कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · वनौषधिवर्गः (9/15)

पुनर्भवः कररुहः करकण्टः पुनर्नवः ।करशूको महाराजो भवेत्कामाङ्कुशोऽपि सः ॥ ८५ ॥
2.3.85 · p. 127
अनुष्टुप्
नखोऽस्त्री नखरी त्रय्यां नख्यं त्रिषु नखोद्भवम् ।प्रादेशश्च प्रदेशश्च तर्जन्या सह विस्तृते ॥ ८६ ॥
2.3.86 · p. 218
अनुष्टुप्
अङ्गुष्ठे तालशो कर्णो मध्य[86a]मानामिकायुते ।सकनिष्ठे द्वयोः किष्कुवितस्तिदीष्टिररिफर्फटी । (corrupt)* * * * * * * * * * * * कोपित्यपि । (corrupt)प्रसारिताङ्गुलौ पाणौ प्रतलः स्यात्तलः पुमान् ।तालः प्रहस्तश्चपटश्चपेटायुजि तालिका ॥ ८८ ॥
2.3.88 · p. 218
अनुष्टुप्metre not read in every lineLatin letters: corruptLatin letters: corrupt
अर्द्धचन्द्रं कर्करेटं विदुरङ्गुलितोरणम् ।द्वौ संहतौ सिंहतलौ स्तः संहततलौ करौ ।प्रतलौ मुचुटी मुष्टिर्द्वयोः संग्राह-मुस्तुकौ ॥ ८९ ॥
2.3.89 · p. 218
अनुष्टुप्metre not read in every line
संपीडिताङ्गुलौ पाणौ खटकस्त्वर्द्धमुष्टिकः ।प्रसृतिः प्रसृतः पुंसि पाणौ संकुचिताङ्गुलौ ॥ ९० ॥
2.3.90 · p. 218
अनुष्टुप्
प्रसृते सद्रवे द्वंद्वे गण्डूषश्चुलुकश्चुलुः ।प्रसृताभ्यां युताभ्यां स्यादञ्जलिर्नरलिङ्गकः ॥ ९१ ॥
2.3.91 · p. 218
अनुष्टुप्
प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया ।सरत्निर्युज्यरत्निश्च निःकनिष्ठेन मुष्टिना ॥ ९२ ॥
2.3.92 · p. 218
अनुष्टुप्
एवं तत्तत्प्रमाणे स्युर्वितस्त्याद्या विशेष्यगाः ।द्विसमादिप्रमाणेऽन्यवत्तावद्द्वयसं पुनः ॥ ९३ ॥
2.3.93 · p. 218
अनुष्टुप्
तावन्मात्रं तथा स्वार्थे प्रमाणपरिमाण[86b]तः ।संख्यायाश्चापि संदेहे शयमात्रं विशेष्यवत् ॥ ९४ ॥
2.3.94 · p. 218
अनुष्टुप्metre not read in every line
दिष्टिमात्रं प्रस्थमात्रं पञ्चमात्रमितीरयेत् ।ऊर्ध्वविस्तृतदोःपाणेर्नुर्माने पौरुषं त्रिषु ॥ ९५ ॥
2.3.95 · p. 218
अनुष्टुप्
पुरुषद्वयसं च स्यादस्मिन्पुरुषदघ्नवत् ।स्याद्द्वादशाङ्गुलं छायामानं पौरुषमत्र च ॥ ९६ ॥
2.3.96 · p. 218
अनुष्टुप्
हास्तिनं हस्तिदघ्नं च हस्तिद्वयसमित्यपि ।हस्तिमाने द्विपुरुषं द्विहस्ति नवहस्ति च ॥ ९७ ॥
2.3.97 · p. 219
अनुष्टुप्
स्त्रियां द्विपुरुषी गङ्गा तथा द्विपुरुषापि सा ।स्यादूरुद्वयसी चोरुदघ्नी स्यादूर्ध्वमानके ॥ ९८ ॥
2.3.98 · p. 219
अनुष्टुप्
ऊरुमात्रीत्यादि पुनर्माने साधारणे भवेत् ।तिर्यग्बाह्वोः प्रसृतयोरन्तरे व्याम आदिमे ॥ ९९ ॥
2.3.99 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्या (wrong syllable)
न्यग्रोधकश्च व्यायामस्त्रिषु मानार्थका अमी ।कण्ठो गलो निगरणः क्रोडाग्रो धमनी धरः ।नालोऽथ तदधोवर्ती मणिः काकलको मतः ॥ २०० ॥
2.3.200 · p. 219
अनुष्टुप्
कंधरा धमनिर्ग्रीवा शिरोधिः स्त्री शिरोधरा ।अ * वाजे त्वलंकारे ग्रैवं ग्रैवेयमन्यवत् ।कम्बुग्री[87a]वा त्रिरेखा सा स्त्री तु घाटा कृकाटिका ॥ १ ॥
2.3.1 · p. 219
अनुष्टुप्metre not read in every line
अवटुर्मिथुनेऽथ स्याच्छिरोधेरन्तरं कृकः ।कृकपार्श्वौ वीतनौ स्तः नीले प्राक्कंधरा - शिरे ॥ २ ॥
2.3.2 · p. 219
अनुष्टुप्
पश्चान्मन्ये कलम्ब्यौ च व्युपो(?) स्त्रि मुखमाननम् ।चुब्रमास्यं च वदनं लपनं वक्त्रमस्त्रियाम् ॥श्म च तुण्डं तत्तु कर्णालंकारेण मनोहरम् ।स्यात्कार्णावेष्टिकं भालोऽस्त्र्यलीकं निटिलालिके ॥ललाटं स्त्री तु गोधिः स्यात्त्रिपताकं त्रिरेखकम् ।कर्णः शब्दग्रहः श्रुन्ना स्त्री श्रुतिः श्रवणोऽस्त्रियाम् ॥ ५ ॥
2.3.5 · p. 219
अनुष्टुप्
शब्दाधिष्ठान-पैञ्जूष-श्रवः-श्रोत्र-महारवम् ।पालिस्तु कर्णलतिका वेष्टनं कर्णशष्कुली ।कर्णमूलं कर्णजाहं यन्मूलं पादजाहकम् ॥ ६ ॥
2.3.6 · p. 219
अनुष्टुप्metre not read in every line
शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा ।दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥
2.3.7 · p. 219
अनुष्टुप्
ईक्षणं लोचनं देहदीपोऽम्बक-विलोचने ।दर्शनं तारकं * * [तार] - तारके च कनीनिका ॥ ८ ॥
2.3.8 · p. 220
अनुष्टुप्
अपाङ्गौ नेत्रयोरन्तौ द्वाविमौ नरलि[87b]ङ्गकौ ।वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् ।क्रूरे त्वस्मिन्नदृष्टिः स्त्री तथानक्षि नपुंसके ॥ ९ ॥
2.3.9 · p. 220
अनुष्टुप्metre not read in every line
ये लोहितादिनेत्रास्ते लोहिताक्षादयस्त्रिषु ।भ्रुवौ स्त्रियौ दृगूर्ध्वे स्तो द्वंद्वे त्वक्षिभ्रुवं तयोः ॥ १० ॥
2.3.10 · p. 220
अनुष्टुप्
भ्रुवोर्मध्यं कूर्च्चमस्त्री कूर्पं चावर्तके पुनः ।ऊर्णा भ्रुवोर्मध्यगते पक्ष्मा स्त्री नेत्ररोमणि ॥ ११ ॥
2.3.11 · p. 220
अनुष्टुप्
भेद्यवत्पक्ष्मलस्तद्युङ्नासिका तु विकूणिका ।कुल्मा गन्धवहा घोणा गन्धज्ञा घ्रा च शिङ्घिनी ॥ १२ ॥
2.3.12 · p. 220
अनुष्टुप्
नासा नर्क्कुटकं नक्रं घ्राणं न स्त्री नासिक्यमन्यवत् ।चिकिनं चिपिटं चिक्क निबिडं निबिरीसवत् ।अवटीटावनाटावभ्रटान्यपि नतेन सः ।ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ॥ १३ ॥
2.3.13 · p. 220
अनुष्टुप्metre not read in every line
ओष्ठप्रान्तः सृक्व सृक्वि सृक्कु क्लीबानि सृक्किणी ।पुरस्तात्त्वसिकं तस्याप्यधस्ताच्चिबुकं भवेत् ॥ १४ ॥
2.3.14 · p. 220
अनुष्टुप्
सृक्वणः स्यात्परो गल्लः कपोलो गल्लतः परः ।कपोलतः परौ गण्डौ हनुह[88a]न्वौ द्वयोस्ततः ॥ १५ ॥
2.3.15 · p. 220
अनुष्टुप्metre not read in every line
मुखालंकरणो दन्तो दंशः खादन-मल्लकौ ।खरुः सीरी द्विजो जृम्भ - दशनौ न स्त्रियौ रदः ॥ १६ ॥
2.3.16 · p. 220
अनुष्टुप्
रदनो रागचूर्णश्च हालुः स्याद्रुचकं तथा ।दन्तूलो दन्तवान्राजदन्तौ मध्यगताविमौ ।दाढा दंष्ट्राथ मिथुने काकुः स्याद्रसना न ना ॥ १७ ॥
2.3.17 · p. 220
अनुष्टुप्
रसा रसज्ञा रसना जिह्वा लोला च सा मता ।लम्बिका घण्टिका कण्ठशुण्डिका च सुधास्रवा ॥ १८ ॥
2.3.18 · p. 220
अनुष्टुप्
काकुदन्तालु युग्ये तु मौलिर्मस्तकमस्त्रियाम् ।मस्तिकं चोत्तमाङ्गं कं वराङ्ग - शिरसी शिरः ॥ १९ ॥
2.3.19 · p. 221
अनुष्टुप्
शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् ।चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥
2.3.20 · p. 221
अनुष्टुप्
अस्रो हलो वेल्लिताग्रस्तीर्थवाप(क)श्च कुन्तलः ।शिरोरुहः शिरसिजः कचो वालस्तु न स्त्रियाम् ॥ २१ ॥
2.3.21 · p. 221
अनुष्टुप्
तद्वृन्दे कैशिकं कैश्यमथ केशादितः परः ।पाशः पक्षश्च हस्तश्च कलापो भार उच्चयः ॥ २२ ॥
2.3.22 · p. 221
अनुष्टुप्
रचना चेति केशानां भूयस्त्वप्रतिपादकाः ।अलको[88b]ऽस्त्री कर्करालः खंखरश्चूर्णकुन्तलः ॥ २३ ॥
2.3.23 · p. 221
अनुष्टुप्metre not read in every line
भाले त्वस्त्री भ्रमरकः कुरलो भ्रमरालकः ।कबरी केशवेषोऽथ धम्मिल्लः संयताः कचाः ॥वेणिः प्रवेणिः शीर्षण्य-शिरस्यौ विशदे कचे ।केशेषु वर्त्म सीमन्तः शिखा तु स्याच्छिखाण्डिका ॥ २५ ॥
2.3.25 · p. 221
अनुष्टुप्
चूडा केशी केशपाशी जुटकं च शिखण्डिका ।बालानां काकपक्षोऽसौ शिखण्डक-शिखाण्डकौ ॥ २६ ॥
2.3.26 · p. 221
अनुष्टुप्
…स्ता जटा च सटा द्वयोः ।जटालस्तद्युतः क्षेपे त्रिषु जूटः पुनर्नरि ।जटुकं कवरोऽक्लीबे कक्षागुह्यकठा ( चा? ) जटाः ॥ २७ ॥
2.3.27 · p. 221
अनुष्टुप्metre not read in every line
तनूरुहं लोम रोम न स्त्री तु श्मश्रु दाढिका ।दंष्ट्रिका मासुरी नव्या कूर्चोऽस्त्री चिबुकस्थिते ॥ २८ ॥
2.3.28 · p. 221
अनुष्टुप्
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
2.3.29 · p. 221
अनुष्टुप्metre not read in every line
रस आहारजन्माग्निसंभवः षड्रसासवः ।आत्रेयोऽसृक्करो धातुर्घनमूलो(ल)महापरः ॥ ३० ॥
2.3.30 · p. 222
अनुष्टुप्
रुधिरे रक्त - कीलाल - तेजोज - रसजानि च ।आत्मजं देहजं तिग्ममस्रं लोहितमस्त्रियाम् ॥ ३१ ॥
2.3.31 · p. 222
अनुष्टुप्
मांसकृच्छोणितमसृग्वाशिष्टं प्राणदं तथा ।आसुरं क्षतजन्माथ क्रव्यं पललमस्रजम् ॥ ३२ ॥
2.3.32 · p. 222
अनुष्टुप्
पिशितं तरसं कीनं मेदस्कृत्काश्यपं तथा ।जरूथमुद्धसं तेजोभवं जङ्गलमस्त्रियाम् ॥ ३३ ॥
2.3.33 · p. 222
अनुष्टुप्
पलमांसामिषाण्यस्त्री तन्त्रादौ पिशिमाविषम्(?) ।त्रिषु वल्लूरमुत्तप्तं शष्कुली शुष्कमामिषम् ॥ ३४ ॥
2.3.34 · p. 222
अनुष्टुप्
अपि सा मिथुने वृक्का - बुक्कानौ बुक्कमग्रिमे ।सुरसं चाथ तद्वल्ल्यः पेश्यो नारीभगादिजाः ॥ ३५ ॥
2.3.35 · p. 222
अनुष्टुप्
दन्तमांसे तु वेला स्त्री पूयो दूष्यं नपुंसकम् ।वसा शुद्धामिषस्नेहोऽथान्तिमे मेद-मेदसी ॥ ३६ ॥
2.3.36 · p. 222
अनुष्टुप्
गौतमं मांसजं तेजःसंभवं च वपा च सा ।मस्तिष्कोऽस्त्री शिरःस्नेहो मस्तु[89b]लुङ्गक इत्यपि ॥ ३७ ॥
2.3.37 · p. 222
अनुष्टुप्metre not read in every line
गोर्द्द-गोदे अस्त्रि कुल्यं भारद्वाजं च मज्जकृत् ।मांसपित्तं च मेदोजं तेजोजं चास्थिसंभवम् ॥ ३८ ॥
2.3.38 · p. 222
अनुष्टुप्
कि(की)कसं श्वप्रियं सारः कर्करस्तरुणं तु तत् ।ग्रीवाकर्णघ्राणनेत्रकोशजं वलयं पुनः ॥ ३९ ॥
2.3.39 · p. 222
अनुष्टुप्
स्यात्पर्शुका पृष्ठपार्ष्णिपछलाकानिबन्धजम् ।नितम्बतालुशङ्खांसशिरोजान्वंसगण्डजे ॥ ४० ॥
2.3.40 · p. 222
अनुष्टुप्
कपालोऽस्त्री कर्परोऽस्त्रि निर्मूटं दन्तसंभवः ।रुचकं नलकं त्वन्यच्छङ्खोऽस्त्र्यास्थिललाटजः ॥शरीरास्थि करङ्कः स्यात्कङ्कालोऽस्त्र्यस्थिपञ्जरः ।भगालं नृकपाले स्यात्खट्वाङ्गं नरपञ्जरम् ॥शिरोस्थनि करोटिः स्त्री पृष्ठास्थि तु कशेरुका ॥ ४२ ॥
2.3.42 · p. 223
अनुष्टुप्
कशारुका न ना पार्श्वास्थनि स्तो वङ्क्रि-पर्शुके ।पार्श्वं तु पर्शुकावृन्दे पृष्ठग्रन्थौ गडुः पुमान् ॥ ४३ ॥
2.3.43 · p. 223
अनुष्टुप्
न क्लीबे मज्ज-मज्जे स्तः शुक्रकृत्कौशिकोऽस्थिजः ।अस्थि स्नेहोऽप्यथो शुक्र-रेत-रेतांसि मज्जजम् ॥ ४४ ॥
2.3.44 · p. 223
अनुष्टुप्
इ[90a]न्द्रियं बीजमानन्दप्रभवं किट्टवर्जितम् ।प्रधानं पौरुषं पुंस्त्वं गर्भकृद्धातुरित्यपि ॥ ४५ ॥
2.3.45 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बलं वीर्या न ना वध्रं त्वक्त्वचासृग्धरा शिपिः ।;l(5270}कृत्तिश्छविश्छादनी च त्वचो ना चर्म चाजिनम् ॥ ४६ ॥
2.3.46 · p. 223
अनुष्टुप्Latin letters: l
स्पर्शनं चाथ तद्भेदा भासिनी लोहिनी सिता ।ताम्रा च वेदिनी रोहिण्यपि मांसधरा तथा ॥ ४७ ॥
2.3.47 · p. 223
अनुष्टुप्
लसीका तु त्वग्रसोऽथ धमनिः स्त्री शिरा सिरा ।नाडी नाभिगृहा स्नायुः स्त्री स्नसा वस्नसापि सा ॥ ४८ ॥
2.3.48 · p. 223
अनुष्टुप्
कण्डरा*[तु]महास्नायुः किट्टं तु मलमस्त्रियाम् ।कफो रसमलः श्लेष्मा बलासः खटकूटवत् ॥ ४९ ॥
2.3.49 · p. 223
अनुष्टुप्
शिङ्घाणः स्नेहजन्माथ स्थानभेदात्स पञ्चधा ।रसनास्थो बोधकोऽसौ त्रिकस्थस्त्ववलम्बकः ॥ ५१ ॥
2.3.51 · p. 223
अनुष्टुप्
शिरःस्थस्तर्पकोऽथामाशयस्थः क्लेदकः कफः ।श्लेषकः संधिसंस्थानः श्लष्मलः श्लेष्मणः कफी ।त्रिष्वथासृङ्मलः पित्तमाग्नेयं पललज्वरः ॥ ५२ ॥
2.3.52 · p. 223
अनुष्टुप्
पाचकं पक्तृ पि[90b]त्तं स्यात्पक्वामाशयमध्यगम् ।हृद्गतं साधकं तत्त्वामाशयस्थायि रञ्जकम् ॥ ५३ ॥
2.3.53 · p. 224
अनुष्टुप्metre not read in every line
दृक्स्थमालोचकं त्वक्स्थं भ्राजकं ग्रहणी पुनः ।;l(5285}पाचकस्थाश्रयः सैव कला पित्तधरा स्मृता ॥ ५४ ॥
2.3.54 · p. 224
अनुष्टुप्Latin letters: l
पक्वाशयादधो नाभेरूर्ध्वं त्वाहृत्स्थलं भवेत् ।आमाशयो जरायुस्तु पुंसि गर्भाशयोऽपरा ॥ ५५ ॥
2.3.55 · p. 224
अनुष्टुप्
उल्बमस्त्री च कललं शुक्रार्तवघनेऽस्त्रियाम् ।मूत्रं वस्तिमलं किट्टोत्थ (?) मनुष्यजलं स्रवः ॥प्रस्रावश्च भवेन्मेहोऽथोच्चारावस्करौ समौ ।वर्चः पुरीषं लेण्डं च शकृच्छमलमन्तिमे ॥विष्ठा न स्त्री गूथ-मल-वर्चस्का विड्विषौ न ना ॥ ५८ ॥
2.3.58 · p. 224
अनुष्टुप्
मूत्रं विष्ठा वान्तमलौ स्वमला मांससंभवा ।दूषीका दूषिका दूषिः पिचण्डी च पिचाटकम् ॥ ५९ ॥
2.3.59 · p. 224
अनुष्टुप्
दृङ्मल कर्णगूथं तु ताक्मं पि ष इत्य ।जिह्वामलं तु कुलुकं लाला तु कफकूर्च्चिका ॥ ६० ॥
2.3.60 · p. 224
अनुष्टुप्metre not read in every line
सृणीका स्यन्दिनी[91a] वक्त्रासवोऽप्यस्यास्त्वतिस्रवः ।स्यात्प्रसेकोऽथ शिङ्घाणकुरण्डो नासिकामलम् ॥ ६१ ॥
2.3.61 · p. 224
अनुष्टुप्metre not read in every line
पिप्पिकं स्याद्दन्तमलं पुष्पिका लिङ्गजं मलम् ।स्वेदो मेदोमलोऽथास्थिमलौ स्तो नख-रोमणी ॥ ६२ ॥
2.3.62 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्द (wrong syllable)
स्नेहोऽक्षित्वग्विशां मज्जो मलोऽथौजश्च रेतसः ।शुक्रशोणितसंयोगे प्रकृतिर्दोषभूयजा ॥ ६३ ॥
2.3.63 · p. 224
अनुष्टुप्
वेषोऽस्त्री वेश आकल्पो नेपथ्यं प्रतिकर्म तु ।प्रसाधनं मण्डनं च भूषितस्तु प्रसाधितः ॥ ६४ ॥
2.3.64 · p. 224
अनुष्टुप्
विभूषितोऽलंकरिष्णुरलंकर्ताप्यलंकृतः ।परिभूषित-विभ्राजौ रोचिष्णुर्मण्डितस्तथा ॥ ६५ ॥
2.3.65 · p. 224
अनुष्टुप्
भ्राजिष्णुर्भूषिताद्याः स्युरेकादश विशेष्यगाः ।अलंकारः परिष्कारो मण्डयन्तोऽप्यलंक्रिया ॥ ६६ ॥
2.3.66 · p. 224
अनुष्टुप्
मण्डनाभरणे न स्त्री भूषणं तद्धिरण्मयम् ।हैमं च भेद्यवच्चूडामणिस्तु स्याच्छिरोमणिः ॥ ६७ ॥
2.3.67 · p. 224
अनुष्टुप्
न स्त्री किरीट-कोटीरोष्णीषाणि मुकुटं तथा ।मकुटं नरि मौलिः स्यात्पत्रपाश्या ललाटिका ॥[91b]बालपाश्या पारितथ्या शङ्खचर्चापि सा मता ।कर्णपूरोऽवतंसोऽस्त्री कर्णिका कर्णभूषणम् ॥ ६९ ॥
2.3.69 · p. 224
अनुष्टुप्
ताटङ्को न स्त्रियां कर्णदर्पणश्च निगद्यते ।कुण्डलोऽस्त्री कर्णवेष्टो वाली स्यात्कर्णपृष्ठगा ॥उत्क्षिप्तिका तु कर्णान्दूः स्त्रियां ग्रैवेयकं पुनः ।ताडपत्रं दन्तपत्रमुभयं च समार्थकम् ॥स्याद्ग्रैवेयं कण्ठभूषा लम्बनं तु ललन्तिका ॥ ७१ ॥
2.3.71 · p. 224
अनुष्टुप्
लम्बमाना सा तु हैमी भवेत्प्रालम्बिका स्त्रियाम् ।कन्धरातोरणं कण्ठी स्यादुरःसूत्रिका पुनः ॥ ७२ ॥
2.3.72 · p. 224
अनुष्टुप्
मौक्तिद्वंद्वे तु हारः स्यान्मुक्तास्रङ्मौक्तिकावली ।मुक्तालता भवेन्मुक्ता प्रालम्बो मध्यगोऽस्य च ॥ ७३ ॥
2.3.73 · p. 224
अनुष्टुप्
मणिः स्यात्तरलो मध्यनायकोऽथ सरोलता ।सरिका यष्टिका देवच्छन्दस्तु शतयष्टिकः ॥ ७४ ॥
2.3.74 · p. 224
अनुष्टुप्
इन्द्रच्छन्दोऽष्टोत्तरी स्याद्यष्टीनां च सहस्रतः ।तदर्द्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ ७५ ॥
2.3.75 · p. 224
अनुष्टुप्
भवेद्रश्मिकलापोऽर्द्धहारोऽथ द्वादशोन्मितैः ।[92a] तैरर्द्धमाणवोऽथार्द्धगुत्सोऽस्माद्द्विगुणैः सरैः ॥ ७५ ॥
2.3.75 · p. 224
अनुष्टुप्
गुत्सः सप्ततियष्टिः स्यात्क्वचिद्द्वात्रिंशता सरैः ।इतोऽर्द्धतो माणवको मन्दरोऽपि तदर्द्धतः ॥ ७६ ॥
2.3.76 · p. 226
अनुष्टुप्
तद्वद्गोस्तन-गोपुच्छावेकावल्येकयष्टिका ।सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ ७७ ॥
2.3.77 · p. 226
अनुष्टुप्
बाहुभूषा खटूः केयूराङ्गदे चाथ न स्त्रियाम् ।षडमी स्युः पारिहार्यः कटको वलयोऽपि च ॥ ७८ ॥
2.3.78 · p. 226
अनुष्टुप्
आवापः कङ्कणश्चैव बालकः करभूषणम् ।हस्तसूत्रं प्रतिसरस्त्रिषु रात्नं तु पुष्पकम् ॥ ७९ ॥
2.3.79 · p. 226
अनुष्टुप्
अङ्गुलीयं तूर्मिका स्याद्वालकोऽपि च न स्त्रियाम् ।साक्षराङ्गुलिर्मुद्रा सा स्थासको हस्तबिम्बकः ॥ ८० ॥
2.3.80 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लि (wrong syllable)
काञ्चिः काञ्ची सिञ्जिनी च रशना रसनापि च ।सप्तकी च कलापोऽस्त्री क्लीबे सारसनं तथा ॥ ८१ ॥
2.3.81 · p. 226
अनुष्टुप्
शृङ्खला त्रिषु पुंस्कट्यामथ पादाङ्गदं भवेत् ।सिञ्जिनी स्यात्तुलाकोटिः स्यात्पादकटकोऽपि च ॥ ८२ ॥
2.3.82 · p. 226
अनुष्टुप्
मञ्जीरो हंसको न स्त्री नूपुरश्च तथान्दुकः ।[92b] त्वक्फल-कृमि-रोमाणि चतस्रो वस्त्रयोनयः ॥ ८३ ॥
2.3.83 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
क्षौमादि त्वङ्मयं वाल्कं क्षौममस्त्री दुकूलकम् ।दुगूलकं च चरमे कार्पासं बादरं फलात् ॥ ८४ ॥
2.3.84 · p. 226
अनुष्टुप्
कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ।त्रिषु कार्पासादयोऽथ चीर-वासोंशुकानि च ॥ ८५ ॥
2.3.85 · p. 226
अनुष्टुप्
आच्छादनं च वसनं चेलं सिक् नेत्रमस्त्रियाम् ।प्रोत-प्राच्छाद-सिचया वस्त्रं शाटकमम्बरम् ॥ ८६ ॥
2.3.86 · p. 226
अनुष्टुप्
अस्त्रीण्यथो निष्प्रवाणि तन्त्रकं नाहतं नवम् ।पटच्चरं जीर्णवस्त्रं त्रिष्वथो अञ्चलोऽस्त्रियाम् ॥ ८७ ॥
2.3.87 · p. 226
अनुष्टुप्
दशा भूम्नि द्वयोश्चाथ वर्तिर्वस्तिर्द्विलिङ्गकः ।दशा तूली जवनिका शाणी सच्छिद्रवाससि ।नक्तकः कर्पटोऽस्त्री स्यात्प्रोतं च पटलं त्रिषु ॥ ८८ ॥
2.3.88 · p. 226
अनुष्टुप्
गुणस्तन्तुः सूत्रमस्त्री तत्तु कार्पासजं पिचोः ।पिचव्यं त्रिषु तत्साधु धौतकौशेयकं पुनः ॥ ८९ ॥
2.3.89 · p. 227
अनुष्टुप्
पत्रोर्णं बहुमूल्यं तु तन्महाधनमन्यवत् ।तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयो[93a]र्युगम् ॥ ९० ॥
2.3.90 · p. 227
अनुष्टुप्metre not read in every line
पटि त्रिषु सुचेलो ना वराशिः स्थूलशाटकः ।स्त्रियां बृहतिका वस्त्रे महीयसि निगद्यते ।कुथः कुटार ऊर्णायुः शालूरो रल्लकाविकौ ॥ ९१ ॥
2.3.91 · p. 227
अनुष्टुप्
औरभ्रः कम्बलो द्वंद्वे परिस्तोमास्तरौ तथा ।वर्णः प्रवेणिर्नवता सूची-वान-कुथास्त्रिषु ॥ ९२ ॥
2.3.92 · p. 227
अनुष्टुप्
निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदः ।अधोंशुकं निवसनमुपसंव्यानमित्यपि ॥ ९३ ॥
2.3.93 · p. 227
अनुष्टुप्
परिधानं चान्तरीयं * * * * * * * * ।संव्यानमुत्तरासङ्गो भवेद्वृहतिका स्त्रियाम् ॥ ९४ ॥
2.3.94 · p. 227
अनुष्टुप्metre not read in every line
प्रावारश्चाथ नीशारो हिमानिलनिवारणम् ।नीवी त्वधोंशुकग्रन्थिरुच्चयोऽथ वरस्त्रियाः ॥ ९५ ॥
2.3.95 · p. 227
अनुष्टुप्
अर्धोरुकेऽवरे चण्डातकोऽस्त्री चलनश्च सः ।अन्यस्याश्चलनी क्षिप्रोढाया आनन्दवस्त्रकम् ॥ ९६ ॥
2.3.96 · p. 227
अनुष्टुप्
घर्घरी तु कुमारीणां शाटी चोटी चटी च सा ।कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ।कच्छापटोऽस्त्री कौपीनमथ वक्षोम्बरे भवेत् ।चोलोऽङ्गिका कञ्चुलिका कूर्पा[93b]सोऽस्त्री च कञ्चुकः ॥ ९८ ॥
2.3.98 · p. 227
अनुष्टुप्metre not read in every line
बीटीका चोलकग्रन्थिरुष्णीषं पुनरस्त्रियाम् ।तिरीटं च शिरोवेष्टः शिरोवेष्टनमित्यपि ॥ ९९ ॥
2.3.99 · p. 227
अनुष्टुप्
निचोलो वारबाणेऽस्त्री कार्पासस्यार्द्धचोलकः ।जङ्घावस्त्रं मङ्क्षणं स्यात्कन्था स्याद्यतिवाससि ।चीवरं भिक्षुसंघाटी निवीतं प्रावृतं त्रिषु ॥ ३० ॥
2.3.30 · p. 228
अनुष्टुप्
गोमूत्रवर्णं वस्त्रं यत्तद्गोमूत्रकमुच्यते ।स चीवरायमाणः स्यादर्जयेच्चीवराणि यः ।स वस्नयंस्तु वस्त्राणि यः समाच्छादयेत्त्रिषु ॥ ३०० ॥
2.3.300 · p. 228
अनुष्टुप्
स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ।सर्वाङ्गीणं तु सर्वाङ्गव्यापि वस्त्रादि यद्भवेत् ॥ १ ॥
2.3.1 · p. 228
अनुष्टुप्
अस्त्री वितानमुल्लोचः कदर्कः खजकश्च सः ।चन्द्रोदयश्चाथ भवेद्दूष्यं वस्त्रगृहं स्थलम् ॥ २ ॥
2.3.2 · p. 228
अनुष्टुप्
अस्त्रियां तुबरं प्रोताच्छादनं कुटरुः पुमान् ।केणिका स्यात्पटकुटी भवेद्गुणलयन्यपि ॥ ३ ॥
2.3.3 · p. 228
अनुष्टुप्
अवस्तारो जवनिका नीरङ्गिन्यवगुण्ठिका ।अपटी प्रतिसीरा च स्यात्ति[94a]रस्करिणी च सा ॥ ४ ॥
2.3.4 · p. 228
अनुष्टुप्metre not read in every line
प्रतिशीरा काण्डपटो गोणीकण्ठालिकं समे ।जालिकाल्पा तु सा गोणीतरी गोणितरी तथा ।प्रसाधनं तु चरमे परिकर्माङ्गसंस्क्रिया ॥ ५ ॥
2.3.5 · p. 228
अनुष्टुप्metre not read in every line
मृजा मार्ष्टिर्मार्जना स्यादभ्यङ्गस्तैललेपनम् ।मूर्धतैलं शिरोबस्ति पिच्छ( ष्टा ? )भ्यङ्गैः ससिञ्चनैः ॥ ६ ॥
2.3.6 · p. 228
अनुष्टुप्
उद्वर्त्तनोत्सादने द्वे तत्रोच्छादनमित्यपि ।जिल्यु (?) द्वर्त्तिर्मल पिण्डमाप्लावस्त्वाप्लवो नरि ॥ ७ ॥
2.3.7 · p. 228
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
भवेदभिषवः स्नानं मज्जनं च समार्थके ।जेन्ताकस्तु भवेत्सेको य उष्णोदकनिर्मितः ॥विलेपनं त्वङ्गरागो वर्णको न स्त्रियामथ ।गात्रानुलेपनी वर्तीरनुबोधः प्रबोधनम् ॥ ९ ॥
2.3.9 · p. 228
अनुष्टुप्
विच्छित्तिः स्त्रीसमालम्भश्चर्चा चर्चिक्यमित्यपि ।पत्रलेखा पत्रभङ्गिर्मकरी पत्रवल्लिका ॥ १० ॥
2.3.10 · p. 229
अनुष्टुप्
पत्राङ्गुलिश्च माढिश्च मालुरस्त्री विशेषकः ।तमालपत्रं पुण्ड्रश्च चित्रकं तिलकोऽस्त्रियाम् ॥ ११ ॥
2.3.11 · p. 229
अनुष्टुप्
कश्मीरजन्म घुसृणं वर्णं बाह्लीक - बाह्लिके ।कालेयं[94b] जागुडं चाग्निशिखं च कुसुमान्त(त्म)कम् ॥ १२ ॥
2.3.12 · p. 229
अनुष्टुप्metre not read in every line
केसरं किसरं वेरं पीतकं पीतनं वरम् ।असृग्रक्ताम्बरं न स्त्री कुङ्कुमं हरिचन्दनम् ॥ १३ ॥
2.3.13 · p. 229
अनुष्टुप्
संकोचं पिशुनं धीरं दीपनं रक्तचन्दनम् ।कस्तूरिका गन्धधूलिर्मृगनाभिर्लताण्डजा ॥ १४ ॥
2.3.14 · p. 229
अनुष्टुप्