कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अतिभी

atibhīस्त्री · fem.

In 5 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.104 · p. 11
दीर्घर्ज्वैरावतं वज्रं त्वशनिर्ह्रादिनी स्वरुः ।शतकोटिः पविः शम्बो दम्भोलिर्भिदुरं भिदुः ॥ १८० ॥व्याधामः कुलिशोऽस्यार्चिरतिभीः स्फूर्जथुर्ध्वनिः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.57 · p. 8
स्फूर्जथुर्वज्रनिर्घोषो वज्रज्वालाऽतिभीः स्मृता ।ऋजु रोहितमिच्छन्ति बुधाः शक्रशरासनम् ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.110 · p. 19
वाज्रे[13b]यश्चाथ कुलिशतुल्ये कौलिशिकं त्रिषु ।स्फूर्जथुर्वज्रनिष्पेषो वज्रार्च्चिरतिभीः स्त्रियाम् ॥ ११० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.60 · p. 101
प्रपा शिफा कम्बि-कम्बे भूजम्बूः शम्बया लिबिः ।शृगालजम्बूर्लम्बा च कलम्बी चातिभीः सभा ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.68 · p. 219
गन्धोली हसनी स्रुक् चातिभ्यासन्दी दृशा सह ।क्षीरेयी नन्तपामादि दरच्छर्दी शरत्त्वचौ ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.201 · p. 27
शतारः शतधारश्च व्याधामः कुलिशस्तथा ।भिदुश्च भिदुरं वज्रज्वाला तु अतिभीर्भवेत् ॥ २०१ ॥
अनुष्टुप्
genderस्त्रीfem.