कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्वामिनी

svāminīस्त्री · fem.

In 4 kośas: 4 synonym verses, 1 as a nānārtha head word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.149 · p. 79
महाराजश्च राज्ञी तु स्वामिनी महिषीति च ।देवी स्याद्भट्टिनी त्वन्या वेश्या तु गणिकार्णिका ॥ १४९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 59 · p. 534
भट्टिनीत्यपरैरन्या नीचैर्गौस्वामिनी सा ॥ ५९ ॥
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.32 · p. 106
वावाता तु प्रियतमा स्वामिनी त्वनृपात्मजा ।फालाकली युद्धजिता नृपस्योढाः प्रिया इमाः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.103 · p. 144
अथ नाट्योक्तयो राजा देवो भट्टारकोऽपि च ।महाराजश्च राज्ञी तु स्वामिनी महिषी तु चेत् ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1508 · p. 171
स्वामिन्यनृपवंशोत्थराजपत्न्यां तथा पुनः ।नाट्योक्तिराजपत्न्यां च जीरकोशनसोस्तु ना ॥ १५०८ ॥
अनुष्टुप्