All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
भूमिकाण्डः · क्षत्रियाध्यायः (1/2)
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे ब्राह्मणाध्यायः
क्षत्रं बाहुजराजन्यौ भूशक्रः क्षत्रियो विराट् ।राजा तु पार्थिवो भूभुग्राड्भूपो नृपतिर्नृपः ॥ १ ॥
3.7.1 · p. 104
अनुष्टुप्
नरेन्द्रो नरदेवश्च वश्यामात्यस्त्वधीश्वरः ।सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
3.7.2 · p. 104
अनुष्टुप्
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ३ ॥
3.7.3 · p. 104
अनुष्टुप्
गुणाः सांग्रामिकाः सर्वे स्वामिनस्त्वाभिगामिकाः ।इन्द्रव्रतादयश्चाष्टौ संपत्तिर्विपदोऽपराः ॥ ४ ॥
3.7.4 · p. 104
अनुष्टुप्
तत्र याः शक्तयस्तिस्रः प्रभावोत्साहमंत्रजाः ।षाड्गुण्यमस्त्राद्यभ्यासो गुणाः सांग्रामिका इमे ॥ ५ ॥
3.7.5 · p. 104
अनुष्टुप्
षड्गुणा आसनं यानं द्वैधं विग्रह आश्रयः ।सन्धिश्चेन्द्रयमादीनां वृत्तमिन्द्रव्रतादिकम् ॥ ६ ॥
3.7.6 · p. 104
अनुष्टुप्
अथ विद्यार्जनं दानमष्टवर्गस्य वर्धनम् ।द्विकपञ्चकषट्काणां विजयः सप्तवर्जनम् ॥ ७ ॥
3.7.7 · p. 104
अनुष्टुप्
उपायनैपुणं धर्म इत्याद्याः शोभनाः क्रियाः ।दृष्टादृष्टोद्यार्था यास्ते गुणा आभिगामिकाः ॥ ८ ॥
3.7.8 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्टो (syllables merged)
तत्राष्टवर्ग आरंभः कृषिः सेतुर्वणिक्पथः ।खनिस्थानं वनच्छेदो दुर्गं शून्यनिवेशनम् ॥ ९ ॥
3.7.9 · p. 104
अनुष्टुप्
द्विकं तु मनआत्मानाविन्द्रियाणि तु पञ्चकम् ।षट्कं कामो मदो मानो लोभो हर्षो रुषापि च ॥ १० ॥
3.7.10 · p. 104
अनुष्टुप्
मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥ ११ ॥
3.7.11 · p. 104
अनुष्टुप्
मुख्योपायास्तु सामाद्याः क्षुद्रोपायाः पुनस्त्रयः ।मायोपेक्षेन्द्रजालं चेत्येते माया तु शांबरी ॥ १२ ॥
3.7.12 · p. 105
अनुष्टुप्
इन्द्रजालं तु कुहकमुपेक्षा त्ववधीरणम् ।उपजापस्तु भेदः स्यात् साम सांत्वं च सांत्वनम् ॥ १३ ॥
3.7.13 · p. 105
अनुष्टुप्
तंत्रं स्वराष्ट्रचिंता स्यादावापस्त्वरिचिंतनम् ।अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ॥ १४ ॥
3.7.14 · p. 105
अनुष्टुप्
राज्ञामहिभयं तु स्यात् स्वपक्षप्रभवं भयम् ।हैमं सिंहासनं भद्रासनं त्वन्यन्नृपासनम् ॥ १५ ॥
3.7.15 · p. 105
अनुष्टुप्
छत्रं स्यादातपत्रं तन्नृपलक्ष्म नृपस्य चेत् ।अभिसारस्त्वनुचरः सहायोऽनुप्लवोऽनुगः ॥ १६ ॥
3.7.16 · p. 105
अनुष्टुप्
सेवकश्चानुजीवी च यस्तु केलिसहायकः ।वैहासिकः केलिकिलस्तस्मिन् हासनिकोऽपि च ॥ १७ ॥
3.7.17 · p. 105
अनुष्टुप्
सामन्ता राज्यसंधिस्था आरक्षाः पुररक्षिणः ।मन्त्र्यमात्यौ तु धीकर्मसहायेऽतः परे त्रिषु ॥ १८ ॥
3.7.18 · p. 105
अनुष्टुप्
अध्यक्षः स्यादधिकृतः स्थाने चेत् स्थानिको ह्यसौ ।क्षुद्रोपकरणेषु स्यादध्यक्षः पारिकर्मिकः ॥ १९ ॥
3.7.19 · p. 105
अनुष्टुप्
कुमारोऽमात्यको मन्त्री वर्गे धर्मे तु धार्मिकः ।हट्टे धीकर्मिकः पुर्यां चोरिको दंडपाशिकः ॥ २० ॥
3.7.20 · p. 105
अनुष्टुप्
रजते नैष्किको ग्रामे स्थायुको हेम्नि भौरिकः ।महानसे पौरोगवो दण्डपालोऽखिल बले ॥ २१ ॥
3.7.21 · p. 105
अनुष्टुप्metre not read in every line
अन्तःपुरेऽन्तर्वंशिको गोपो ग्रामेषु भूरिषु ।कालिकोऽधिकृतः शुल्के सौविदल्लस्तु सौविदः ॥ २२ ॥
3.7.22 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्वं (wrong syllable)
स्थापत्यकञ्चुक्यार्याश्च षण्डो वर्षवरः समौ ।प्रदेष्टा पञ्चजनीनो भाण्डागारिक इत्यपि ॥ २३ ॥
3.7.23 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
दौवारिको वेत्रधरो द्वाः स्थः क्षत्ता च दर्शकः ।द्वारपाले पुरोधास्तु सौवस्तिकपुरोहितौ ॥ २४ ॥
3.7.24 · p. 106
अनुष्टुप्
मौहूर्तिकमौहूर्तज्यौतिषिकज्ञानिगणकदैवज्ञाः ।सांवत्सर आदेशी कार्तांतिक इत्यमी तुल्याः ॥ २५ ॥
3.7.25 · p. 106
आर्याmetre not read in every line
यथार्हवर्णो मंत्रज्ञो भीमरो गूढपूरुषः ।चारोऽप्यथ वणिग्भिक्षुश्छात्रो लिंगी कृषीवलः ॥ २६ ॥
3.7.26 · p. 106
अनुष्टुप्
इति संस्थाचराः पंच तत्र भिक्षुरुदास्थितः ।कृषीवलो गृहपतिश्छात्रे कापटिकश्चरे ॥ २७ ॥
3.7.27 · p. 106
अनुष्टुप्
संचारास्त्वपरे चाराः स्थिताः संस्थाचरेषु ये ।तीक्ष्णोऽतिहिंसनः शूरश्छत्री छद्मप्रधारवान् ॥ २८ ॥
3.7.28 · p. 106
अनुष्टुप्
अपसर्पाः कर्मकरव्याजात् स्थाने वसन्ति ये ।वार्तिकः सन्देशहरो दूतः सांदेशिको रभूः ॥ २९ ॥
3.7.29 · p. 106
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable); pāda 3, syllable 5 न्दे (wrong syllable)
वैतालिको बोधकरो वन्दी तु स्तुतिपाठकः ।मागधो मधुको घण्टाताडे घाण्टिकचातिकौ ॥ ३० ॥
3.7.30 · p. 106
अनुष्टुप्
कृताभिषेका महिषी महादेव्यप्यथापरा ।देवी राजकुलोत्था चेत् परिवृक्ती तु पूजिता ॥ ३१ ॥
3.7.31 · p. 106
अनुष्टुप्
वावाता तु प्रियतमा स्वामिनी त्वनृपात्मजा ।फालाकली युद्धजिता नृपस्योढाः प्रिया इमाः ॥ ३२ ॥
3.7.32 · p. 106
अनुष्टुप्
अनूढास्तु प्रिया राज्ञः कलाज्ञा गणिकाः स्मृताः ।गणिका सा प्रगणिका यानाप्तपरिचारिका ॥ ३३ ॥
3.7.33 · p. 106
अनुष्टुप्
आज्ञा स्यादाज्ञागणिका या राज्ञाप्तपरिच्छदा ।अथालगन्धिकाप्याज्ञागणिका कुलसंभवा ॥ ३४ ॥
3.7.34 · p. 106
अनुष्टुप्
या तु भोगाय वेश्यात्वं गता वैषयिकीति सा ।बन्धकी तु गता वेशमर्थायानाप्तसत्कृतिः ॥ ३५ ॥
3.7.35 · p. 106
अनुष्टुप्
शय्यास्रग्भूषणादौ तु नियुक्ता परिचारिका ।सञ्चारिका महाकार्ये कथायां द्रविणादिषु ॥ ३६ ॥
3.7.36 · p. 107
अनुष्टुप्
विचारिका तूपवनकक्षान्तरविचारिणी ।आशीः स्वस्त्ययनाभिज्ञा या वृद्धा सा महत्तरी ॥ ३७ ॥
3.7.37 · p. 107
अनुष्टुप्
प्रतिहारी तु राजानं संभावयति या सदा ।आयुक्तिविनियुक्ता या सा तांबूलकरंगिका ॥ ३८ ॥
3.7.38 · p. 107
अनुष्टुप्
असिक्न्यन्तःपुरप्रेष्यानाप्तभोगा कुमारिका ।विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ३९ ॥
3.7.39 · p. 107
अनुष्टुप्
उदासीनः परस्तस्मात् पार्ष्णिग्राहस्तु पृष्ठतः ।शत्रुर्दस्युमित्रारी अरातिरहितो द्विषन् ॥ ४० ॥
3.7.40 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श (syllables merged)
द्वेषणः प्रत्यनीको द्विड् जिघांसुर्हिंसनो रिपुः ।सपत्नोऽसहनो वैरी दूषकः शात्रवः परः ॥ ४१ ॥
3.7.41 · p. 107
अनुष्टुप्
प्रत्यर्थी पर्यवस्थाता प्रतिपक्षो विपक्षकः ।दुर्हृद्द्वेष्यभियातिश्च परिपन्थी विरोध्यपि ॥ ४२ ॥
3.7.42 · p. 107
अनुष्टुप्
मित्रं नपुं त्रिषु स्निग्धवयस्येष्टहितप्रियाः ।निजात्मीयाप्तसुहृदः सहायः सद्रुचिः सखा ॥ ४३ ॥
3.7.43 · p. 107
अनुष्टुप्
कोशोऽर्थसंचयो राज्ञां भाण्डान्यर्था हि कोशगाः ।आयोदयौ धनोत्पत्तौ तत्क्षयेऽपचितिर्व्ययः ॥ ४४ ॥
3.7.44 · p. 107
अनुष्टुप्
पर्याहारः प्रजास्वायो भागधेयो बलिः करः ।उपदा तूपहारः स्यादुपग्राह्यमुपायनम् ॥ ४५ ॥
3.7.45 · p. 107
अनुष्टुप्
प्रदेशनं प्राभृतञ्च लम्बा तूत्कोच आमिषः ।दण्डो दमः साहसोऽस्त्री द्विपाद्यो द्विगुणो दमः ॥ ४६ ॥
3.7.46 · p. 107
अनुष्टुप्
अपराधो मन्तुरेनः खसृमं विप्रियागसी ।अपवादस्तु निर्देशो निदेशः शासनं तथा ॥ ४७ ॥
3.7.47 · p. 107
अनुष्टुप्
शिष्टराज्ञाप्यथ न्यायो देशरूपं समंजसम् ।राष्ट्रं तु विषयः सोऽपि युक्तो ग्रामैः शताधिकैः ॥ ४८ ॥
3.7.48 · p. 108
अनुष्टुप्
उपवर्त्तनमप्यस्मिन्मण्डलं तैः शताधिकैः ।दुष्प्रापं तु पुरं दुर्गं यंत्रशैलजलादिभिः ॥ ४९ ॥
3.7.49 · p. 108
अनुष्टुप्
वारकादीनि यन्त्राणि परिखाया बहिर्भुवि ।पादुका कण्टकी गर्तः पांसुच्छन्नो महापथे ॥ ५० ॥
3.7.50 · p. 108
अनुष्टुप्
तलयन्त्रं क्षुराकारं यदि वा क्रकचोपमम् ।श्वदंष्ट्रार्गलशृंगाटमण्डूकाद्यन्वितार्थकम् ॥ ५१ ॥
3.7.51 · p. 108
अनुष्टुप्
शरभा जानुमात्री दा दारुजा जानुभंजिनी ।अवपातस्तु हस्त्यर्थो गर्तश्छन्नस्तृणादिना ॥ ५२ ॥
3.7.52 · p. 108
अनुष्टुप्
स्यात्कण्ठकप्रतीसारा रज्जुः कण्टकसंचिता ।अहिपृष्ठं तु निर्मांसपृष्ठास्थ्याभमयोमयम् ॥ ५३ ॥
3.7.53 · p. 108
अनुष्टुप्
उपस्करप्रस्खलिनी भूमिः स्थपुटपिच्छिला ।छन्नैरेतैश्छन्नपथं सुरुंगादिः कृतश्च यः ॥ ५४ ॥
3.7.54 · p. 108
अनुष्टुप्
सैन्यं चक्रं बलं सेना चमूर्वाहिन्यनीकिनी ।पताकिनी च पृतना ध्वजिनी च वरूथिनी ॥ ५५ ॥
3.7.55 · p. 108
अनुष्टुप्
सैन्यं तु भिन्नकूटं तन्नष्टावांतरनायकम् ।शून्यमूलं तदस्थानमन्तः शल्यं तदोषकम् ॥ ५६ ॥
3.7.56 · p. 108
अनुष्टुप्
त्रिहयं पंचपादातं यदेकरथकुंजरम् ।सैन्यं सा पत्तिरेतस्यास्त्रैगुण्यात् स्युर्यथाक्रमम् ॥ ५७ ॥
3.7.57 · p. 108
अनुष्टुप्
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनीत्यनीकिन्यः पुनरक्षौहिणी दश ॥ ५८ ॥
3.7.58 · p. 108
अनुष्टुप्
प्रत्यासारश्चमूपार्ष्णिः सज्जनं तूपरक्षणम् ।हस्त्यश्वरथपादातं बलं स्याच्चतुरंगकम् ॥ ५९ ॥
3.7.59 · p. 108
अनुष्टुप्
इभो मतंगजो हस्ती दन्ती कुंभी करी रदी ।स्तंबेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ॥ ६० ॥
3.7.60 · p. 109
अनुष्टुप्
दन्तावलो महाकायो वारणः कुंजरोऽसुरः ।महामृगः शूर्पकर्णः सामजः सिंधुरः कपिः ॥ ६१ ॥
3.7.61 · p. 109
अनुष्टुप्
मदबृन्दः कुषी कंबुः शुण्डालः षष्टिहायनः ।भद्रो मन्द्रो मृग इति गजाः संकरजास्तथा ॥ ६२ ॥
3.7.62 · p. 109
अनुष्टुप्
अंगप्रत्यंगभद्रत्वं संक्षिप्तं भद्रलक्षणम् ।पृथुत्वं श्लथता स्थौल्यं संक्षिप्तं मन्द्रलक्षणम् ॥ ६३ ॥
3.7.63 · p. 109
अनुष्टुप्
तनुप्रत्यंगदीर्घोच्चप्रायो मृगगणो मृगः ।भद्रमन्द्रो भद्रमृगो भद्रमन्द्रमृगोऽपि च ॥ ६४ ॥
3.7.64 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
मन्द्रभद्रादयोऽप्येवमिति संकरजा नव ।ऊर्ध्वाधःकायभेदात्ते द्विधेत्यष्टादशोदिताः ॥ ६५ ॥
3.7.65 · p. 109
अनुष्टुप्
पञ्चवर्षो गजो बालः पोतस्तु दशवर्षकः ।त्रिंशद्वर्षस्तु कलभो विक्को विंशतिवर्षकः ॥ ६६ ॥
3.7.66 · p. 109
अनुष्टुप्
कालेऽप्यजातदन्तश्च स्वल्पांगोऽपि च मक्वणः ।आज्ञाकद्विनयग्राही यूथनाथस्तु यूथपः ॥ ६७ ॥
3.7.67 · p. 109
अनुष्टुप्
लग्नो मदकलो मत्तः प्रभिन्नोऽप्यथ निर्मदः ।उद्वान्तोऽसौ परिणतस्तिर्यग्दन्तप्रहारकः ॥ ६८ ॥
3.7.68 · p. 109
अनुष्टुप्
औपवाह्यो राजवाह्यः सन्नाह्यः समरोचितः ।स्थूलह्रस्वरदोऽसोढ ईषादन्त उदग्रदन् ॥ ६९ ॥
3.7.69 · p. 109
अनुष्टुप्
करेणुः करिणी धेनुः कल्पना सज्जना घटा ।गण्डूषको बहिष्कर्षः संभोगश्चातिहस्तकः ॥ ७० ॥
3.7.70 · p. 109
अनुष्टुप्
स्थूलहस्तः फलीहस्तः पृथुहस्त इति क्रमात् ।उपर्येते गजांगुल्याः प्रदेशाःसा तु कर्णिका ॥ ७१ ॥
3.7.71 · p. 109
अनुष्टुप्
आकर्षः परिकर्षश्च बहिष्कर्षस्य पार्श्वयोः ।किरीटी दंतमूलं स्यात् प्रवेष्टस्तु ततः परम् ॥ ७२ ॥
3.7.72 · p. 110
अनुष्टुप्
मध्येमुखं तु वाहित्थं पिलाटौ तस्य पार्श्वयोः ।कर्णमूले पीतलिका चूलिका पिप्पलीति च ॥ ७३ ॥
3.7.73 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पी (wrong syllable)
तस्यास्तु पर उद्घात आरक्षः कुंभयोरधः ।उरःपार्श्वौ तु विक्षोभौ दर्दरौ गलपार्श्वयोः ॥ ७४ ॥
3.7.74 · p. 110
अनुष्टुप्
करटोऽस्य कटो गण्डो गात्रं पूर्वोंऽघ्रिरस्य तु ।मूलेधोऽध (ः प्रदेशास्तु) क्षयश्च पलिपादकः ॥ ७५ ॥
3.7.75 · p. 110
अनुष्टुप्metre not read in every lineimpossible sign sequence: मूलेधोऽध (ः प्रदे
कूर्मः सन्दानभागश्च प्रोह उत्संग इत्यपि ।विशेषभागो जघनभागो वैशाख्यपि क्रमात् ॥ ७६ ॥
3.7.76 · p. 110
अनुष्टुप्
गात्रे नव नखादूर्ध्वं पिण्डिकान्तमवस्थिताः ।पुच्छवंशोऽपवंशः स्यान्निष्कोशः कुक्षिमध्यकम् ॥ ७७ ॥
3.7.77 · p. 110
अनुष्टुप्
अवरं पश्चिमः पादस्तत्राधोऽधः स्थिताः क्रमात् ।कालभागो बहिष्पार्श्वस्तथा जघनपिण्डिका ॥ ७८ ॥
3.7.78 · p. 110
अनुष्टुप्
मण्डुकी शकुटा पार्ण्णिस्तलप्रोहश्च सक्थि च ।सन्दानभागः कूर्मश्च प्रदेशाः स्युर्नखावधेः ॥ ७९ ॥
3.7.79 · p. 110
अनुष्टुप्
अत्यूहः ककुदं मेढ्रे क्षीरिका चूचुकांतरम् ।अथ पुच्छे स्थिताः किल्ली संवालो बालपुष्कलम् ॥ ८० ॥
3.7.80 · p. 110
अनुष्टुप्
वालपाशक इत्येवमधोऽधः स्युर्यथोत्तरम् ।दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वतः ॥ ८१ ॥
3.7.81 · p. 110
अनुष्टुप्
मुखे पृषन्ति पद्मानि वमथुः करशीकरः ।प्रवृत्तिर्मद आलानं स्तंभस्तोत्रं तु वेणुकम् ॥ ८२ ॥
3.7.82 · p. 110
अनुष्टुप्
अंदुको निगलो न स्त्री भिदुरं शृंखला त्रयी ।कलापकः कण्ठबन्धस्त्रिपदी पादबन्धनम् ॥ ८३ ॥
3.7.83 · p. 110
अनुष्टुप्
चूषा कक्ष्या वरत्रा स्यादंकुशोऽस्त्री सृणिर्न षण् ।अपष्ठं त्वंकुशस्याग्रं सूना दण्डोऽर्प्रितांकुशः ॥ ८४ ॥
3.7.84 · p. 111
अनुष्टुप्
सूनापष्ठांतरं मन्या वक्रकीलो हुरुट्टकः ।कीलस्तु पुष्यलः शंकुर्हिञ्जीरो लोहशृंखलः ॥ ८५ ॥
3.7.85 · p. 111
अनुष्टुप्
पश्चाच्चरणशंकौ तु पड्बीशो घुटिकोऽपि च ।कदलिः करिणां केतुः शृंगारो गजमण्डनः ॥ ८६ ॥
3.7.86 · p. 111
अनुष्टुप्
स्थासको नक्षत्रमाला कर्णशंखौ तु शंकिलौ ।गजोपचारकुशलो वाहितो मलहारकः ॥ ८७ ॥
3.7.87 · p. 111
अनुष्टुप्
आघोरणा हस्तिपका हस्त्यारोहा निषादिनः ।तत्प्रधाना महामात्रा आरोहा गजजीवनाः ॥ ८८ ॥
3.7.88 · p. 111
अनुष्टुप्
पादकर्म यतं तेषां यातमंकुशवारणम् ।वीतन्तदुभयं यच्च निस्सारं हयकुंजरम् ॥ ८९ ॥
3.7.89 · p. 111
अनुष्टुप्
अश्वस्तुरंगस्तुरगो हयः सप्तिस्तुरंगमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ ९० ॥
3.7.90 · p. 111
अनुष्टुप्
कुदरो घोटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः ।पाकलः परुलः पीतिर्माषाशी हि सविक्रमः ॥ ९१ ॥
3.7.91 · p. 111
अनुष्टुप्
श्रीवृक्षकी वक्षसि चेद्रोमावर्तो मुखेऽपि च ।मल्लिकाक्षः सितैर्नेत्रैः कृष्णैरिन्द्रायुधो हयः ॥ ९२ ॥
3.7.92 · p. 111
अनुष्टुप्
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरकोशास्यैः सितैः स्यादष्टमंगलः ॥ ९३ ॥
3.7.93 · p. 111
अनुष्टुप्
आजानेयाः कुलीनाः स्युः पारसीकादयश्च ते ।पारसीकादिसंज्ञास्तु पारसीकादिदेशजाः ॥ ९४ ॥
3.7.94 · p. 111
अनुष्टुप्
ये तु कांबोजबाह्लीकवनायुजमुखा हयाः ।ते निहीनकुलाः किंचित् (पश्चि)मोत्तरदेशजाः ॥ ९५ ॥
3.7.95 · p. 111
अनुष्टुप्metre not read in every line
निहीनास्त्वब्जलारट्टशंभला दोषिणः परे ।तत्र शृंगी शृंगपदे मांसबुद्बुदवान् हयः ॥ ९६ ॥
3.7.96 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृं (wrong syllable)
मुसल्यन्यप्रभैकांघ्रिः कराली तु जरूर्ददः ।ऋषभः ककुदावर्तो यमो हीनाधिकांगकः ॥ ९७ ॥
3.7.97 · p. 112
अनुष्टुप्
इन्द्रवृद्धिस्तु निर्मुष्कः स्त्री सरी तु खुरे त्रिके ।कृत्तिकापिञ्जरस्स स्याद्यः पृषत्पुंजपिंजरः ॥ ९८ ॥
3.7.98 · p. 112
अनुष्टुप्
अश्वानामागमे संज्ञा वर्णिता वर्णहेतवः ।सिते द्वौ कर्ककोकाहौ खोंगाहः श्वेतपिंगलः ॥ ९९ ॥
3.7.99 · p. 112
अनुष्टुप्
आनीलः स्यान्नीलकोशः पुंगाहः कृष्णवर्णकः ।शोणः कोकनदच्छायस्त्रियूहः कपिलो हयः ॥ १०० ॥
3.7.100 · p. 112
अनुष्टुप्
कियाहो लोहितः पीतरक्तस्तूद्रकलाहकः ।उराहस्तु मनाक्पाण्डुः कृष्णं जंघाद्वयं यदि ॥ १०१ ॥
3.7.101 · p. 112
अनुष्टुप्
पाटलो वोरुखानः स्याद्गर्दभाभः सुरूहकः ।हलाभश्चित्रलो रेखाप्यस्य कृष्णास्ति पृष्ठगा ॥ १०२ ॥
3.7.102 · p. 112
अनुष्टुप्
कलाहस्तु मनाक्पीतः कृष्णः स्याद्यदि जानुनि ।खेल्लाहः कपिलच्छायः पाण्डुवालधिकेसरः ॥ १०३ ॥
3.7.103 · p. 112
अनुष्टुप्
पीतस्तु हरियाः पीतहरिते हरिहालकौ ।पीयूषवर्णे सेराहः पंगुलः सितकाचसः ॥ १०४ ॥
3.7.104 · p. 112
अनुष्टुप्
सर्व एवान्यसंज्ञाः स्युः कर्काद्याः पुण्ड्रके सति ।कोकुराहः खुरुराहो हलुराह इति क्रमात् ॥ १०५ ॥
3.7.105 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
कर्काद्याः खुरुराहो फाले रेखा च पृष्ठगा ।सरुराहः सेरुराहो द्वौ सेराहे सपुण्ड्रके ॥ १०६ ॥
3.7.106 · p. 112
metre not recognisednearly अनुष्टुप्
अश्वपोतः किशोरः स्याद्वाम्यश्वा वडबार्वती ।लुठितोऽश्व उपावृत्तः सुकरो दुर्विनीतकः ॥ १०७ ॥
3.7.107 · p. 112
अनुष्टुप्
अह्नाश्वगम्यमाश्वीनं त्रिष्वेतेऽश्वतरः पुनः ।स्थाद्वेसरो वेगसरो मूकरुण्डौ तु वेसरात् ॥ १०८ ॥
3.7.108 · p. 113
अनुष्टुप्
अश्वा सूतेऽश्वतर्यां तु मूकाज्जातः किसिट्टकः ।निगालस्तु गलोद्देशे नासाग्रे प्रोथमस्त्रियाम् ॥ १०९ ॥
3.7.109 · p. 113
अनुष्टुप्
आवर्तो रोमजो देवमणिस्त्वेष निगालजः ।कश्यमश्वस्य मध्यं स्यात् दन्तवेष्टस्तु नालिका ॥ ११० ॥
3.7.110 · p. 113
अनुष्टुप्
कालिका दन्तरेखा स्याद्दन्तच्छिद्रमुलूखली ।कर्तनं धूलिलुठितं वर्तनं तृपवर्तनम् ॥ १११ ॥
3.7.111 · p. 113
अनुष्टुप्
लोठभूर्मुखरज्जुस्तु स्याद्दन्ताल्यवरक्षणी ।दामांचनं पादपाशो नासारज्जुस्तु लालिका ॥ ११२ ॥
3.7.112 · p. 113
अनुष्टुप्
कवियोऽस्त्री खलीनोऽस्त्री पंचांगी कविका कवी ।प्राक्पादरज्जुरातालो बका स्याद्द्विग्रिहे द्वयोः ॥ ११३ ॥
3.7.113 · p. 113
अनुष्टुप्
पर्याणं स्यात् पल्ययनं वल्गावक्षेपणी कुशा ।कशा काम्रा वक्त्रपट्टे तलिका तलसारकम् ॥ ११४ ॥
3.7.114 · p. 113
अनुष्टुप्
पादपुट्यां पादफली प्रक्षरं प्रखरोऽस्त्रियाम् ।युग्याशनप्रसेवे तु द्वौ बोक्काणप्ररोहकौ ॥ ११५ ॥
3.7.115 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
आयानं स्यादलंकारो ग्रीवाभूषा तु गण्डकः ।लवणस्य प्रदानाय कृता लवणलायिका ॥ ११६ ॥
3.7.116 · p. 113
अनुष्टुप्
तैलस्य नालिका सूत्रसंग्रहोऽश्वस्य कर्षकः ।केशकारक्षौरकारौ नलिवाहस्तु घासिकः ॥ ११७ ॥
3.7.117 · p. 113
अनुष्टुप्
अश्वानां तु गतिर्धारा विभिन्ना सा तु पंचधा ।आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ११८ ॥
3.7.118 · p. 113
अनुष्टुप्
इत्येतेषाञ्च पंचानामेकैकं बहुभेदकम् ।गत्यर्थास्तद्वदर्थाश्च सर्वे ते वाच्यलिंगकाः ॥ ११९ ॥
3.7.119 · p. 113
अनुष्टुप्
तत्रास्कंदितकं कोपादिव सर्वैः पदैर्मुहुः ।उत्प्लुत्योत्प्लुत्य गमनमुपकण्ठापराभिधम् ॥ १२० ॥
3.7.120 · p. 114
अनुष्टुप्