कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

चतुर्थः परिच्छेदः (3/4)

चान्द्रं तु नयनं वामं दक्षिणं भानुदैवतम् ।ईक्षणं दर्शनं तुल्ये निशामननिभालने ॥ २४१ ॥
4.241 · p. 131
अनुष्टुप्
अवलोकननिध्याने कटाक्षश्चार्धवीक्षणम् ।अपाङ्गदर्शनं चापि काक्षश्चाक्षिविकूणितम् ॥ २४२ ॥
4.242 · p. 131
अनुष्टुप्
उन्मीलनं तथोन्मेषो निमेषः स्थान्निमीलने ।क्रोधाद्भ्रुवो विकारस्तु भ्रकुटिर्भ्रूकुटिः समे ॥ २४३ ॥
4.243 · p. 131
अनुष्टुप्
भ्रुकुटिर्भृकुटिश्चापि भ्रूमध्ये कूर्चकूर्पके ।पक्ष्म चक्षुर्गतं रोम भ्रूरूर्ध्वं रोमपद्धतिः ॥ २४४ ॥
4.244 · p. 131
अनुष्टुप्
शिङ्घिनी नासिका नासा नक्रं घोणा विकूणिका ।गन्घज्ञा घ्राणमाख्यातं तद्वन्नर्कुटकं स्मृतम् ॥ २४५ ॥
4.245 · p. 131
अनुष्टुप्
रदच्छदो दन्तवस्त्रमधरोष्ठावपीरितौ ।तदन्तौ सृक्कणी चैवाधोऽसिकं चिबुकं पुनः ॥ २४६ ॥
4.246 · p. 131
अनुष्टुप्
असिकाधस्तथा प्रोक्तं कपोलः सृक्कणः समौ ।गण्ङो गल्लो हनुश्चाथ श्मश्रु कूर्चमपीक्षितम् ॥ २४७ ॥
4.247 · p. 131
अनुष्टुप्
मासुरी मुखरोम स्याद्दंष्ट्रा दाढा च दाढिका ।रदा दन्ता द्विजा दंशा रदना दशना अपि ॥ २४८ ॥
4.248 · p. 131
अनुष्टुप्
मघ्यस्थौ राजदन्तौ तौ लोला जिह्वा रसज्ञया ।रसनाथ काकुदं तालु घण्टिका तु सुधास्रवा ॥ २४९ ॥
4.249 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरोधरा शिरोधिस्तु कन्धरा ग्रीवया सह ।कम्बुग्रीवा त्रिरेखा स्याद्घाटिका तु कृकाटिका ॥ २५० ॥
4.250 · p. 132
अनुष्टुप्
वीतनौ कृकपार्श्वौ तु कृकः स्यात्कन्धरान्तरम् ।स्कन्धो भुजशिरोंऽसोऽथ दोः प्रवेष्टो भुजोऽपि च ॥ २५१ ॥
4.251 · p. 132
अनुष्टुप्
बाहुर्बाहाथ दोर्मूलं भुजकोटर एव सः ।कक्षा स्यात्खण्डिका चाथ पार्श्वं स्यादंसयोरधः ॥ २५२ ॥
4.252 · p. 132
अनुष्टुप्
भुजामध्ये कफोणिस्तु कूर्परः कफणिः समौ ।मणिबन्धादधोभागे प्रकोष्ठः स्यात्कलाचिका ॥ २५३ ॥
4.253 · p. 132
अनुष्टुप्
करः पाणिः शयो हस्तपञ्चशाखावपीरितौ ।मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥
4.254 · p. 132
अनुष्टुप्
अङ्गुली करशाखाङ्गुरी चाङ्गुष्ठाङ्गुलौ समौ ।प्रदेशिनी तु तर्जन्यां मध्या ज्येष्ठा तु मध्यमा ॥ २५५ ॥
4.255 · p. 132
अनुष्टुप्
अनामिका तु सवित्री कनिष्ठा तु कनीनिका ।पुनर्भवो महाराजो भुजाकण्टनखावपि ॥ २५६ ॥
4.256 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
नखरः करशूकोऽपि कामाङ्कुश इतीरितः ।प्रसारिताङ्गुलौ हस्ते चपेटप्रतलौ समौ ॥ २५७ ॥
4.257 · p. 133
अनुष्टुप्
तालस्तलः प्रहस्तोऽपि तालिका च तथा स्मृता ।संयुतौ तु करौ सिंहतलः स्याद्गीतमेलकः ॥ २५८ ॥
4.258 · p. 133
अनुष्टुप्
मीलिताङ्गुलिहस्ते तु मुस्तुः स्यान्मुचुटी स्त्रियाम् ।प्र[73]सृतौ प्रसृत आख्यातोऽथाञ्जलिर्द्वौ करौ युतौ ॥ २५९ ॥
4.259 · p. 133
अनुष्टुप्
चलुकः चलुराख्यातो गण्डूषो द्रवपूरितः ।बद्धमुष्टिकरो रत्निर्निष्कनिष्ठोऽप्यरत्निकः ॥ २६० ॥
4.260 · p. 133
अनुष्टुप्
उत्सङ्गाङ्कावपि क्रोड उरो वक्षो भुजान्तरम् ।हृदयं हृत्तथा क्रोडो वक्षोजान्तरमेव तत् ॥ २६१ ॥
4.261 · p. 133
अनुष्टुप्
स्तनौ कुचौ समौ प्रोक्तावुरोजौ तु पयोधरौ ।चूचुकं स्तनवक्त्रं तु स्तनवृन्तं स्तनाच्छिखा ॥ २६२ ॥
4.262 · p. 133
अनुष्टुप्
जठरं पिट्टकुक्षी चोदरं ? तुन्दं समं मतम् ।पिचण्डो गर्भतुन्दी तु कालखञ्जं तु कालकम् ॥ २६३ ॥
4.263 · p. 133
अनुष्टुप्
कालेयं कालखण्डं च यकृत्तत्र निरीक्षितम् ।दक्षिणे तिलकं पार्श्वे वामे स्याद्रक्तफेनजः ॥ २६४ ॥
4.264 · p. 133
अनुष्टुप्
गुल्मप्लीहावथान्त्राणि तद्वत्तत्र पुरीतति ।स्मृता रोमलता रोमवली स्यात्तुन्दकूपिका ॥ २६५ ॥
4.265 · p. 134
अनुष्टुप्
नाभिर्नाभेरधोभागे बस्तिर्मूत्रपुटं पुनः ।मूत्राशयोऽवलग्नं तु विलग्नं मध्यमध्यमौ ॥ २६६ ॥
4.266 · p. 134
अनुष्टुप्
कटिः श्रोणिः कलत्रं च कटीरं कट इत्यपि ।काञ्चीपदककुद्मत्यावारोहस्तु नितम्बकः ॥ २६७ ॥
4.267 · p. 134
अनुष्टुप्
बुलिश्च्युतिर्भगो योनिः स्त्रीचिह्नं स्मरमन्दिरम् ।स्मृतोऽपत्यपथश्चैव वराङ्गं स्मरकूपिका ॥ २६८ ॥
4.268 · p. 134
अनुष्टुप्
मेढ्रं कामलता शेफो मेहनं शेफसा सह ।पुंश्चिह्नं शिश्नमाख्यातमण्डकोशाण्डकौ समौ ॥ २६९ ॥
4.269 · p. 134
अनुष्टुप्
पेलाण्डे वृषणो मुष्को गुदं पायुश्च्युतिः स्त्रियाम् ।शकृद्वारमपानं चाधोमर्म बुलिनाम तु ॥ २७० ॥
4.270 · p. 134
अनुष्टुप्
वङ्क्षणस्तूरुसन्धिः स्यात्सक्थ्यूरुस्तस्य पर्वणि ।नलकीलस्तथा जानु पश्चाद्भागोऽस्य मन्दिरः ॥ २७१ ॥
4.271 · p. 134
अनुष्टुप्
प्रसृता चाग्रिमो जङ्घा कपोली नलकिन्यपि ।पादग्रन्थौ तु गुल्फः स्याद्घुटो घुटिकघुण्टकौ ॥ २७२ ॥
4.272 · p. 135
अनुष्टुप्
------------ पिण्डिकायां पिचण्डिका ।चरणांह्री क्रमः पादश्चलनः क्रमणः समौ ॥ २७३ ॥
4.273 · p. 135
अनुष्टुप्metre not read in every line
गोहिरं पादमूले च घुण्टाधः पार्ष्णिरुच्यते ।प्रपदं क्षिप्रमंह्र्यग्रे [74] तलं पादतले स्मृतम् ॥ २७४ ॥
4.274 · p. 135
अनुष्टुप्
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
4.275 · p. 135
अनुष्टुप्
स्नायुत्वग्रोमभिः सार्धं धातवो दशधा स्मृताः ।रस आहारतेजोऽग्निसंभवः षड्रसासवः ॥ २७६ ॥
4.276 · p. 135
अनुष्टुप्
आत्रेयोऽसृक्करो धातुर्धनमूलमहापरः ।शोणितं रुधिरं रक्तं रसतेजो रसोद्भवम् ॥ २७७ ॥
4.277 · p. 135
अनुष्टुप्
आग्नेयं लोहितं विस्रं वाशिष्ठं प्राणदं समम् ।आसुरं क्षतजं चास्रमसृग्मांसकरं हि तत् ॥ २७८ ॥
4.278 · p. 135
अनुष्टुप्
पललं जङ्गलं क्रव्यं मांसं स्याद्रक्तसंभवम् ।काश्यपं रक्ततेजोऽपि मेदस्कृत्तरसं तथा ॥ २७९ ॥
4.279 · p. 135
अनुष्टुप्
पिशितं पलकीने च पेशी मांसस्य वल्लरी ।अग्रिमे सुरसं वृक्का बुक्का स्याद्धृदयं हृदा ॥ २८० ॥
4.280 · p. 136
अनुष्टुप्
शुष्कमांसे तु वल्लूरमुत्तप्तं च विभाव्यताम् ।दूष्यपूये समे चैव वपा त्वस्थिकरी मता ॥ २८१ ॥
4.281 · p. 136
अनुष्टुप्
मेदो मांसस्य तेजो हि मांसजं गौतमं बसा ।कर्परं तु कपाले स्यात्पृष्ठास्थि स्यात्कशेरुका ॥ २८२ ॥
4.282 · p. 136
अनुष्टुप्
करङ्कः स्याच्छरीरास्थि मज्जा शुक्रकरोऽपि च ।शुक्रं वीर्यं बलं रेतः पौरुषं किट्टवर्जितम् ॥ २८३ ॥
4.283 · p. 136
अनुष्टुप्
पुंस्त्वं मज्जसमुद्भूतमिन्द्रियानन्दसंभवे ।तनूरुहं लोम रोम चर्म कृत्तिस्तथाजिनम् ॥ २८४ ॥
4.284 · p. 136
अनुष्टुप्
छादिनी त्वक् छविश्चापि वस्नसा स्नसया सह ।स्नायुर्धमनयो नाड्यः कण्डरा महती वसा ॥ २८५ ॥
4.285 · p. 136
अनुष्टुप्
किट्टं मलं नेत्रजे तु दूषीका दूषिका समे ।जिह्वायाः कुलुकं किट्टं पिप्पिका दन्तसंभवे ॥ २८६ ॥
4.286 · p. 136
अनुष्टुप्
शिङ्घाणो घ्राणजे तस्मिन्पिञ्जूषः कर्णयोर्मलम् ।पुष्पिका लिङ्गजे तस्मिन्विशिष्यैवं विभाव्यताम् ॥ २८७ ॥
4.287 · p. 136
अनुष्टुप्
सृणीकास्यासवो लाला स्यन्दिनी कफकूर्चिका ।मूत्रं मेहः स्रवो बस्तिमलं प्रस्राव एव च ॥ २८८ ॥
4.288 · p. 137
अनुष्टुप्
विष्ठा गूथपुरीषे च वर्चस्कं वर्चसा सह ।विट् शकृच्छमलोच्चारौ [75] परिकर्म त्वलंकृतिः ॥ २८९ ॥
4.289 · p. 137
अनुष्टुप्
आकल्पो वेषनेपथ्ये संस्क्रियोद्वर्तनं पुनः ।पटवासकपिष्टातौ चूर्णं स्याद्वासयोगतः ॥ २९० ॥
4.290 · p. 137
अनुष्टुप्
अधिवासनसंस्कारौ गन्धमाल्यादिना कृतम् ।उपभोगोऽपि निर्वेशो विशेषोऽयं निरीक्ष्यताम् ॥ २९१ ॥
4.291 · p. 137
अनुष्टुप्
आप्लवः सवनस्नाने कस्तूरीचन्दनादिभिः ।कर्पूरागरुकक्कोलैः स्मर्यते यक्षकर्दमः ॥ २९२ ॥
4.292 · p. 137
अनुष्टुप्
चतुःसमं तु तत्प्रोक्तं कुङ्कुमादिचतुश्चये ।अगर्वगुरुलोहे तु राजार्हं कृमिजं च तत् ॥ २९३ ॥
4.293 · p. 137
अनुष्टुप्
काकतुण्डोऽसितः प्रोक्तः श्रीखण्डं रोहणद्रुमः ।रक्तचन्दनपत्राङ्गे क्लीबलिङ्गे समे उभे ॥ २९४ ॥
4.294 · p. 137
अनुष्टुप्
रञ्जनं ताम्रसारं च कुचन्दनमपि स्मृतम् ।जातीफलं जातिकोशः कर्पूरो हिमवालुका ॥ २९५ ॥
4.295 · p. 138
अनुष्टुप्
चन्द्रः सिताभ्र आख्यातो घनसारसमाख्यकः ।कस्तूरी मृगनाभिः स्याद्गन्धधूली मृगान्मदः ॥ २९६ ॥
4.296 · p. 138
अनुष्टुप्
काश्मीरजन्मवर्णे तु घुसृणं रक्तचन्दनम् ।कालेयजागुडे वह्निशिखं वाह्लीकमप्यदः ॥ २९७ ॥
4.297 · p. 138
अनुष्टुप्
श्रीसंज्ञं देवकुसुमं लवङ्गं कोलकं समम् ।कक्कोलकं कोशफले यक्षधूपोऽग्निवल्लभः ॥ २९८ ॥
4.298 · p. 138
अनुष्टुप्
रालः सर्जरसः सर्जमणिः सर्वरसोऽपि च ।तुरुष्कः पिण्डकः सिल्हो वृक्षधूपे तु पायसः ॥ २९९ ॥
4.299 · p. 138
अनुष्टुप्
भूषणाभरणे तुल्ये परिष्कारमलंकृतिः ।स्थासको हस्तबिम्बं च चूडारत्ने शिरोमणिः ॥ ३०० ॥
4.300 · p. 138
अनुष्टुप्
हारमध्यस्थिते तस्मिन्नायकस्तरलः समौ ।कोटीरमुकुटे मौलिः किरीटोष्णीष इत्यपि ॥ ३०१ ॥
4.301 · p. 138
अनुष्टुप्
स्रग्माला पुष्पदामापि माल्यं स्यान्मूर्धगं हि तत् ।ललामकं पुरोन्यस्तं शिखालम्बि तथा मतम् ॥ ३०२ ॥
4.302 · p. 138
अनुष्टुप्
प्रालम्बं डुम्बणं तुल्यमृजुलम्बि तथा मतम् ।ग्रन्थनं रचना गुम्फः संदर्भो रचनं पुनः ॥ ३०३ ॥
4.303 · p. 139
अनुष्टुप्
[76] चित्रं तमालपत्रं च तिलकः पुण्ड्र एव सः ।उत्तंसशेखरापीडावतंसाः शिरसः स्रजि ॥ ३०४ ॥
4.304 · p. 139
अनुष्टुप्
पत्राङ्गुली पत्रपाश्या पत्रभङ्गी समा मताः ।ललाटिका पत्रलेखा तथा पत्रलता समाः ॥ ३०५ ॥
4.305 · p. 139
अनुष्टुप्
पारितथ्या बालपाश्या कर्णिका कर्णभूषणम् ।ताडपत्रे तु ताडङ्कः कर्णवेष्टककुण्डले ॥ ३०६ ॥
4.306 · p. 139
अनुष्टुप्
हारो मुक्तालता मुक्तावली मुक्ताकलापकः ।तद्विशेषा यथा देवच्छन्दः साष्टं शतं स्मृतम् ॥ ३०७ ॥
4.307 · p. 139
अनुष्टुप्
इन्द्रच्छन्दः सहस्रं स्याच्छन्दो विजयपूर्वकः ।अर्धहारे चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ ३०८ ॥
4.308 · p. 139
अनुष्टुप्
ग्रैवेयकं लम्बमाना कण्ठभूषा ललन्तिका ।अङ्गदं बाहुभूषा च केयूरं करभूषणे ॥ ३०९ ॥
4.309 · p. 139
अनुष्टुप्
कङ्कणं कटकः पारिहार्यो वलयमेव च ।अवापो हस्तसूत्रं चोर्मिका स्यादङ्गुलीयकम् ॥ ३१० ॥
4.310 · p. 140
अनुष्टुप्
मेखला कटिसूत्रं स्यात्काञ्ची सारसनं तथा ।कलापो रसना चैव शृङ्खला पुंस्कटीस्थिता ॥ ३११ ॥
4.311 · p. 140
अनुष्टुप्
किङ्किणी लघुघण्टिः स्यात्तुलाकोटिस्तु नूपुरे ।पादाङ्गदं च मञ्जीरं पादात्कटकमित्यपि ॥ ३१२ ॥
4.312 · p. 140
अनुष्टुप्
चीराम्बरे वस्त्रचेले वासः सिक् सिचयोंऽशुकम् ।पटाच्छादावथ प्रान्ते वस्तिवर्ती दशाः समाः ॥ ३१३ ॥
4.313 · p. 140
अनुष्टुप्
धौतकौशेयपत्रोर्णे उष्णीषं मूर्धवेष्टनम् ।धौतवस्त्रयुगं तूद्गमनीयं च निगद्यते ॥ ३१४ ॥
4.314 · p. 140
अनुष्टुप्
तदुत्पत्तिश्चतुर्धास्ति त्वक्फलादिविभेदतः ।पट्टकूलदुगूले तु दुकूलं क्षौममप्यदः ॥ ३१५ ॥
4.315 · p. 140
अनुष्टुप्
कार्पासबादरे चापि कौशेयं कृमिकोशजम् ।राङ्कवं मृगरोमोत्थमौरभ्रः कम्बलः समौ ॥ ३१६ ॥
4.316 · p. 140
अनुष्टुप्
आविको रल्लकश्चापि नवं वस्त्रमनाहतम् ।स्थूलशाटवराशी च परिधानमथोऽम्बरम् ॥ ३१७ ॥
4.317 · p. 140
अनुष्टुप्
अन्तरीयोपसंव्याने तथा निवसनं पुनः ।नीव्युच्चयौ[77]चलनं तु तद्वच्चण्डातकं मतम् ॥ ३१८ ॥
4.318 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
कूर्पासः कञ्चुकश्चोलोऽङ्गिका कञ्चुलिका च सा ।शाटी चोटी समे प्रोक्ते नक्तकः कर्पटः समौ ॥ ३१९ ॥
4.319 · p. 141
अनुष्टुप्
कक्षापटश्च कौपीनं कुथः स्याच्चित्रकम्बलः ।जवनी प्रतिसीरा चापटी काण्डपटः पुमान् ॥ ३२० ॥
4.320 · p. 141
अनुष्टुप्
चन्द्रोदयो वितानं चोल्लोचः कदक इत्यपि ।केणिका पटकुट्यां स्यात्स्थुलदूष्ये समे उभे ॥ ३२१ ॥
4.321 · p. 141
अनुष्टुप्
स्रस्तरः संस्तरश्चैव शय्या शयनमुच्यते ।शयनीयतलिमे तुल्ये तल्पं पर्यङ्कमञ्चकौ ॥ ३२२ ॥
4.322 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
--------------------उच्छीर्षकमपि स्मृतम् ।उपधानं समं बर्हे प्रतिग्राहपतद्ग्रहौ ॥ ३२३ ॥
4.323 · p. 141
अनुष्टुप्metre not read in every line
दर्पणो मकुरादर्शावात्मदर्शोऽप्यथासनम् ।विष्टरः पीठमासन्दी वेत्रासनमपीरितम् ॥ ३२४ ॥
4.324 · p. 141
अनुष्टुप्
एकोक्त्या कशिपुः प्रोक्तो भोजनाच्छादनद्वये ।शय्यासने तथौशीरं लाक्षा राक्षा पलंकषी ॥ ३२५ ॥
4.325 · p. 141
अनुष्टुप्
द्रुमामयो रङ्गमाता क्षतघ्ना कृमिजा जतु ।अलक्तो याव आख्यातः कज्जलं त्वञ्जनं समम् ॥ ३२६ ॥
4.326 · p. 142
अनुष्टुप्
दशेन्धनः प्रदीपोऽपि दशाकर्षाञ्जनध्वजौ ।स्नेहप्रियो वेश्मरत्नं व्यजनं तालवृन्तके ॥ ३२७ ॥
4.327 · p. 142
अनुष्टुप्
मृगत्वचो धवित्रं तु आलावर्तं तु वासकः ।प्रसाधानस्तथा प्रोक्तः केशमार्जनकङ्कतौ ॥ ३२८ ॥
4.328 · p. 142
अनुष्टुप्
गेन्दुकः कन्दुको बालक्रीडने तु गुडो गिरिः ।गिरियकौ गिरिगुडो राजा भूभृन्महीपतिः ॥ ३२९ ॥
4.329 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
पार्थिवो राड्नृपो मूर्धाभिषिक्तो भूप इत्यपि ।सार्वभौमश्चक्रवर्ती सर्वमण्डलनायकः ॥ ३३० ॥
4.330 · p. 142
अनुष्टुप्
आदिराजः पृथुः प्रोक्तो हरिश्चन्द्रस्त्रिशङ्कुजः ।कुवलाश्वो धुन्धुमार ऐलबौधौ पुरूरवाः ॥ ३३१ ॥
4.331 · p. 142
अनुष्टुप्
शकुन्तलात्मजः सर्वंदमो भरतनामकः ।हैहेयः कार्तवीर्योऽप्यर्जुनः स्याद्दोःसहस्रभृत् ॥ ३३२ ॥
4.332 · p. 142
अनुष्टुप्
कौशल्यानन्दनो रामस्तथा दाशरथिः स्मृतः ।मैथिली जान[78]की सीता वैदेही धरणीसुता ॥ ३३३ ॥
4.333 · p. 143
अनुष्टुप्
रामपुत्रौ तु कुशलवावेकोक्त्या च कुशीलवौ ।सौमित्रिर्लक्ष्मणः प्रोक्तो मारुतिर्वज्रकङ्कटः ॥ ३३४ ॥
4.334 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हनूमानाञ्जनेयोऽपि वालिर्वालीन्द्रनन्दनः ।रक्षःपतिस्तु पौलस्त्यो रावणो दशमस्तकः ॥ ३३५ ॥
4.335 · p. 143
अनुष्टुप्
आदित्यपुत्रसुग्रीवौ शक्रजिद्रावणिश्च सः ।मन्दोदरीसुतो मेघनादोऽथ स्याद्युधिष्ठिरः ॥ ३३६ ॥
4.336 · p. 143
अनुष्टुप्
धर्मपुत्रोऽजमीढोऽथ भीमः स्यात्पवनात्मजः ।वृकोदरो हिडिम्बघ्नो बककीचकघातकः ॥ ३३७ ॥
4.337 · p. 143
अनुष्टुप्
अर्जुनो नरपार्थौ तु गुडाकेशधनंजयौ ।फाल्गुनः सव्यसाची च राधावेधी बृहन्नटः ॥ ३३८ ॥
4.338 · p. 143
अनुष्टुप्
किरीट्यैन्द्रिः सुभद्रेशश्चापे गाण्डीवगाण्डिवे ।पाञ्चाली याज्ञसेनी च द्रौपदी नित्ययौवना ॥ ३३९ ॥
4.339 · p. 143
अनुष्टुप्
सैरन्ध्री वेदिजा कृष्णा कर्णः सूर्यसुतोऽङ्गराट् ।चम्पाधिपः सूतपुत्रः कालपृष्ठं तु तद्धनुः ॥ ३४० ॥
4.340 · p. 144
अनुष्टुप्
परिग्रहः परिवारः परिस्यन्दपरिच्छदौ ।पुल्लिङ्गे परिकरस्तन्त्रोपकरणे समे ॥ ३४१ ॥
4.341 · p. 144
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable); pāda 3, syllable 1 पु (syllables merged)
राजशय्या महाशय्या हैमं सिंहासनं स्मृतम् ।भद्रासनं राजयोग्यं छत्रमातपघातकम् ॥ ३४२ ॥
4.342 · p. 144
अनुष्टुप्
प्रकीर्णकं रोमगुच्छो बालव्यजनचामरे ।स्थगी ताम्बूलकरङ्को भृङ्गारः कनकालुकः ॥ ३४३ ॥
4.343 · p. 144
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 क (wrong syllable)
पादासनं पादपीठं भद्रकुम्भः शुभो घटः ।मन्त्री तु धीसखोऽमात्यः सचिवः सामवायिकः ॥ ३४४ ॥
4.344 · p. 144
अनुष्टुप्
नियोगी व्यापृतः कर्मसचिवायुक्तावपि स्मृतौ ।प्रधानानि महामात्राः सौवस्तिकपुरोहितौ ॥ ३४५ ॥
4.345 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सचि (syllable split)
पुरोधाश्च प्रतीहारः क्षत्ता दौवारिकस्तथा ।उत्सारको वेत्रिदण्डिद्वाःस्था अन्तःपुरे त्वथ ॥ ३४६ ॥
4.346 · p. 144
अनुष्टुप्
शुद्धान्तश्चावरोधश्चावरोधनमपीरितम् ।सौविदाः सौविदल्लाश्च ते च कञ्चुकिनः स्मृताः ॥ ३४७ ॥
4.347 · p. 144
अनुष्टुप्
तुल्या[79]वंतःपुराध्यक्षेऽन्तर्वंशिकावरोधिकौ ।सूपकारो भक्तकारो बल्लवः सूद इत्यपि ॥ ३४८ ॥
4.348 · p. 145
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
घट्टशुल्कावुभौ तुल्यौ अरिशत्रू द्विषन्रिपुः ।विपक्षोऽसहनो दस्युर्द्विड्द्वेषी शात्रवोऽपि च ॥ ३४९ ॥
4.349 · p. 145
अनुष्टुप्
प्रत्यर्थी च पराराती प्रत्यनीको जिघांसुकः ।अमित्रः प्रत्यवस्थाताभियातिरहितोऽपि च ॥ ३५० ॥
4.350 · p. 145
अनुष्टुप्
विद्वेषे तु विरोधः स्याद्वैरं तत्र निगद्यते ।सखा मित्रं सुहृत्स्निग्धः सवयाः सहचरस्तथा ॥ ३५१ ॥
4.351 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सव (syllable split)
वयस्यस्तु समानोऽसौ सौहृदं सख्यमुच्यते ।मैत्री साप्तपदीनं तु सौहार्देऽजर्यमित्यपि ॥ ३५२ ॥
4.352 · p. 145
अनुष्टुप्
चरो यथार्हवर्णः स्याद्गूढपूरुषहेरिकौ ।अनुरोधानुवृत्ती त्ववसर्पः प्रणिधिः समौ ॥ ३५३ ॥
4.353 · p. 145
अनुष्टुप्
वार्तायनो मन्त्रवित्तु स्पशश्चारस्तथोच्यते ।आप्तो यथार्थवादी च पुमान्प्रत्ययितोऽपि सः ॥ ३५४ ॥
4.354 · p. 145
अनुष्टुप्
संदेशहारको दूतो गृहस्वामी तु सत्रिणि ।षड्गुणा विग्रहसन्धियानद्वैधाश्रयासनम् ॥ ३५५ ॥
4.355 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
अन्यत्वं शक्तयस्तिस्रो मन्त्रोत्साहप्रभुत्वजाः ।चत्वारः स्युस्तथोपायाः सामदानादयो यथा ॥ ३५६ ॥
4.356 · p. 146
अनुष्टुप्
सान्त्वनं साम भेदस्तूपजापो दण्डनं दमः ।प्राभृतं ढौकनं तुल्ये उत्कोचो लञ्चया सह ॥ ३५७ ॥
4.357 · p. 146
अनुष्टुप्
द्यूतं मांसं परस्त्री च सुराचौर्यपणाङ्गनाः ।पापर्धिरथ वा राज्ञां मृगयाक्षाः स्त्रियः पुनः ॥ ३५८ ॥
4.358 · p. 146
अनुष्टुप्
वचःपारुष्यपाने च पारुष्यं चार्थदण्डयोः ।पराक्रमोऽपि शौण्डीर्यं शौर्यविक्रमपौरुषम् ॥ ३५९ ॥
4.359 · p. 146
अनुष्टुप्
कोशदण्डोद्भवं तेजः प्रतापश्च प्रभाववत् ।परीक्षा सोपधा प्रोक्ता धर्मकामार्थसाध्वसैः ॥ ३६० ॥
4.360 · p. 146
अनुष्टुप्