All kośas › Bālaprabodhikā
बालप्रबोधिका Bālaprabodhikā
357 verses · 2,901 words tagged · 725 marked doubtful (dashed)
प्रथमोपदेशः
बालप्रबोधिका
ज्ञानप्रसूनकलिकां नमस्कृत्य महेश्वरम् ।बालप्रबोधिका नाम क्रियते शब्दशासनम् ॥ १ ॥
1.1 · p. 66
अनुष्टुप्
स्वर्गः सुरालयो मर्त्यलोकः स्वच्छन्दभूमिका ।सर्वासुनिलयो देवपुरी स्वैरिक इत्यपि ॥ २ ॥
1.2 · p. 66
अनुष्टुप्
अमरा मरुतो देवा निलिम्पास्त्रिदशाः सुराः ।ब्रह्मा विधाता लोकेशः स्वयंभूश्चतुराननः ॥ ३ ॥
1.3 · p. 66
अनुष्टुप्
शतानन्दः पद्मगर्भः पद्मयोनिः सुरेश्वरः ।सत्यलोकाधिपः शम्भुः कलापः को विरिञ्चकः ॥ ४ ॥
1.4 · p. 66
अनुष्टुप्
विष्णुर्नारायणो बभ्रुश्चक्रपाणिर्जनार्दनः ।वैकुण्ठवासी वैकुण्ठो दाशार्हो दशरूपभृत् ॥ ५ ॥
1.5 · p. 66
अनुष्टुप्
सर्वेश्वरः कैटभारिर्गदापाणिरनन्यजः ।लक्ष्मीस्तु लोकजननी कलशाम्बुधिनन्दना ॥ ६ ॥
1.6 · p. 66
अनुष्टुप्
कमला कमलावासभूमिका लोकमातृका ।प्रद्युम्नो मन्मथः श्रीमानड(?)मीनध्वजोऽङ्गजः ॥ ७ ॥
1.7 · p. 66
अनुष्टुप्
झषकेतुः सारधन्वा गुणदिन्दीवरः स्मरः ।गरुत्मान् गरुडस्तार्क्ष्य वज्रपक्षो महेन्द्रजित् ।विनतानन्दनः शौरिः पारिजातापहारकः ॥ ८ ॥
1.8 · p. 66
अनुष्टुप्metre not read in every line
शुक्लापाङ्गो विष्णुरथः सुपर्णः पन्नगाशनः ।महेश्वरः पशुपतिः श्रीकण्ठः पाण्डुचन्दनः ॥ ९ ॥
1.9 · p. 66
अनुष्टुप्
भद्राश्वः पार्वतीकान्तो दारुकावनपल्लवः ।आवडभूतिदमन ईश्वरो विष्णुवल्लभः ॥ १० ॥
1.10 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ड (wrong syllable)
दम्भमारायणीकान्तः फालनेत्रः कृतान्तकः ।रुद्राणी पार्वती चण्डी कुमारी हरिसोदरी ॥ ११ ॥
1.11 · p. 66
अनुष्टुप्
हिमवन्नगजा काली गङ्गासापत्निका मही ।भवानी वैष्णवी गौरी ईश्वरा ईश्वरी तथा ॥ १२ ॥
1.12 · p. 67
अनुष्टुप्
विनायको विघ्नराजः शूर्पकर्णो (?)ऽखुवाहनः ।प्रत्यूहदमनो विष्णुर्विष्वक्सेनस्तु वामनः ॥ १३ ॥
1.13 · p. 67
अनुष्टुप्
सुब्रह्मण्यः कुमारः स्यात्छूरपद्महरो गुरुः ।स्वामी सुवर्णमाली स्यादग्निभूः कुक्कुटध्वजः ॥ १४ ॥
1.14 · p. 67
अनुष्टुप्
अनेकवित्प्रचण्डश्च चण्डीशस्तु निगद्यते ।नन्दीशस्तु सुभद्रः स्याद्भृङ्गी चापि पिचण्डिलः ॥ १५ ॥
1.15 · p. 67
अनुष्टुप्
इन्द्रः पूर्वदिशाकान्तः पर्जन्यपतिरित्यपि ।पुलोमशत्रुर्वृत्रारिर्वज्रपाणिः पुरन्दरः ॥ १६ ॥
1.16 · p. 67
अनुष्टुप्
धाराधराश्वः शत्रुघ्नः परमन्युर्युधिष्ठिरः ।निलिम्पराजः श्रीवर्णश्चिन्तामणिवरासनः ॥ १७ ॥
1.17 · p. 67
अनुष्टुप्
वृद्धश्रवाः सुनासीरः शतमन्युर्विभीषणः ।सहस्रनेत्रः पाकारिः पुरुहूतः पुरन्दरः ॥ १८ ॥
1.18 · p. 67
अनुष्टुप्
पौलोमी तु शचीन्द्राणी भोगिनी सुरसुन्दरी ।जयन्तः स्याज्जयरथो देवसेनानुजश्च सः ॥ १९ ॥
1.19 · p. 67
अनुष्टुप्
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।सर्वभुग्जलजो ज्वाली वाशिर्वातसखः शुचिः ॥ २० ॥
1.20 · p. 67
अनुष्टुप्
शोचिष्केशः स्वभानुश्च कृशानुर्वातसारथिः ।चित्रवर्मा मन्त्रजिह्वो वसुरेता हुताशनः ॥ २१ ॥
1.21 · p. 67
अनुष्टुप्
धूमस्तरिर्मेघवाही धूमलो गन्धवासितः ।शिखा ज्वाला च कीला च जिह्वा चेति निगद्यते ॥ २२ ॥
1.22 · p. 67
अनुष्टुप्
भसितं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डनाथो दण्डधरो हरिः ॥ २३ ॥
1.23 · p. 67
अनुष्टुप्
आषाढदिक्पतिः सन्धो यमुनाग्रज इत्यपि ।सावित्रेयः सर्वशातिः शिवपादाङ्किताननः ॥ २४ ॥
1.24 · p. 68
अनुष्टुप्
धर्मराजः पुराणान्तः कालकामुकसेवितः ।यमस्य पत्नी धूम्रोर्णा चित्रगुप्तस्तु लेखकः ॥ २५ ॥
1.25 · p. 68
अनुष्टुप्
राक्षसो यातु रक्षश्च क्रव्यादो जाललोहितः ।नैऋतो यातुधानश्च नैकषेयश्च कथ्यते ॥ २६ ॥
1.26 · p. 68
अनुष्टुप्
वरुणः शीतलो वामो दुन्दुभिः पश्चिमाधिपः ।सुखासीनः शङ्खरथो नदीनाथः समुद्रराट् ॥ २७ ॥
1.27 · p. 68
अनुष्टुप्
गौरी तस्य प्रियायां स्यात्सुखा स्यात्तस्य पत्तने ।वातो वायुर्जगत्प्राणो मातरिश्वा समीरणः ॥ २८ ॥
1.28 · p. 68
अनुष्टुप्
युजिनो लघुटो घातिर्दैत्यदेहः सदागतिः ।शुषिर्महाबलो वेगी नभोजातो घनान्तकः ॥ २९ ॥
1.29 · p. 68
अनुष्टुप्
रंहस्तरः स्यात्प्रसभो जवो वेगः स्यदो रयः ।कुबेरो यक्षराड्यक्षः सोमोऽप्यैलबिलस्तथा ॥ ३० ॥
1.30 · p. 68
अनुष्टुप्