कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चिबुक

cibukaक्ली · neut.

In 12 kośas: 14 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.308 · p. 25
असिकाधस्तु चिबुकं स्याद्गल्लः सृक्वणः परः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.90
अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.525 · p. 60
ओष्ठस्याधश्चिबुकं ललाटमलिकं भुजाग्रमंसं च ।कक्षां च बाहुमूलं घाटामवटुं कृकाटिकामाहुः ॥ ५२५ ॥
गीतिः
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.156 · p. 37
तयोरधोसिकं तस्मादधस्तु चिबुकं चिबुः ।सृक्कणस्तु परोगल्लस्तत्परः स्यात्कपोलकः ॥ १५६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.86 · p. 470
शालूकपुष्पकानूकमौक्तिकानां त्रिकस्य च ।छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 220
ओष्ठप्रान्तः सृक्व सृक्वि सृक्कु क्लीबानि सृक्किणी ।पुरस्तात्त्वसिकं तस्याप्यधस्ताच्चिबुकं भवेत् ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.92 · p. 105
कुतुक-कुलक-तोकानूक-हल्लीसकानित्रिक-रुचक-बुकाल्कालीक-शालूक-शल्कम् ।[228a]चिबुक-किबुक धान्याकाह्निकैडूक-शौका-लिक-कुहकयुतं च क्लान्तकं निःशलाकम् ॥ ९२ ॥
मालिनी
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.246 · p. 131
रदच्छदो दन्तवस्त्रमधरोष्ठावपीरितौ ।तदन्तौ सृक्कणी चैवाधोऽसिकं चिबुकं पुनः ॥ २४६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.86 · p. 221
रूचकं किबुकशालूके चिबुकं कवकं तथा ।शीर्षकं मधुपर्कं च प्रकीर्णककदम्बके ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.86 · p. 7
निमेषो नयनोन्मेषः पक्ष्म तारकृतोरणम् ।ओष्ठोऽधरो वक्त्रपर्णं[र्ण] हनुश्चिबुकपोत्रकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.32 · p. 22
पक्ष्म स्यान्नेत्ररोमाणि भ्रूरूर्द्ध्वं रोमपद्धतिः ।गल्लो गण्डः कपोलश्च चिबुकं त्वधरादधः ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.163 · p. 201
इदन्तमेकैर्वद्द्वन्द्वं कयुग्ममपरैः स्मृतम् ।सृक्कशब्देऽथ हन्वग्रसन्धौ स्याच्चिबुकं चिबुः ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1082 · p. 134
सृक्वणी त्वोष्ठयोः प्रान्तौ चिबुकं त्वधरादधः ।गण्डः कपोलस्तद्भागे गल्लः स्त्री तत्परा हनुः ॥ १०८२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.87 · p. 180
ओष्ठस्याधस्तु चिबुकं चुबुकं चबुकं च तत् ।अधरस्त्वधरोष्ठः स्यादोष्ठा दन्तच्छदोऽपि च ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.

चिबुक as a meaning in nānārtha verses