कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भट्टारक

bhaṭṭārakaपुं · masc.

In 15 kośas: 17 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.336 · p. 17
पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः ॥ ३३६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.155 · p. 19
तत्रभवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये ।पादा इति नामान्ते देवो भट्टारको वापि ॥ १५५ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.148 · p. 79
भारती गीर्वाणवाणी शेपाश्चेष्टा इति क्वचित् ।अथ नाट्योन्नयो राजा देवो भट्टारकोऽपि च ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.84 · p. 426
राजा भट्टारको देवः कुमारो भर्तृदारकः ।भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥ ८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.45 · p. 80
राजा भट्टारको देवः स स्वामी मन्त्रिभाषिते ।अधमोक्तौ स भट्टः स्यादथ वैहासिकोक्तिषु ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.224 · p. 32
वासन्तिको विटश्चाथ षिङ्गपल्लवकौ समौ ।पूज्यो भट्टारको भट्टो देवस्तत्रभवानपि ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.225 · p. 32
भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ ।भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रभ (syllable split)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.14 · p. 1
राजा भट्टारको देवो भूपतिः क्ष्मापतिर्नृपः ।राज्ञी राजप्रिया देवी महिषी नृपवल्लभा ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.489 · p. 61
बाला वासूः कुमारी स्याद् मार्ष आर्यश्च मारिषः ।देवो भट्टारको भूपः श्यालो नृपस्य राष्ट्रियः ॥ ४८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नृ (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.494 · p. 61
इत्येवं कथ्यते पूज्ये प्रयोज्यः पूज्यनामतः ।भट्टो भट्टारको देवः पादाः भरटकस्तथा ॥ ४९४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.447 · p. 32
युवराजद्वयं नाम कुमारो भर्तृदारकः ।राज्ञो नाम द्वयं नाट्ये देवो भट्टारकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.91 · p. 169
क्षेपिष्ठादिः प्रकर्षार्थः साधिष्ठादिर्भृशार्थकः ।भट्टारकस्तु भट्टारो भगवान् पूज्य इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.134 · p. 188
अम्बिकाऽप्यंविका, भाट्टारक-भट्टौ तु पूज्यगात् ।नाम्नः प्रयोज्यौ प्रायेण नाट्योक्तौ नाट्यवाचकः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.951 · p. 119
अलिका भगिनी ज्यायस्यावुत्तो भगिनीपतिः ।आर्यपुत्रः पतिर्देवो राजा भट्टारकोऽपि सः ॥ ९५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 65 · p. 534
भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः ।ब्राह्मणेन तु नाम्नैव राजन्नित्यृषिभिः स च ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.103 · p. 144
अथ नाट्योक्तयो राजा देवो भट्टारकोऽपि च ।महाराजश्च राज्ञी तु स्वामिनी महिषी तु चेत् ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.46 · p. 293
भट्टारको भट्टरको भट्टस्तत्रभवान् भवान् ।भगवान् पूज्यपादश्च देवाश्चार्चार्थिकास्तथा ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.32 · p. 154
परस्य मर्माण्यभिगन्तरि स्या-द्भट्टारको राज्ञि सुरे मुनौ च ।दलाढकः कुञ्जरकर्णकुन्द-चाम्पेयफेनातिमहत्तरेषु ॥ ३२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.431 · p. 63
भट्टारको ना नाट्योक्तौ राज्ञि पूज्ये च पूरुषे ।स्त्री तु भट्टारिका ज्ञेया नाट्योक्तावेव मातरि ॥ ४३१ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास भकारादयः Paramānandīyanāmamālā 5.20.338 · p. 204
भट्टारको मुनौ देवे भारद्वाजः खगान्तरे ।भौमस्तु मङ्गले दैत्ये मुष्कः सङ्घेऽण्डचौरयोः ॥ ३३८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.187 · p. 188
गिरिकेऽलकभेदे च भृङ्गे भ्रमरको मतः ।तापसे नाट्यवाग्भेदे नृपे भट्टारको मनः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.35 · p. 103
पिञ्जे ना सिकताकर्णभूषाकन्यासु बालिका ।शिवमल्ल्यां बकः कह्वे राज्ञि भट्टारकः सुरे ॥ ३५ ॥
अनुष्टुप्