कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दृश्

dṛśस्त्री · fem.

In 19 kośas: 24 synonym verses, 11 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.575 · p. 25
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.93
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.519 · p. 59
दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥
आर्या
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.147 · p. 36
दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् ।तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.46 · p. 466
सीमन् शरद्दृशदृक् दृशस्रक् त्वक् स्फिग्द्वार्धुरौ च नौः ।द्यौर्दिव् प्रावृट् त्विट्तृषौ दिगेषेति प्रकृतिः स्त्रियः ॥ ४६ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.76 · p. 469
शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि ।यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥ ७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.164 · p. 92
आलोकनं द्योतनं च दृष्टिदर्क(र्दृक्च?) स्त्रियामुभे ।काक्षः कटाक्षोऽपाङ्गेक्षा वर्कराटोऽक्षिकूणितम् ॥ १६४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 219
शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा ।दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.75 · p. 103
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.80 · p. 104
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 99 · p. 49
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.240 · p. 130
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.68 · p. 219
गन्धोली हसनी स्रुक् चातिभ्यासन्दी दृशा सह ।क्षीरेयी नन्तपामादि दरच्छर्दी शरत्त्वचौ ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.69 · p. 219
दर्द्रुपर्शू ऋचा? नौश्च वार्दृशौ गीः पूरा सह ।सपर्यायाः सभेदाश्चेत्यादयः स्युः स्त्रियां घनाः? ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पू (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.74 · p. 220
शिलाभवस्थानकभेषजास्थि-रुचत्वचद्वारहलासृजां च ।फलप्रसूनद्रवतां सुखादि-धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥
उपेन्द्रवज्रा
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.82 · p. 6
दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी ।अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.30 · p. 22
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.923 · p. 141
रूपग्रहोऽम्वकं चैव दृक् चेति कथ्यते बुधैः ।तारा कनीनिका भूयस्तारका रूपग्राहिणी ॥ ९२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 4, syllable 5 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.316 · p. 103
नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् ।आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.158 · p. 201
कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् ।नेत्रेक्ष्यऽक्ष्णं दृशि-दृशे दृग्लोचन-विलोचने ॥ १५८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1084 · p. 134
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1706 · p. 206
प्रदाने स्पर्शनं क्षारे कर्शनं दर्शनं दृशि ।निदर्शनं तु दृष्टान्ते विचारे तु विमर्शनम् ॥ १७०६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.94 · p. 180
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.217
वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु ॥ २१७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास शार्धश्लोकः Dharaṇikośa 29.2.1 · p. 211
विट् स्मृतो मनुजे वैश्ये प्रवेशे विट् च कीर्तिता ।दृक् स्मृता दर्शने बुद्धौ नेत्रे च दृक् च वीक्षणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.13 · p. 86
स्यादीषते[217a] [च] बुन्द-त्यपि दंसयते च दासयते ।बष्कयते बष्कयति चस्मृतं तथा धेकयत्यत्र ।लोकते लोचते निर्वर्णयत्यपि च बुन्दते ।चायते च प्रेक्षणे स्युर्नेर्दृशिः स्यादुदाहृतौ ॥ १३ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.14 · p. 87
उदो विमर्शने कर्महीनस्त्वेष समस्तङि ।ईक्षिः कालहृतावुत्प्राद्विमर्शे स परेर्विदि ॥उपादुदासीनभावेऽपाल्लिप्सुत्वे निरः परः ।प्रयत्ने सादरालोके प्रात्तूत्प्रेक्षण-बोधयोः ॥अवात्प्रतिविधानेऽनोरालोचे संवियुक्पुनः ।गवेषे व्रजतिर्गत्यामुत्परः परिकीर्तितः ॥अथ चित्रयतीति स्यादद्भुतस्य प्रदर्शने ।स्याद्वेणते वेणति च तथा वेनति वेनते ॥ १४ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.12 · p. 366
सस्ये चिरं संचिते गोमयेऽथदृक् स्त्री मतौ दर्शननेत्रयोश्च ।दशा त्ववस्थास्वपि दीपवर्त्यांवस्त्रांशके योषिति भूम्नि दिष्टा ॥ १२ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 7 ते (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.12 · p. 8
स्त्री खे स्वर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु ।नेत्रे च त्रिषु तु द्रष्टृज्ञात्रोर्नृ द्वे हरे हये ॥ १२ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.25 · p. 4
दाष्णुबन्धनयोर्दृक्स्यान्नेत्रदर्शनयोरपि ।द्योः स्वर्गनभसोर्द्युस्तु व[3]ह्निवासरयोरथ ॥ २५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शान्ताः Śabdaratnāvalī 7.30.7 · p. 289
दर्शोऽवलोकने यागभेदाभावास्ययोरपि ।दंशः कीटविशेषे स्यात्कवचे भुजगक्षते ॥दशाऽवस्था दीपवर्त्योरंशुकाग्रे तु भूम्नि च ।दृग्दृष्ट्यां दर्शने ज्ञाने स्त्रियां ज्ञातरि च त्रिषु ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2244 · p. 272
दृग्बुद्धौ दर्शने नेत्रे स्त्री स्याद्द्रष्टरि तु त्रिषु ।धूः स्त्री भारे यानमुखे नौः स्त्रियां तरिकालयोः ॥ २२४४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.428 · p. 244
जीवितेशो यमे नाथे दंशः संहननेऽपि च ।सर्पक्षतेऽथ ज्ञाने व लोचने दर्शने च दृक् ॥ ४२८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.37 · p. 280
द्युपश्विष्वंशुवज्रांबुभूवाग्दिग्दृक्षु गौर्न षण् ।दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि तु त्रिषु ॥ ३७ ॥
अनुष्टुप्

दृश् as a meaning in nānārtha verses