कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्रुच्

srucस्त्री · fem.

In 12 kośas: 12 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.828 · p. 34
स्रुवः स्रुगधरा सोपभृज्जुहूः पुनरुत्तरा ॥ ८२८ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.44
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.85 · p. 78
स्त्रियां स्रुः स्रूरथापि स्यादुपभृत्स्यात्स्त्रियां जुहूः ।जुहुः पुमान् स्रुक् स्त्रियां स्यादधरोत्तरणे क्रमात् ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 237
स्रुवादीनि तु पात्राणि स्रुवोऽङ्गुष्ठबिलो नरि ।स्रुक् स्त्रियामुत्तरा त्वेषा जुहूः सा त्वल्पिकाऽधरा ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.43 · p. 99
चञ्चा चर्चा सूचि-साच्यौ रुचिश्चवीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् ।कच्छा पिच्छा किं च कच्छू[श्च] राजि-र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्त्व (wrong syllable)
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.68 · p. 219
गन्धोली हसनी स्रुक् चातिभ्यासन्दी दृशा सह ।क्षीरेयी नन्तपामादि दरच्छर्दी शरत्त्वचौ ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1381 · p. 219
पात्रं स्त्रुवादिकं प्रोक्तं स्त्रुक् स्त्रुवश्चापि मन्यते ।अधरा सोपभृत् स्याद्वै जुहूर्हि पुनरुत्तरा ॥ १३८१ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.303 · p. 213
स्रुवे स्रुग्, मखवधे तु शसनं शमनं समे ।शृतोष्णक्षीरगे दध्नि आमीक्षाऽमिक्षया सह ॥ ३०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1176 · p. 145
पात्राणि स्युः स्रुवो यज्ञे स्रुग्जुहूरुपभृद्ध्रुवा ।शम्याग्निहोत्रहवनी दृषच्छूर्पमुलूखलम्कपालमुसलौ कृष्णाजिनं स्फ्य उपला स्त्रियाम् ॥ ११७६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.100 · p. 91
हवनी स्रुक् स्रुचो भेदाः स्युर्जुहूरुपभृद्ध्रुवा ।अथाग्निहोत्रहवणी श्रपण्याघारणः स्रुवः ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.1.62 · p. 6
लग्नाच्च सप्तमे राशौ लिङ्गभेदे च शब्दगे ।स्रुक् स्रुवे शोषणे गत्यामित्यध्यायः समाप्तवान् ॥ ६२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 8.2.18 · p. 272
ऋशब्दः स्याद्दिव्यदितौ त्विड्ज्वालाकान्तिदीप्तिषु ।उत्साहेऽन्नरसेऽप्यूर्क् स्यात् स्रुक् स्रुवे शोषणे गतौ ॥ १८ ॥
अनुष्टुप्

स्रुच् as a meaning in nānārtha verses