नासिका
nāsikāस्त्री · fem.In 21 kośas: 23 synonym verses, 15 as a meaning of another word.
गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० ॥नक्रं नर्कुटकं शिङ्घिन्योष्ठोऽधरो रदच्छदः ।दन्तवस्त्रं च तत्प्रान्तौ सृक्कणी असिकं त्वधः ॥ ५८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderस्त्रीfem.
क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
सिङ्घिनी नासिका नासा घ्राणं घोणा च कथ्यते ।रसज्ञा रसना जिह्वा तालु काकुदमुच्यते ॥ ५२१ ॥
अनुष्टुप्
genderस्त्रीfem.
नसा नासा नासिका च तत्र नस्यापि युज्यते ।सृक्कणी सृक्वणी सृकाण सृक्कानीऽपि प्रकीर्त्यते ॥ १८३ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
मुद्रणेथोद्घाटने स्यादुन्मेषश्चोन्मिषश्च सः ।घोणा विकूणिका नस्या नासिका सिङ्घिनी च सा ॥ १५२ ॥
अनुष्टुप्
genderस्त्रीfem.
भेद्यवत्पक्ष्मलस्तद्युङ्नासिका तु विकूणिका ।कुल्मा गन्धवहा घोणा गन्धज्ञा घ्रा च शिङ्घिनी ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
शिङ्घिनी नासिका नासा नक्रं घोणा विकूणिका ।गन्घज्ञा घ्राणमाख्यातं तद्वन्नर्कुटकं स्मृतम् ॥ २४५ ॥
अनुष्टुप्
genderस्त्रीfem.
तदधोदशेदारोस्तु देहली दिहलीति च ।तदूर्ध्वदारुणि प्रोक्ता स्याना नासा च नासिका ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शे (wrong syllable)
genderस्त्रीfem.
गोधिर्ललाटमलिकं निटिलं भालमर्द्धकम् ।घ्राणं गन्धेन्द्रियं घोणा नासिका गन्धवाहिनी ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः ।नक्रं तु नासिका नासा घ्राणं घोणा च शिङ्घिनी ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderस्त्रीfem.
नासिका च नसा नासा नस्या च गन्धनालिका ।नक्रं नर्कुटकं घ्राणं घोणा गन्धवहा तथा ॥ ९३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके ।बुद्धीन्द्रियमिति प्राहुः शब्दकोषविचक्षणाः ॥
अनुष्टुप्
genderस्त्रीfem.
द्वाराधःस्थितकाष्ठे तु शिला चापि शिलिः शिली ।द्वारोर्ध्वस्थितकाष्ठे तु नासा च नासिकेत्यपि ॥प्रकोष्ठाभ्यन्तरगृहद्वारे गूढनिषेविते ।प्रच्छन्नमन्तद्वारस्तु द्वयन्तत्राभिधीयते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
घोणा घ्राणञ्च नासिकयं नस्या नासा च नासिका ॥
genderस्त्रीfem.
नासा नस्या नासिका च नाशिका घ्राणमाघ्रया ।घ्रा, दन्तवस्त्रे ओष्ठः स्यात् त्रिकवर्गद्वितीयवान् ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
तुण्डास्ये नासिकानासाघोणागन्धवहाः स्त्रियः ।घ्राणमोष्ठाधरौ दन्तच्छदौ दशनवाससी ॥ १०८० ॥
अनुष्टुप्
genderस्त्रीfem.
भ्रूमध्यं माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।शान्तः कान्तः कामिनी च कामो विघ्नविनायकः ।नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
इकारश्चन्द्र-सूक्ष्मौ च दक्षनेत्रं सुगुह्यकः ।रुद्रश्च कोटरश्चैव नासिका परिकीर्त्तितः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्काकलं कण्ठमणिर्नसा नस्या च नासिका ।गन्धनाली च नासिक्यं वाग्दलं दन्तवाससि ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
नसा नासा च नासिका ॥ ३७ ॥
genderस्त्रीfem.
वक्रो नकुटकं घ्राणं घोणा नासा विघूणिका ।शिंघाणी नासिका चाथ धमनौ नासिकापुटौ ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
नासिका as a meaning in nānārtha verses
- धरणिकोश सिङ्घाणग्रामणीश्च प्रधाने स्यात्पतिनापितभोगिषु । सिङ्घाणं काचपात्रे स्याल्लोहनासिकयोरपि ॥ Dharaṇikośa 14.2.12
- धरणिकोश नासानासा च नासिका ज्ञेया नासा द्वारोर्ध्वदारु च । धनुश्चापे राशिभेदे प्रियालाख्यद्रुमो धनुः ॥ Dharaṇikośa 31.2.4
- कोषकल्पतरु घ्राणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु नक्रनक्रस्तु कुम्भीरकवाचको ना क्लीबेऽग्रदारुण्यपि नासिकायाम् शनैश्चरे वक्रमुशन्ति पुंसि क्लीबं न ते स्यात्पुटभेदके च ॥ ४२ ॥ Koṣakalpataru 6.27.42
- कोषकल्पतरु नासावसुर्द्वयोनस्तु धने सुवर्णे रत्ने च वृद्ध्यौषधकेऽन्यवत्तु । स्वादौ च नासा त्विह नासिकायां द्वारोर्ध्वदारुण्यपि संप्रदिष्टा ॥ ८३ ॥ Koṣakalpataru 6.31.83
- नानार्थार्णवसंक्षेप नासानानाशब्दस्तु भारत्यां जनन्यां दुहितर्यपि । नासा तु नासिकायां स्याद् गृहद्वारोर्ध्वदारुणि ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 2.1.55
- नानार्थार्णवसंक्षेप घोणारश्मौ ज्वाले निदाघेऽह्नि वीच्यां घोणा तु सा स्त्रियाम् । नासिकायां हयप्रोथे जलस्योपरि गत्वरे ॥ ३८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.389
- नानार्थार्णवसंक्षेप गोनासागोनासः स्यात् तिलित्साख्यसर्पजातौ स्त्रियां पुनः । गोर्नासिकायां गोनासा गोपुच्छस्तु द्वियष्टिके ॥ ६८८ ॥ Nānārthārṇavasaṃkṣepa 4.688
- परमानन्दीयनाममाला गन्धवाहागन्धवाहो मृगे वायौ गन्धवाहा च नासिका । गोमेदकं च काकोले पत्रके रत्नभिद्यपि ॥ १६८ ॥ Paramānandīyanāmamālā 5.9.168
- शब्दरत्नावली घ्राणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नावली बालिनीबालिनी नासिकामत्ताविदग्धावनितासु च ॥ Śabdaratnāvalī 7.20.64
- शब्दरत्नावली नासादासो भृत्ये धीवरे च शूद्रे ज्ञातार्थयोरपि । नासाद्वारोर्द्धकाष्ठे स्यान्नासिकायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.32.4
- शब्दरत्नावली गन्धवहगन्धवहः समीरे स्यान्नासिकायां भवेत्स्त्रियाम् । तनूरुहं भवेल्लोम्नि पतत्रे च नपुंसकम् ॥ Śabdaratnāvalī 7.33.31
- तन्त्राभिधान ऋऋः पुर्दीघमुखी रुद्रो देवमाता त्रिविक्रमः । भाव(र)भूतिः क्रिया क्रूरा रेचिका नासिका धृतः ॥ २३ ॥ Tantrābhidhāna 2.8.23
- त्रिकाण्डशेष घ्राणअङ्गुष्ठानामिकोन्माने गोकर्णोऽहौ मृगेऽपि च । नासिकाघ्रातयोर्घ्राणं चूर्णं गन्धयुतावपि ॥ १२६ ॥ Trikāṇḍaśeṣa 3.3.126