कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

असिक

asikaक्ली · neut.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.581 · p. 25
गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० ॥नक्रं नर्कुटकं शिङ्घिन्योष्ठोऽधरो रदच्छदः ।दन्तवस्त्रं च तत्प्रान्तौ सृक्कणी असिकं त्वधः ॥ ५८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.312 · p. 94
शालिजातस्तु खश्वासः पूतिकश्चासिकोऽपि च ।शिबेबः स्याद्गन्धमृगः कस्तूरी मृगवालुका ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.156 · p. 37
तयोरधोसिकं तस्मादधस्तु चिबुकं चिबुः ।सृक्कणस्तु परोगल्लस्तत्परः स्यात्कपोलकः ॥ १५६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 220
ओष्ठप्रान्तः सृक्व सृक्वि सृक्कु क्लीबानि सृक्किणी ।पुरस्तात्त्वसिकं तस्याप्यधस्ताच्चिबुकं भवेत् ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.246 · p. 131
रदच्छदो दन्तवस्त्रमधरोष्ठावपीरितौ ।तदन्तौ सृक्कणी चैवाधोऽसिकं चिबुकं पुनः ॥ २४६ ॥
अनुष्टुप्
genderक्लीneut.