाद्यष्टके तथा ॥ ४१ ॥
6.41 · p. 29
अनुष्टुप्
अष्टके भेषजानां च मेदादीनां भिषक्श्रुते ।समानामपि चाष्टानां समूहे भेद्यवत् पुनः ॥ ४२ ॥
6.42 · p. 29
अनुष्टुप्
बहुव्रीहावनीकस्थस्त्वनीके स्थातरि त्रिषु ।ना तु राज्ञां रक्षिवर्गे गजशिक्षाक्रमेऽपि च ॥ ४३ ॥
6.43 · p. 29
अनुष्टुप्
अधिकाङ्गं सारसनसंज्ञे कवचधारिभिः ।मध्यबद्धेऽधिके चाङ्गे क्ली त्रि त्वन्यपदार्थकम् ॥ ४४ ॥
6.44 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
अङ्गारकस्तु ना भौमे द्वयोस्तु विहगान्तरे ।अश्मन्तकं तु नप्स्त्रीत्वे चुल्ल्यां वृक्षान्तरे तु ना ॥ ४५ ॥
6.45 · p. 29
अनुष्टुप्
अङ्गुलीयं तूर्मिकाख्ये क्लीबगङ्गुलिभूषणे ।स्यादङ्गुलिभवे तु त्रिरब्रह्मण्यं तु नप्यदः ॥ ४६ ॥
6.46 · p. 29
अनुष्टुप्
नाट्यावद्योक्तिषु त्रिस्तु ब्रह्मण्यादन्यवस्तुनि ।अरोचको नारुच्याख्यरोगेऽरोचितरि त्रिषु ॥ ४७ ॥
6.47 · p. 29
अनुष्टुप्
यत् तु सर्वोषधिस्रानं तत्र क्लीबमलोचकम् ।अलोचितरि तु त्रि स्यात् तथालोचयितर्यपि ॥ ४८ ॥
6.48 · p. 30
अनुष्टुप्
अमावास्या स्त्रियां दर्शे जाते त्वत्र त्रिषु स्मृता ।त्रिषु त्वसहनः शत्रौ बहुव्रीहौ च नप् पुनः ॥ ४९ ॥
6.49 · p. 30
अनुष्टुप्
ज्ञेयं तत्पुरुषेऽथार्कपुष्पमर्काख्यशाखिनः ।पुष्पे नृशण्डयोः साम्नोस्तूभयोः स्यान्नपुंसकम् ॥ ५० ॥
6.50 · p. 30
अनुष्टुप्
अरुष्करस्तु पुंसि स्याद् भल्लातकमहीरुहे ।त्रि तु व्रणकृति त्रि स्यादृजुगामिन्यजिह्मगः ॥ ५१ ॥
6.51 · p. 30
अनुष्टुप्
असर्पे तु द्वयोर्ना तुं शरेऽथो अर्शसानवाक् ।नाग्नौ मनसि च द्वे तु ब्राह्मणे कश्चिदब्रवीत् ॥ ५२ ॥
6.52 · p. 30
अनुष्टुप्
अघ्नपानस्तु पुंसि स्यादृषिभेदेऽस्त्रियां भुजे ।अविसोढं त्ववेर्दुग्धे क्ली विसोढात् परे त्रिषु ॥ ५३ ॥
6.53 · p. 30
अनुष्टुप्
अशिरस्कः कबन्धे ना बाहौ चामूर्ध्नि तु त्रिषु ।अबलोर्णं तु शण्डे स्यात् ताम्बूलस्य विचर्विते ॥ ५४ ॥
6.54 · p. 30
अनुष्टुप्
चूर्णे ना त्वस्फुटायां स्याद् वाचि त्रिषु पुनर्भवेत् ।उपर्युदीच्यश्रेष्ठानां विपरीतेष्वनुत्तरः ॥ ५५ ॥
6.55 · p. 30
अनुष्टुप्
श्रेष्ठे च विपरीते तु प्रतिवाक्यस्य नष्ययम् ।अयोमयस्त्वयस्कान्ते पुमान् स्त्रीपुंसयोः पुनः ॥ ५६ ॥
6.56 · p. 30
अनुष्टुप्
अयोमयमणौ त्रिस्तु नाथेऽधिपतिरित्ययम् ।पुमांस्तु मूर्ध्न आवर्ते ब्राह्मणे त्वग्रजन्मवाक् ॥ ५७ ॥
6.57 · p. 30
अनुष्टुप्
द्वयोर्ज्येष्ठे च सहजे स्यादन्तेवासिवाक् पुनः ।शिष्ये त्रिषु द्वे चण्डाले स्यादित्येवं विदुर्बुधाः ॥ ५८ ॥
6.58 · p. 30
अनुष्टुप्
आडम्बरोऽस्त्री संरम्भे गजगर्जिततूर्ययोः ।युद्धवादित्रनिर्घोषे केचित् क्रोधे तु सज्जनः ॥ ५९ ॥
6.59 · p. 30
अनुष्टुप्
आभोगे चाथ पुंसि स्यादारोहण इति ध्वनिः ।रथे क्ली त्वधिरोहस्य साधने चाधिरोहणे ॥ ६० ॥
6.60 · p. 31
अनुष्टुप्
स्त्रियामाश्वयुजी पौर्णमासीभेदेऽश्वयुग्युते ।ना तु मास्याश्विने त्रिस्तु जातेऽश्विन्याख्यकालके ॥ ६१ ॥
6.61 · p. 31
अनुष्टुप्
द्वयोस्त्वाखनिको वारिचरपक्षिणि सूकरे ।तटाककारे तु त्रि स्यात् त्रिषु त्वापतिकध्वनिः ॥ ६२ ॥
6.62 · p. 31
अनुष्टुप्
पादोष्णके वणिजि च द्वे तु श्येनमयूरयोः ।पुंसि कालेऽथापदिको वणिजि त्रि पुमान् पुनः ॥ ६३ ॥
6.63 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable)
इन्द्रनीले भवेदिन्द्रकीले चाथो पुमान् भवेत् ।इन्द्रनीले चेन्द्रनीले तथापनिक इत्ययम् ॥ ६४ ॥
6.64 · p. 31
अनुष्टुप्
वणिजि त्रिष्वथो आस्यप्रिया निष्पावसंज्ञके ।धान्यभेदे स्त्रियां वत्क्रप्रिये तु त्रिष्वना पुनः ॥ ६५ ॥
6.65 · p. 31
अनुष्टुप्
आवर्तना स्यादभ्यासे सूत्रस्य लवने तथा ।आवृत्तौ तु नपि स्यात् तु क्लीबमास्फोटनध्वनिः ॥ ६६ ॥
6.66 · p. 31
अनुष्टुप्
आस्फोटे स्त्री तु वेधन्यामास्फोटन्यथ नर्तने ।रसभावाङ्गहाराद्यैः शास्त्रोक्तै रूपकाश्रये ॥ ६७ ॥
6.67 · p. 31
अनुष्टुप्
आभ्यन्तरं क्ली त्रि त्वेतदभ्यन्तरभवादिषु ।आत्मनीनः सुते स्याले प्राणधारिणि दूषके ॥ ६८ ॥
6.68 · p. 31
अनुष्टुप्
अजयस्य त्वयं पाठः प्राणधारे विदूषके ।अर्थयोः पूर्वयोर्लिङ्गं द्वे त्रि तूत्तरयोर्भवेत् ॥ ६९ ॥
6.69 · p. 31
अनुष्टुप्
आत्मने च हिते ना तु यद्यर्थस्या विदूषकः(?) ।अना त्वाकलना बन्धे सङ्ख्यानज्ञानयोरपि ॥ ७० ॥
6.70 · p. 31
अनुष्टुप्
===========================================NoteःLast verse on page 0031 is no.७० sofirst verse on next page 0032 should beno.७१, but in the PDF it is numbered as२३९ so I am keeping it same as per PDF.Also "इति त्र्यक्षरकाण्डे पुल्लिँङ्गाध्यायः ।" is mentioned atend of this page which does not match withtop page headings on the pages before andafter this page. Moreover subsequent page(no.0033) begins with verse no.८३ whichindicates missing verses no.७१-८२.===========================================समिधस्तु समूहेऽग्नौ युद्धगोधूमपिष्टयोः ।स्वापे तु संलयश्चैकीभावे च स्वधितिः पुनः ॥ २३९ ॥
6.239 · p. 32
अनुष्टुप्metre not read in every lineimpossible sign sequence: NoteःLast vLatin letters: NoteLatin letters: LastLatin letters: verseLatin letters: onLatin letters: pageLatin letters: isLatin letters: noLatin letters: soLatin letters: firstLatin letters: verseLatin letters: onLatin letters: nextLatin letters: pageLatin letters: shouldLatin letters: beLatin letters: noLatin letters: butLatin letters: inLatin letters: theLatin letters: PDFLatin letters: itLatin letters: isLatin letters: numberedLatin letters: asLatin letters: soLatin letters: ILatin letters: amLatin letters: keepingLatin letters: itLatin letters: sameLatin letters: asLatin letters: perLatin letters: PDFLatin letters: AlsoLatin letters: isLatin letters: mentionedLatin letters: atLatin letters: endLatin letters: ofLatin letters: thisLatin letters: pageLatin letters: whichLatin letters: doesLatin letters: notLatin letters: matchLatin letters: withLatin letters: topLatin letters: pageLatin letters: headingsLatin letters: onLatin letters: theLatin letters: pagesLatin letters: beforeLatin letters: andLatin letters: afterLatin letters: thisLatin letters: pageLatin letters: MoreoverLatin letters: subsequentLatin letters: pageLatin letters: noLatin letters: beginsLatin letters: withLatin letters: verseLatin letters: noLatin letters: whichLatin letters: indicatesLatin letters: missingLatin letters: versesLatin letters: no
वज्रे कुठारे स्थपतिः पुनः स्यात् सौविदल्लके ।तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि ॥ २४० ॥
6.240 · p. 32
अनुष्टुप्
धनपे शिल्पिभेदे चेत्यजयः सन्निधिः पुनः ।सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥
6.241 · p. 32
अनुष्टुप्
अन्धकारे च युद्धे च सप्तर्षिस्त्वपि दीधितौ ।सप्तर्षयस्तु स्याच्चित्रशिखण्डिष्वथ कीर्त्यते ॥ २४२ ॥
6.242 · p. 32
अनुष्टुप्
स्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा ।स्थासकस्त्वपि चर्चिक्ये बुद्बुदे हस्तिनामपि ॥ २४३ ॥
6.243 · p. 32
अनुष्टुप्
ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः ।गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २४४ ॥
6.244 · p. 32
अनुष्टुप्
ऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके ।स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥
6.245 · p. 32
अनुष्टुप्
सौप्तिकस्तु प्रपाताख्यशत्रुनिग्रहकर्मणि ।तद्वर्णनपरे चापि भवेद्भारतपर्वणि ॥ २४६ ॥
6.246 · p. 32
अनुष्टुप्
हर्यश्वस्तु भवेत् पूर्वराजभेदे पुरन्दरे ।हरिद्रुरतु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥
6.247 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन ।हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥
6.248 · p. 32
अनुष्टुप्
कुक्ष्यग्नौ हेरुकस्तु स्यान्महाकालाह्वये गणे ।बुद्धभेदे च रभस इत्यध्यायः समाप्तवान् ॥ २४९ ॥
6.249 · p. 32
अनुष्टुप्
इति त्र्यक्षरकाण्डे पुल्लिँङ्गाध्यायः ।
अचिकित्स्यविषायां स्यात् सविषाणां जलौकसाम् ।षण्णामेकजलूकायां स्त्रियामश्वान्तरे पुनः ॥ ८३ ॥
6.83 · p. 33
अनुष्टुप्
कृष्णैर्नेत्रैः समायुक्ते द्वयोरिन्द्रमहः पुनः ।शुनि द्वे ना तु शक्रस्य महेऽथो इन्द्रकोशवाक् ॥ ८४ ॥
6.84 · p. 33
अनुष्टुप्
तमङ्गकाख्येऽवयवे गृहस्यास्त्री तथा हरेः ।कोशेऽपीन्दीवरं तु स्यात् क्लीबं नीलोत्पलेऽथ सा ॥ ८५ ॥
6.85 · p. 33
अनुष्टुप्
इन्दीवरा शतावर्यां स्त्रियां ना त्विध्मवाहवाक् ।दृढच्युत्संज्ञकमुनौ त्रिषु त्विध्मस्य वाहके ॥ ८६ ॥
6.86 · p. 33
अनुष्टुप्
इन्दवृद्धिस्तु निर्मुष्कहये पुंसि स्त्रियां पुनः ।इन्द्रस्य वृद्धौ द्वे त्वीहामृगो वृक इति श्रुते ॥ ८७ ॥
6.87 · p. 33
अनुष्टुप्
मृगभेदे पुमांस्त्वेष दशरूपकमध्यगे ।स्याद्रूपकप्रभेदेऽथो पुमानेष उदुम्बरः ॥ ८८ ॥
6.88 · p. 33
अनुष्टुप्
वृक्षे जन्तुफलाभिख्ये देहल्यां च नृभूम्नि तु ।नीवृतः साल्वसंज्ञस्यावयवे क्षुद्रनीवृति ॥ ८९ ॥
6.89 · p. 33
अनुष्टुप्
क्ली तु ताम्रे च हेमाक्षेऽप्युग्रगन्धा पुनः स्त्रियाम् ।वचायामजमोदायां सिते तु लशुने पुमान् ॥ ९० ॥
6.90 · p. 33
अनुष्टुप्
फलवल्लीविशेषे(ण ? च) चीर्णवृन्त इति श्रुते ।उपह्वरोऽस्त्री रहसि समीपेऽथो उपासना ॥ ९१ ॥
6.91 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शुश्रूषायां शराभ्यासे समीपासन एव च ।न नाथो उपकार्या स्त्री राजगेहे त्रिषु त्विदम् ॥ ९२ ॥
6.92 · p. 33
अनुष्टुप्
उपकर्तव्यकेऽथ स्यादुपग्राह्यं त्रिषु स्मृतम् ।विद्यादुपग्रहीतव्ये प्राभृते तु नपुंसकम् ॥ ९३ ॥
6.93 · p. 33
अनुष्टुप्
उपोदका स्त्रियां शाकवल्लिभेदे सुताह्वये ।जलं तूपगते त्रि स्यात् पुमांस्तु स्यादुपद्रवः ॥ ९४ ॥
6.94 · p. 33
अनुष्टुप्
चतुर्थ्यां सामभक्तौ स्याड्डमरे चाप्युपद्रुतौ ।प्रधानरोगानुचरे रोगभेदे त्रिषु त्वयम् ॥ ९५ ॥
6.95 · p. 34
अनुष्टुप्