कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर्णवेष्ट

karṇaveṣṭaपुं · masc.

In 4 kośas: 3 synonym verses, 1 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.256 · p. 48
पारिपाश्या पारितथ्या कर्णिका कर्णभूषणम् ।कर्णादर्शः कर्णवेष्टस्ताटङ्कः पुंसि कुण्डलम् ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 224
ताटङ्को न स्त्रियां कर्णदर्पणश्च निगद्यते ।कुण्डलोऽस्त्री कर्णवेष्टो वाली स्यात्कर्णपृष्ठगा ॥उत्क्षिप्तिका तु कर्णान्दूः स्त्रियां ग्रैवेयकं पुनः ।ताडपत्रं दन्तपत्रमुभयं च समार्थकम् ॥स्याद्ग्रैवेयं कण्ठभूषा लम्बनं तु ललन्तिका ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1083 · p. 134
श्रवणं तु श्रवः श्रोत्रं कर्णः शब्दग्रहः श्रुतिः ।शष्कुली कर्णवेष्टः स्यात् कर्णजाहस्तदन्तिकम् ॥ १०८३ ॥
अनुष्टुप्
genderपुंmasc.

कर्णवेष्ट as a meaning in nānārtha verses