ऋजुरोहित
ṛjurohitaक्ली · neut.In 6 kośas: 5 synonym verses, 1 as a meaning of another word.
स्फूर्जथुर्वज्रनिर्घोषो वज्रज्वालाऽतिभीः स्मृता ।ऋजु रोहितमिच्छन्ति बुधाः शक्रशरासनम् ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
इन्द्रायुधं शक्रधनुस्तद्भेदे ऋजुरोहितम् ।चञ्चला चपला विद्युत् शतवार्ताऽनुकालिका ।कृष्णांशुः कणिका चम्पा तटिद्दीप्ता शतह्रदा ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
वल्मीकपर्यायभवं भिन्नं वा ऋजुरोहितम् ।दीर्घर्जु चाप्यथासारो धारासम्पात इत्यपि ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
इन्द्रायुधं मणिधनुर्दल्मिस्तत्त्वृजुरोहितम् ।दीर्घिकैरावतं पूस्तु पूषभासाऽमरावती ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
जटा ज्वालो गृहमणिः स्नेही दीपोऽञ्जनध्वजः ।वर्षाम्बुदं शक्रधनुश्चित्रं रुगृजुरोहितम् ॥ ३१६ ॥
अनुष्टुप्
genderक्लीneut.
ऋजुरोहित as a meaning in nānārtha verses
- परमानन्दीयनाममाला ऐरावतदिग्गजे नागरङ्गेऽप्यैरावतमृजुरोहिते । ऐरावती तडिद्भेदे ओघः संघोपदेशयोः ॥ ८२ ॥ Paramānandīyanāmamālā 5.5.82