कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

लिङ्गसङ्ग्रहः · स्त्रीलिङ्गाधिकारः

॥ इति पुंलिङ्गाधिकारः ॥

स्त्रियां सयोनिदेहिनां विना विशेषमाह्वयश्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥
4.2.27 · p. 97
पञ्चचामरम्
इदन्तं प्राणिनामङ्गमेकाजीदूद्विरामकम् ।तदनेकाजप्युणादावनिमिन्यन्तमत्रमः(?) ॥ ३० ॥
4.2.30 · p. 97
अनुष्टुप्
स्त्रियां च भावादिषु णज्ण्वुचौ क्यप्-क्तिन्ण्वुल्युजिञ्शाङ्नयः क्वचिक्विप् ।ह्रस्वाल्पकः कन्नथ संहतौ तुकट्यच्त्रयेनो व्रजभावयोस्तल् ॥ ३१ ॥
4.2.31 · p. 98
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 स्त्रि (wrong syllable)
अलंकृतौ कर्णललाटतः कन्वीप्सासु वुन्वैरविवाहयोश्च ।गोत्रादितो द्वंद्वपरश्च वुञ् [स्यात् ]क्रीडाप्रहृत्योर्ण च ञो घञन्तात् ॥ ३२ ॥
4.2.32 · p. 98
उपजातिः
पात्रादिवर्जो द्विगुरप्यदन्तःसमाहृतावल्पविवक्षयापि ।संख्यार्थसंख्येयगताश्च विंश-त्याद्याः समाहारमृते शतान्ताः ॥ ३३ ॥
4.2.33 · p. 98
उपजातिः
स्रुग्गीतिवल्लीभिदि बन्धुता स्या-द्गजस्य बन्धे घटिकासु वारिः ।क्ष्वेडा तु शल्यध्वनिवाद्यभेदेस्याद्दुन्दुभिः पाशकबिन्दुवाची ॥ ३४ ॥
4.2.34 · p. 98
उपजातिः
गृह्या तु शाखानगरेऽथ चुल्ल्यांस्यादन्तिका यब्धिहतौ च कीला ।रज्जौ च रश्मिः स्थिरमस्थिरं वाङ्याबूङ्विरामं कि*शिंशपाद्याः ॥ ३५ ॥
4.2.35 · p. 98
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
[224a]छन्दोभिधाभेदमृतेऽनणन्ताटीका पताका झिरुका च नीका ।संवर्तिका कञ्चुलिका त्रिकोल्कापर्यस्तिका स्यात्क्षिपकालका च ॥ ३६ ॥
4.2.36 · p. 98
इन्द्रवज्रा
रुहिरुहिकाहोपुरुषिका-हमहमिका कृत्तिकाः शूकाः ।रमिका लङ्का जतुकास्याद्धस्ताहस्तिकाढक्यौ ॥ ४० ॥
4.2.40 · p. 99
metre not recognised
शाखा शिखोखा परिखा च रिङ्खाप्रेङ्खा च लेखा *** किखिश्च ।स्थगी च भ[224b]ङ्गी कथिता सुरङ्गाभङ्गाथ जङ्घा च मघा तु भूम्नि ॥ ४२ ॥
4.2.42 · p. 99
metre not recognised
चञ्चा चर्चा सूचि-साच्यौ रुचिश्चवीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् ।कच्छा पिच्छा किं च कच्छू[श्च] राजि-र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥
4.2.43 · p. 99
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्त्व (wrong syllable)
गञ्जा सुरासद्मनि पुञ्जिपिञ्जागुञ्जाण्डजा स्फिग्विसमासरज्जुः ।सिञ्जाप्यजाजी कथिताथ झञ्झायाच्ञाथ सा(शा?)टी भ्रुकुटी च भाटिः ॥ ४४ ॥
4.2.44 · p. 99
इन्द्रवज्रा
जटा कुरण्टी च सटा वधूटीस्याद्ग्रामटी खट्यपटी वटी च ।नटिश्छटा स्याच्छकटिर्घटा चमाटिर्भुषण्ठिश्च मतात्र शुण्ठी ॥ ४६ ॥
4.2.46 · p. 100
उपजातिः
काष्ठा विष्ठा पाठा मञ्जिष्ठा चुण्ठिवद्गोष्ठी ।शुण्डी शुण्डा जडापि स्याच्चण्डा वेडा तथा पण्डा ॥ ४७ ॥
4.2.47 · p. 100
metre not recognised
क्षिपणिर्धारणी तूर्णा तिलपर्णी च सारणी ।वारुणी काकिणी वाणी वणीः शिखरिणी तथा ॥ ५० ॥
4.2.50 · p. 100
अनुष्टुप्
हरेणुरूर्णी श्रीपर्णी सुपर्णी श्रावणापि च ।भ्रमणी लक्ष्मणा फाणिस्तद्वद्यौवनलक्षणा ॥ ५१ ॥
4.2.51 · p. 100
अनुष्टुप्
कन्था वीथी गाथा सिक्था-सन्दी नान्दी कर्णान्दूश्च ।अन्दुर्नन्दा माकन्दी स्या-न्मर्यादावद्वेदिर्धीदा ॥ ५५ ॥
4.2.55 · p. 101
metre not recognised
शरद्दृषद्दरत्प्रोक्ता मदिः कृषिकवस्तुनि ।गदा-वितर्द्येकपद्यो गन्धा गोधा प्रधिर्गदिः ।शिरोधिरोषधिर्बाधा विधा संधा स्व[225b]धा सुधा ॥ ५६ ॥
4.2.56 · p. 101
अनुष्टुप्metre not read in every line
सानिः सनिः खानि-खनी जनि[श्च]सास्ना तनुर्नौः कठिनी च पामा ।सूना-हसन्यावपि कर्तनी चकानीस्तथा मेनि-विलेपनीयुक् ॥ ५७ ॥
4.2.57 · p. 101
इन्द्रवज्रा
भम्भा हम्भा वलभिर्भा रम्भा भीः ककुप्शोभा ।भेक्यां पुनर्नवायां वर्षाभूर्यामि-सीमे च ॥ ६१ ॥
4.2.61 · p. 102
metre not recognised
छाया माया तथा पेया कक्ष्या दूष्यापि काम्यया ।क्षैरेयी ब्र[226a]ह्महत्या द्यौर्व्रज्या स्नायुश्च धान्यया ॥ ६४ ॥
4.2.64 · p. 102
अनुष्टुप्metre not read in every line
दरिः शरारिर्मरी-मारि-पार्योदर्द्रूस्तरिः पूरपि वास्तुभूम्निहारा च होरा च परंपरा चतारापि देव्यां च वरा वरी द्वाः ॥ ६६ ॥
4.2.66 · p. 102
इन्द्रवज्राmetre not read in every line
विशाला मेखला मालुर्हर्षुला संकुला शिली ।शृगाली कदली भद्रकाली मद्यार्थकोऽप्यलिः ॥ ७३ ॥
4.2.73 · p. 103
अनुष्टुप्
मणिमाला ध्वनिमाला हरिताली सुरताली च ।लट्वा खट्वा मूर्वा दर्विर्नीविश्छविर्मौर्वी ॥ ७४ ॥
4.2.74 · p. 103
उपगीतिःmetre not read in every line
गुहा गाहा सहा वाहा स्वाहा सिंही जुहूः कुहूः ।आ[227a]मिक्षा कक्षया रिक्षा लिक्षा लाक्षा च राक्षया ॥ ७८ ॥
4.2.78 · p. 103
अनुष्टुप्metre not read in every line