कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अधर

adharaपुं · masc.

In 18 kośas: 27 synonym verses, 9 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.11 · p. 18
यद्वदोऽनुत्तरे दुर्वाक्कद्वदे स्यादथाधरः ॥ ३४७ ॥हीनवादिन्येडमूकानेडमूकौ त्वावाक्श्रुतौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्वा (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.581 · p. 25
गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० ॥नक्रं नर्कुटकं शिङ्घिन्योष्ठोऽधरो रदच्छदः ।दन्तवस्त्रं च तत्प्रान्तौ सृक्कणी असिकं त्वधः ॥ ५८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.158
ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.364 · p. 43
तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते ।अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.524 · p. 60
रोम तनूरुहमुक्तं नयनगतं पक्ष्म मुखगतं श्मश्रु ।अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥
आर्याmetre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.154 · p. 37
नासा नक्का नसापि स्यात्तज्जे नासिक्यमित्यपि ।ओष्ठोऽधरश्च दन्तार्थाद्वस्त्रच्छदनयोरपि ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.206 · p. 43
अस्त्रियां जन्मसंसारपुष्पापत्यार्थतः पथः ।स्मरकूपोधरः संधिरवाच्यविषयार्थकः ॥ २०६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.74 · p. 222
कद्वदो गर्ह्यवाग्दुर्वाग्यद्वदोनुत्तरेपि च ।अथानेडो वर्कटः स्यादधरो हीनवादिनि ॥ ७४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 220
नासा नर्क्कुटकं नक्रं घ्राणं न स्त्री नासिक्यमन्यवत् ।चिकिनं चिपिटं चिक्क निबिडं निबिरीसवत् ।अवटीटावनाटावभ्रटान्यपि नतेन सः ।ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.11 · p. 2
गर्ह्यवादी कद्वदोऽथ यद्वदः स्यादनुत्तरः ।अथोऽधरो हीनवादी लोहलस्त्वस्फुटब्रुवः ॥ ११ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.97 · p. 21
उदीच्य उत्तरोऽनूर्ध्वस्त्वधरो विनिगद्यते ।अन्तरः परिधानीयस्त्य-इदौ बुद्धिगब्रुवौ ॥ ९७ ॥
अनुष्टुप्
genderविadj.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 100 · p. 50
दन्तवासोऽधरोऽप्योष्ठे वर्णितो दशनच्छदः ।शिरोधरो गलो ग्रीवा कण्ठश्च धमनी धमः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.246 · p. 131
रदच्छदो दन्तवस्त्रमधरोष्ठावपीरितौ ।तदन्तौ सृक्कणी चैवाधोऽसिकं चिबुकं पुनः ॥ २४६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.86 · p. 7
निमेषो नयनोन्मेषः पक्ष्म तारकृतोरणम् ।ओष्ठोऽधरो वक्त्रपर्णं[र्ण] हनुश्चिबुकपोत्रकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.33 · p. 23
ओष्ठोऽधरो दन्तवस्त्रं तथा च रदनच्छदम् ।रदना दशना दन्ता द्विजा दंशा रदा अपि ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.513 · p. 65
यद्वदोऽनुत्तरः स्याद्वै दुर्वाक् तु कद्वदस्तथा ।अधरो हीनवादी स्यादिडमूकस्त्ववाक्श्रुतः ॥ ५१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.933 · p. 142
ओष्ठोऽधरो रसालेपी रदच्छदश्च वाग्दलम् ।दन्तवस्त्रं च नामाऽपि दशनोच्छिष्ट उच्यते ॥ ९३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्छ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.275 · p. 101
कटीप्रोथः कटिप्रोथः पूलकः स्थिक् स्त्रियां स्फिचा ।लिङ्गयोन्योरुपस्यः स्याद् वराङ्गं स्मरमन्दिरम् ।योनिर्द्वयोरतिगृहं जन्मवर्त्माधरंभगम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.309 · p. 103
ओष्ठाधरौ दन्तवस्त्रे वाग्दले रदनच्छदौ ।चिवुकन्तु चिवुक्लीबेऽधराधः स्थले द्वयम् ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1080 · p. 134
तुण्डास्ये नासिकानासाघोणागन्धवहाः स्त्रियः ।घ्राणमोष्ठाधरौ दन्तच्छदौ दशनवाससी ॥ १०८० ॥
अनुष्टुप्
genderपुंmasc.
ज्ञानामृता वर्म-शुची दामोदर-निरञ्जनौ ।वागधरौ भौतिकेशो वागीशस्त्रिपुरश्च ऐ ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.9 · p. 61
-----------------------------------नादबिन्दु-समायुक्तो द्वादशस्तु स्वरो भगः ।योनिः सरस्वतीबीजमधरं वाग्भवं च वाक् ॥ऐं॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.116 · p. 79
योनिर्मायाऽधरः सेन्दुर्वधूः कूर्चं क्रमाद्विदुः ।बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमाचरेत् ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.22 · p. 52
ना सन्धिरधरोऽवाच्यदेशश्च स्मरकूपकः ।संसारमार्गश्च रतिकुहरं प्रकृतिः स्त्रियाम् ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.87 · p. 180
ओष्ठस्याधस्तु चिबुकं चुबुकं चबुकं च तत् ।अधरस्त्वधरोष्ठः स्यादोष्ठा दन्तच्छदोऽपि च ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.47 · p. 204
कद्वदो गर्ह्यवादी स्याल्लोहलोऽस्फुटभाषणः ।अधरो दीनवादी स्यात्सम्मुखः प्रतिभातवाक् ॥ ४७ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.356
जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.28 · p. 169
प्रदरो योषितां रोगः प्रदरः शरभङ्गयोः ।अधरावोष्ठहीनौ तु अनूर्ध्वमधरं विदुः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.83 · p. 315
पश्चाच्छरीरे करिणां स्त्रियां तुभवेज्जरायौ चरमेऽधुनार्थे ।आर्वाग्भवे भेद्यसमं वदन्तिदन्तच्छदे पुंसि तथाधरः स्यात् ॥ ८३ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.84 · p. 315
अनूर्ध्व[51b]हीने परगोऽध्वरस्तुस्यात्सावधाने वसुभिन्मखार्थः ।अस्त्र्यन्तरं रन्ध्रविनावकाशा-न्तरात्मभेदावधिमध्यवाचि ॥ ८४ ॥
उपजातिःmetre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.54 · p. 51
द्वे तु मर्येऽधरस्तु स्यादोष्ठे पुंस्यथ भेद्यवत् ।अवाचीने च हीने क्ली त्वध्वरं खे मखे तु ना ॥ ५४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.120 · p. 57
अधरस्तु पुमान् बन्धुसमूहे भूरुहान्तरे ।क्ली तु युद्धे द्वयोस्तु स्यान्मातृवाहाख्यजन्तुके ॥ १२० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.121 · p. 57
जलपक्षिविशेषे च स्यादथो अतसः पुमान् ।वनस्पतिप्रभेदे स्यादतसी तु स्त्रियामियम् ॥ १२१ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.327 · p. 205
नाकेऽतिगन्धद्रव्ये च स्यादऽस्रं रुधिराश्रुणोः ।प्रस्तावेऽवसरो वर्षे चौष्ठे नीचेऽपि चाधरः ॥ ३२७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.16 · p. 258
अधरोऽनूर्ध्वहीनोष्ठेष्वनृतं वितथे कृषौ ।आश्रमोऽस्त्री मुनिस्थाने ब्रह्मचर्यादिके मठे ॥ १६ ॥
अनुष्टुप्

अधर as a meaning in nānārtha verses