All kośas › Bālaprabodhikā
बालप्रबोधिका Bālaprabodhikā
357 verses · 2,901 words tagged · 725 marked doubtful (dashed)
पञ्चदशोपदेशः
इति बालप्रबोधिकायां चतुर्दश उपदेशः ।
सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिङ्गलः ।व्याकीर्णास्यो महानादो मृगपः केसरी हरिः ॥ ३०६ ॥
15.306 · p. 94
अनुष्टुप्
व्याघ्रो मृगारिः शार्दूलो हिंसारुचन्द्रकी मृगात् ।चित्राङ्गस्तु महाद्वेष्टः पिण्डारस्तु न रोटकः ॥ ३०७ ॥
15.307 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
सूकरो वज्रदंष्ट्रश्च वराहश्च जलप्रियः ।आमरूपी स्तब्धरोमा पीनस्कन्धोऽलसेक्षणः ॥ ३०८ ॥
15.308 · p. 94
अनुष्टुप्
भल्लूके दीर्घरोमा स्याद्भल्लूवासः सिताननः ।गण्डके खड्गपादः स्यात् कोके त्वीहायनो वृकः ॥ ३०९ ॥
15.309 · p. 94
अनुष्टुप्
महिषी तु चिरस्कन्धो … न्तस्तु रजस्वलः ।निरञ्जनः कृष्णसारो पृषतस्तु सबिन्दुकः ॥ ३१० ॥
15.310 · p. 94
metre not recognisednearly अनुष्टुप्
वातायुः स्याद्वातमृगे प्रियको रोमभिर्युतः ।शम्याकः श्वेतबिन्दुः स्यात्कदली तु बिलेशयः ॥ ३११ ॥
15.311 · p. 94
अनुष्टुप्
शालिजातस्तु खश्वासः पूतिकश्चासिकोऽपि च ।शिबेबः स्याद्गन्धमृगः कस्तूरी मृगवालुका ॥ ३१२ ॥
15.312 · p. 94
अनुष्टुप्
अण्डस्तु तस्य कस्तूरी राजार्हं शिबिचन्दनम् ।मार्जारिका वेधमुख्या मदनी गन्धवेलिका ॥ ३१३ ॥
15.313 · p. 94
अनुष्टुप्
मृगमत्तः स्वभीरुः स्याज्जम्बुको ग्रन्धिलोऽपि च ।वानरो मर्कटः कीशः कुरङ्गो भल्लुकोलिगुः ॥ ३१४ ॥
15.314 · p. 94
अनुष्टुप्
रतिकीलो गृहमृगः कुक्कुरः क्रोधनः शनिः ।पक्ष इन्द्रमृगः श्वालः कपिलो मण्डलः शुनः ॥ ३१६ ॥
15.316 · p. 94
अनुष्टुप्
जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः ।शुनी तु सरमा श्वालिविचरो ग्रामसूकरः ॥ ३१७ ॥
15.317 · p. 95
अनुष्टुप्
रासभस्तु स्वरोऽनश्वो धूमकण्ठो महास्वनः ।रामुकश्चिरमेषी च कामिनी चक्रकन्धरः ॥ ३१८ ॥
15.318 · p. 95
अनुष्टुप्
नदभो गर्दभश्चापि … ।मयस्तूष्ट्रो मवाग्रीवो वक्राङ्गः पार्वतीप्रियः ॥ ३१९ ॥
15.319 · p. 95
अनुष्टुप्metre not read in every line
करभस्तस्य शिशुके करभा तूष्ट्रिका नदी ।हयस्तुरङ्गस्तुरगो प्रोथिवारिप्रकीर्णकः ॥ ३२० ॥
15.320 · p. 95
अनुष्टुप्
तुरङ्गमः शालिहोत्री कुतुरस्तर्क्ष्यकस्तथा ।मेटकः क्रमणो भोगी पाकलो गृहभोजनः ॥ ३२१ ॥
15.321 · p. 95
अनुष्टुप्
माषाशी महिषद्वेषी पुरुषः सिंहविक्रमः ।दन्तावलः कुञ्जरश्च महाकायस्तु वारणः ॥ ३२२ ॥
15.322 · p. 95
अनुष्टुप्
मतङ्गजो मतङ्गः स्यात्कुम्भी दन्ती करी दरी ।वेतण्डो भिन्नगण्डस्तु सामजः सिन्धुरः सुरः ॥ ३२३ ॥
15.323 · p. 95
अनुष्टुप्
करेणुका करिण्यां स्याद्वमथुः करशीकरः ।सौरभेयी शृङ्गिणी गौः शुभार्धा लम्बिका मही ॥ ३२४ ॥
15.324 · p. 95
अनुष्टुप्
माहेयी वञ्जुला तम्पा रोहिणी वृषवल्लभा ।वृषस्तु वृषभः शृङ्गी वाहो गोरक्षधूर्तिलः ॥ ३२५ ॥
15.325 · p. 95
अनुष्टुप्
उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वसी ।गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।छागो रङ्गस्तु छगणो लम्बकर्णः स्तबः पशुः ॥ ३२६ ॥
15.326 · p. 95
अनुष्टुप्