सभा
sabhāस्त्री · fem.In 18 kośas: 27 synonym verses, 8 as a nānārtha head word, 11 as a meaning of another word.
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderस्त्रीfem.
वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् ।चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
समज्या परिषद्गोष्ठी सभासमितिसंसदः ।आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderस्त्रीfem.
शिविरं विशयं पस्त्यमोको वस्त्यमिमानि षण् ।शाला सभा च वसतिर्वसती च स्त्रियामिमाः ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना ।गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
कवा भम्भा समा रम्भा सभा हंभा ततोऽप्युमा ।अमामा प्रतिमा यामा रमा वामेत्यया समा ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
कुटिर्द्वयोः पुंसि न मन्दिरा स्यात्स्त्रियां न गेहं भवनं च वास्तु ।स्थानं च धानं वसतिश्च शालासभा निशान्तं च निकेतनं च ॥ ३३ ॥
उपजातिः
genderस्त्रीfem.
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रपा शिफा कम्बि-कम्बे भूजम्बूः शम्बया लिबिः ।शृगालजम्बूर्लम्बा च कलम्बी चातिभीः सभा ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
एते नपुंसके भवन्ति । इदं मण्डलं सूर्यस्य । केशरं किञ्जल्कः । भाण्डमुपकरणद्रव्यम् । उत्तरीयं प्रावरणम् । सोपानं खण्डखण्डिका । कल्मषं पापं अघं पापं च । प्रशब्दादेरन्तरं शब्दं नपुंसके विद्धि । इदं प्रान्तमत एवानुपसर्गस्तु पुंस्येवान्तशब्दः । कुटुम्बपुलिनशब्दाभ्यां सह नपुंसके । इदं कुटुम्बं गोत्रवर्गः । इदं पुलिनं द्वीपम् ।स्थालीसभाजरानां स्त्रीत्वं स्थल्याश्च वीच्याश्च ।छविकट्योर्मञ्जर्यावल्याश्चैवं विजानीयात् ॥ ७९ ॥
metre not recognised
genderस्त्रीfem.
पारिषद्यो बुधः सभ्यः सदः संसत्सभोचितः ।परिषत्सभाऽस्थानपती राजसूयो नृपक्रतुः ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
रम्पा पम्पा सभा हम्भा भम्भा कम्बा रुमापि च ।सीमा पामा तथा चित्या[4]पद्याछाये ज्यया सह ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
तत्पुरुषे बहूनां चेच्छाया शालां विना सभा ।वर्जयित्वैव राजादिसभामिनसभं तथा ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
genderक्लीneut.
पञ्चमो बलिहरणमिति यज्ञाः प्रकीर्तिताः ।सभायां समितिः संस्था परिषत्संसदित्यपि ॥ २१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
genderस्त्रीfem.
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्थानञ्च निलयो पस्त्यं संस्त्यायः शरणं सभा ।उदवसितमाऽऽवासो भवनं वसतिस्तथा ॥ १६९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
स्यान्निकाय्यो निवसनं केतो भवनमन्दिरम् ।आलयश्च गृहाः पुंसि भूम्नि कूटो द्वयोः सभा ॥
अनुष्टुप्
genderस्त्रीfem.
उक्ताः पञ्चमहायज्ञा ब्रह्मयज्ञादिनामभिः ।सभा समज्या समितिः स्त्रीनपुंसकयोः सदः ॥
अनुष्टुप्
genderस्त्रीfem.
याता माता स्वसा भार्या नारी नप्रीतिपादिका ।दूती ननान्दा विधवा योनिः श्रोणिः सभा वृषी ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठी समज्या परिषत् सभासमितिसंसदः ।स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥
अनुष्टुप्
genderस्त्रीfem.
गेहमस्त्री शालासभे स्त्रियाम् ॥ ८७ ॥
genderस्त्रीfem.
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
पशूनां समजोऽन्येषां समाजो धीमतां सभा ।उद्भिज्जानां तु षण्डोऽस्त्री स्कन्धोऽश्वनरहस्तिनाम् ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
दम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि ।दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ ।द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु ।रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् ।शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् ।सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः ।
अनुष्टुप्
सभा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् समितिनदीनगर्योर्नागानां भोगवत्यथ सङ्गरे । सङ्गे सभायां समितिः क्षयावासावपि क्षितिः ॥ ७० ॥ Amarakośa 3.3.70
- नामलिङ्गानुशासनम् प्रतिश्रयनिर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १५३ ॥ Amarakośa 3.3.153
- हलायुधकोशः (अभिधानरत्नमाला) समितिसमितिः सङ्गतिसभयोः ककुदं शृङ्गे विदुः प्रधानेऽपि । टङ्कः स्यादभिमाने प्रस्तरघटनोपकरणे च ॥ ८२१ ॥ Abhidhānaratnamālā (Halāyudha) 5.821
- धरणिकोश गोष्ठीश्रेष्ठः कुबेरवरयोः कुष्ठं व्याधिसुगन्धयोः । गोष्ठं व्रजः सभा गोष्ठी शठो धुस्तूरधूर्तयोः ॥ Dharaṇikośa 11.1.1
- धरणिकोश समितिसमितिः संगमे युद्धे सभायां समितिः स्मृता । वसतिर्वेश्मयामिन्योर्वसतिः स्यादवस्थितिः ॥ Dharaṇikośa 15.2.39
- कोषकल्पतरु समितिसाम्ये सभायां समिती मृधेऽपि स्यात्संगमेऽथादितिरत्र भू[297a]मौ । द्युसज्जनन्यामथ पक्षतिः स्यात् पक्षस्य मूले प्रतिपत्तिथौ च । तार्क्ष्यस्त्रियां तून्नतिरुद्गतौ च वृद्धौ प्रसूतिस्तु सुतोद्भवादौ । पुत्र्यां च वल्ल्यां प्रततिस्ततौ च ॥ ३५ ॥ Koṣakalpataru 6.16.35
- कोषकल्पतरु लक्ष्मीकान्तौ फलिन्यामपि ऋद्धिनामौ- षधौ सभायामपि लोहपुत्र्याम् । वल्लीपलाशेऽपि च बिल्ववृक्षे शमी द्वयोः शङ्कुफला च शम्बा ॥ ७५ ॥ Koṣakalpataru 6.25.75
- नानार्थार्णवसंक्षेप रमतिरमतिः स्वर्गसभयोर्लुब्धकस्तु निगद्यते । आर्द्रायां मृगयौ चाथ लोहित्यो दक्षिणाम्बुधौ ॥ १८१ ॥ Nānārthārṇavasaṃkṣepa 3.2.181
- शब्दरत्नावली गोष्ठीकोष्ठः कुशूले स्वीये च जठरावासमद्ययोः । गोष्ठी संलापसभयोः क्लीबे गोस्थानकेऽपि च ॥ Śabdaratnāvalī 7.12.5
- शब्दरत्नावली समितिसन्ततिर्गोत्रपंक्तयोस्तु पारम्पर्यसुतादिषु । समितिः सङ्गमे युद्धे सभायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.146
- त्रिकाण्डशेष समितिरणे सभायां समितिः स्तिमितौ क्लिन्ननिश्चलौ । स्थपतिः कञ्चुकी कारुभेदो गीर्पतियागकृत् ॥ १९० ॥ Trikāṇḍaśeṣa 3.3.190