कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

सप्तमोपदेशः

इति नत्कीरकविविरचितायां बालप्रबोधिकायां षष्ठोपदेशः ।

ताण्डवं नटनं नाटयं लास्यं नृत्तं च नर्तनम् ।जायाजीवस्तु शैलूषः शैलालिभरतो नटः ॥ ११७ ॥
7.117 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रङ्गाजीवो ऋतूर्णप्रो नटो नङ्गारतार्यपि ।नर्तकेशी कृशाश्वी च नर्तकस्त्वग्रफल्लकः ॥ ११८ ॥
7.118 · p. 76
अनुष्टुप्
यो यष्टिरज्जुखड्गेषु प्रणृत्यति स पूरकः ।कोलकः प्लवकश्चासौ तालवाचक इत्यपि ॥ ११९ ॥
7.119 · p. 76
अनुष्टुप्
रङ्गताली तु रुद्रस्य वेषे पात्रे निगद्यते ।कृष्णस्य वेषे पात्रे स्यादध्वमानव इत्यपि ॥ १२० ॥
7.120 · p. 77
अनुष्टुप्
रामवेषे देवरथरशक्रस्य तु शचीबलः ।दशग्रीवस्य पात्रे तु मतो रङ्गोपमर्दकः ॥ १२१ ॥
7.121 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कंसस्य भूमिकां प्राप्तो भवेत्कालगलाधिपः ।यस्तु स्त्रीभूमिकां प्राप्तः स भ्रुकुंसो भ्रकुंसवत् ॥ १२२ ॥
7.122 · p. 77
अनुष्टुप्
तत्तद्वेषो भूमिका स्यात्तद्धारी भूमिकागतः ।सूचकः सूत्रधारे स्यात्पार्श्वस्थाः पारिपार्श्विकाः ॥ १२३ ॥
7.123 · p. 77
अनुष्टुप्
पाठको नान्द्यकः पात्रविदूषे तु किलीकिलः ।विदूषकः कीलिकीलः प्रभासी प्रीतिभासि च ॥ १२४ ॥
7.124 · p. 77
अनुष्टुप्
वेशार्यः पीठमर्दी च षिड्गः पवको विटः ।मार्दङ्गिको मौरजिको वीणावादस्तु वैणिकः ।वेणुध्माः स्युर्वैणविकाः पाणिवादास्तु पाणिकाः ॥ १२५ ॥
7.125 · p. 77
अनुष्टुप्metre not read in every line
नृत्तं गीतं वाद्यमिति नाट्यत्तौर्यत्रिकं त्रिकम् ।शृङ्गारवीरबीभत्सहास्याद्भुतभयानकाः ॥ १२६ ॥
7.126 · p. 77
अनुष्टुप्
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
7.127 · p. 77
अनुष्टुप्
बीभत्समाने बीभत्सो विस्मये त्वद्भुतो रसः ।भयानको रसो भीते हास्यो हसितरि स्थितः ॥ १२८ ॥
7.128 · p. 77
अनुष्टुप्
बीभत्सो विकृतं चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं च भीषणम् ॥ १२९ ॥
7.129 · p. 77
अनुष्टुप्
घोरं दारुणमाभीलं भयङ्करमितीर्यते ।स्थायिसञ्चारिभेदेन द्विधा भावो व्यवस्थितः ॥ १३० ॥
7.130 · p. 77
अनुष्टुप्
स्वेदो घर्मो निदाघः स्यात्कालिका तु विवर्णता ।रोमोद्गमो रोमहर्षो रोमाञ्चः कण्टकोऽपि च ॥ १३१ ॥
7.131 · p. 78
अनुष्टुप्
स्मितं त्वदृष्टदशने हासो वक्त्रविकासना ।निकुञ्चितशिरोगात्रमट्टहासो महाहसः ॥ १३२ ॥
7.132 · p. 78
अनुष्टुप्
स्वरभेदस्तु तल्लत्वं स्वरकम्पस्तु वेपथुः ।क्रन्दितं रुदितं क्रुष्टं लोतोश्रुनयनोदकम् ॥ १३३ ॥
7.133 · p. 78
अनुष्टुप्
अश्रुरोदनमात्रं च क्रीडा खेला च कुर्दनम् ।ध्रुवः केलिः परीहासः क्रीडा लीला च नर्म च ॥ १३४ ॥
7.134 · p. 78
अनुष्टुप्
जृम्भणं जृम्भितं जृम्भा … गवेल्लोच्चभङ्गिका ।पर्वस्फोटोऽङ्गुलिध्वानो मध्यमाङ्गुष्ठयोगजः ॥ १३५ ॥
7.135 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दस्तु चोटिका प्रोक्ता मुखभेदस्तु जञ्जभा ।एजनं वेपथुः कम्पः प्रलयो … ।आटोपवेगसंरम्भः स्पृहा तु त्वरिता त्वरी ॥ १३६ ॥
7.136 · p. 78
अनुष्टुप्metre not read in every line
असौम्याक्षिण्यदृष्टिः स्यात् ईक्षणं च निशामनम् ।दृशेष्वर्णं च निध्यानं निर्वर्णं च निवापनम् ॥ १३७ ॥
7.137 · p. 78
अनुष्टुप्
आलोकनं च लोकश्च कटाक्षोऽपाङ्गदर्शनम् ।प्रलोकितं पार्श्वदृष्टिः पृष्ठतस्त्ववलोकनम् ॥ १३८ ॥
7.138 · p. 78
अनुष्टुप्
उल्लोक उपदृष्टिः स्यात् अवलोकस्त्वधः कृतः ।उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।स्फुरितं स्पन्दितं चाथ भ्रुकुटिर्भ्रकुटिर्भृटीः ॥ १३९ ॥
7.139 · p. 78
अनुष्टुप्
चातुरं स्वल्पभृकुटीः रेचिकं त्वेकया भ्रुवा ।चेष्टा भृङ्गारजा स्त्रीणां भावा लीलादयोऽपि च ।वल्लभानुगतिर्लीलाविलासाशिष्टवत्क्रिया ॥ १४० ॥
7.140 · p. 78
अनुष्टुप्
विकृतं तत्र चित्तस्य फलजाभीरभाषणम् ।मोट्टायितं वल्लभस्य चिन्ता कुट्टमितं मनः ॥ १४१ ॥
7.141 · p. 79
अनुष्टुप्
तन्वोष्ठादेर्दृढस्पर्शात् सुश्च सुखविभ्रमः ।सत्वाभावस्ततो भावो लीलाभावाः समुत्थिताः ॥ १४२ ॥
7.142 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अङ्गहारोऽङ्गविक्षेपो नानाकरणसंहृतिः ।करणान्यङ्गचेष्टाः स्युः कर्हणं गर्हणं च तत् ॥ १४३ ॥
7.143 · p. 79
अनुष्टुप्
व्यञ्जकोsभिनयश्च स्यात् सूच्यो… भिनयश्च सः ।भूषणाद्यैर्गिराङ्गेन सत्वेनाभिनयाः कृताः ॥ १४४ ॥
7.144 · p. 79
अनुष्टुप्metre not read in every lineLatin letters: s
त्रिविक्रमाः स्युराहार्यवाचिकाङ्गिकसात्विकाः ।नाटकं नाटिका भाणो वीथी प्रहसनं डिमः ॥ १४५ ॥
7.145 · p. 79
अनुष्टुप्
ईहामृगः प्रकरणं समवाकार इत्यपि ।व्यायोगश्चेति रूपाणि नाट्यस्यैतानि कल्पनाः ॥ १४६ ॥
7.146 · p. 79
अनुष्टुप्
भारती सात्वती चैव कैशिक्यारभटीति च ।चतस्रो वृत्तयो भावाः संस्कृताद्या विकल्पिकाः ॥ १४७ ॥
7.147 · p. 79
अनुष्टुप्
भारती गीर्वाणवाणी शेपाश्चेष्टा इति क्वचित् ।अथ नाट्योन्नयो राजा देवो भट्टारकोऽपि च ॥ १४८ ॥
7.148 · p. 79
अनुष्टुप्
महाराजश्च राज्ञी तु स्वामिनी महिषीति च ।देवी स्याद्भट्टिनी त्वन्या वेश्या तु गणिकार्णिका ॥ १४९ ॥
7.149 · p. 79
अनुष्टुप्
लाञ्जक्यचूलिका चूला वारस्त्रीति निगद्यते ।भट्टारिका राजमाता तत्पुत्री भर्तृदारिका ॥ १५० ॥
7.150 · p. 79
अनुष्टुप्
तनयस्त्वस्य … स्वामी चाप्यथ राष्ट्रियः ।स्यालः स्याद्राजपुत्रेषु तु युवराजः कुमारकः ॥ १५१ ॥
7.151 · p. 79
metre not recognised
भर्तृदारक इत्युक्ते पतिस्त्वार्यः प्रकीर्तितः ।आर्यपुत्रस्तु पूज्यः स्यादार्यकस्तु पिता च सः ॥ १५२ ॥
7.152 · p. 80
अनुष्टुप्
अम्बाऽम्बिका च माता स्यादत्तिका भगिनी स्वसा ।बालाबुसा कनिष्ठा स्यादावुत्तो भगिनीपतिः ॥ १५३ ॥
7.153 · p. 80
अनुष्टुप्
आर्यभ्राता क्षुल्लतोत देवरस्त्वार्यपुत्रकः ।हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १५४ ॥
7.154 · p. 80
अनुष्टुप्
गीतं गेयं च वीणादि यत्तु तन्त्रीसमुद्भवम् ।तन्त्रीगीतं बहुः शीतं गान्धर्वं दिव्यमीश्वरम् ॥ १५५ ॥
7.155 · p. 80
अनुष्टुप्
सप्तस्वरास्त्रयो ग्रामाः मूर्च्छना एकविंशतिः ।तानान्येकोनपञ्चाशदित्येव स्वरविस्तरः ॥ १५६ ॥
7.156 · p. 80
अनुष्टुप्