कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर्ण

karṇaपुं · masc.

In 20 kośas: 34 synonym verses, 8 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.298 · p. 25
भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः ।शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः ॥ ५७३ ॥कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.711 · p. 30
पाञ्चाली द्रौपदी कृष्णा सैरंध्री नित्ययौवना ॥ ७१० ॥वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् ।राधासुतोऽर्कतनयः कालपृष्ठम् तु तद्धनुः ॥ ७११ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.45 · p. 2
चिहुरा अपि केशाः स्युः कर्णः शब्दग्रहोऽपि च ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.94
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.516 · p. 59
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात द्विसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 2.3 · p. 200
भुज-दृष्टि-पाद-कर्ण-स्तनसंख्या रामलक्ष्मणौ शृङ्गम् ।गजदन्तौ प्रीति-रती गङ्गागौर्यौ विनायकस्कन्दौ ॥ ३ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.144 · p. 36
पुंसि कर्णो महानादो वेष्टेस्य कर्णशष्कुली ।तयोः प्रान्तस्तु धारा स्त्री तन्मूले शिलकं च षण् ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.36 · p. 93
दुर्द्यूतवेदी कर्णस्तु चम्पाधिपतिरङ्गराट् ।राधार्कपर्यायसुतो वसुषेणश्च सूतजः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.112 · p. 392
गोपालो ग्रामणीर्मायुर्घण्टाकर्णकरन्धमौ ।कपाली कृतकी लिम्पः स्थूणः कर्णविकर्णकौ ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.25 · p. 419
शोकप्रकाशकाश्चान्ये क्रियाङ्गेषु प्रकीर्तिताः ।केदारकर्णौ स्थानाख्या तथा मालवकादयः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.72 · p. 107
पोलिन्दा मध्यदण्डाः स्युः कूपको[68b] गुणवृक्षकः ।कर्ण-नौरथ-केपाता अरित्रं कोटिपात्रकम् ॥ ७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 219
पश्चान्मन्ये कलम्ब्यौ च व्युपो(?) स्त्रि मुखमाननम् ।चुब्रमास्यं च वदनं लपनं वक्त्रमस्त्रियाम् ॥श्म च तुण्डं तत्तु कर्णालंकारेण मनोहरम् ।स्यात्कार्णावेष्टिकं भालोऽस्त्र्यलीकं निटिलालिके ॥ललाटं स्त्री तु गोधिः स्यात्त्रिपताकं त्रिरेखकम् ।कर्णः शब्दग्रहः श्रुन्ना स्त्री श्रुतिः श्रवणोऽस्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 246
कर्णो वैकर्तनोऽङ्गेशो राधेयश्च वृषापि सः ।कानीनोऽप्यस्य चापस्तु कालपृष्ठमुदीरितम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.16 · p. 95
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderपुंmasc.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 98 · p. 49
वक्त्रं लपनमास्यं च वदनं मुखमाननम् ।श्रवणं श्रोत्रं श्रवश्चापि कर्णं चैव श्रुतिं विदुः ॥ ९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.238 · p. 130
ललाटेऽमिकभाले तु गोध्यलीके समे उभे ।श्रोत्रं कर्णः श्रुतिः शब्दाधिष्ठानं श्रवसा सह ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.340 · p. 144
सैरन्ध्री वेदिजा कृष्णा कर्णः सूर्यसुतोऽङ्गराट् ।चम्पाधिपः सूतपुत्रः कालपृष्ठं तु तद्धनुः ॥ ३४० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.81 · p. 6
जूटीबन्धः केशगुच्छो धम्मिलः कबरी कचा ।कर्णः श्रवः श्रुतिः श्रोत्रं श्रवणं शाब्दिकेन्द्रियम् ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.29 · p. 22
कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः ।नक्रं तु नासिका नासा घ्राणं घोणा च शिङ्घिनी ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.918 · p. 140
कर्णः श्रोत्रं महानादः श्रवणं च श्रुतिः श्रवः ।शब्दध्वनिग्रहौ चैव शब्दाधिष्ठानमित्यपि ॥ ९१८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1157 · p. 180
राधेयश्चाङ्गराट् चैव कर्णश्चम्पाधिपस्तथा ॥ ११५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1471 · p. 234
कर्णश्च केनिपातश्च कोटिपात्रस्तथैव च ।अरित्रं चेति नौकायाः सुकानः कथ्यते बुधैः ॥ १४७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.331 · p. 23
मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके ।बुद्धीन्द्रियमिति प्राहुः शब्दकोषविचक्षणाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.319 · p. 103
कर्णः शब्दग्रहः श्रोत्रं स्त्री श्रूतिः श्रवणं श्रवः ।शब्दाधिष्ठानं श्रौतञ्च पैञ्जुषः श्रोत इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.150 · p. 121
कर्णे राधेयचाम्पेशवसुषेणाऽर्कनन्दनाः ।अङ्गाधिपः सुतपुत्रो घटोत्कचान्तकोऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.328 · p. 44
कर्णं पृष्ठस्थितारित्रमुडुपं प्लवकोलकौ ।यानपात्रं प्रवहणं पोतो भेदे तरण्डकः ॥ ३२८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1083 · p. 134
श्रवणं तु श्रवः श्रोत्रं कर्णः शब्दग्रहः श्रुतिः ।शष्कुली कर्णवेष्टः स्यात् कर्णजाहस्तदन्तिकम् ॥ १०८३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.31 · p. 53
कटाक्षकाक्षौ काकुस्तु जिह्वाऽथ प्रतिजिह्विका ।सुधास्रवा च कर्णस्तु श्रोतः क्लीबे ध्वनिग्रहः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.19 · p. 64
घटोत्कचान्तकः कर्णश्चम्पेशः सूतपुत्रकः ।द्रोणस्तु गुरुराचार्योऽश्वत्थामा तु कृपीसुतः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.59 · p. 69
कर्णः कर्णविहीनः स्यात् पण्डस्तु च्छिन्नपुच्छकः ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.17 · p. 155
कर्णं पृष्ठस्थितारित्रं नौशिरो मंगमस्त्रियाम् ।नावो दण्डः क्षेपणी स्त्री कूपस्तु गुणवृक्षकः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.92 · p. 180
नासाग्रे दृष्टिबन्धोऽथ शिंघाणो नासिकामलः ।पिण्डूषः कर्णजमलः कर्णः शब्दग्रहः श्रवः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.2 · p. 48
घृणा कृपा जुगुप्सा च तृष्णा लिप्सापिपासयोः ।कर्णौ श्रवणराधेयावुष्णौ ग्रीष्मातपौ स्मृतौ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.8 · p. 194
क्षारे पुंस्यथ कर्ण आदिमगतो राधासुते च श्रुतौचूर्णस्त्विन्दुपलाशिनोरथ मखे स्वर्णं तथा हेम्नि च ।********** यशःस्तुत्योः कुथायां गुणेवर्णोऽस्त्री तु विलेपनाक्षरभिदा रूपे द्विमुक्कुङ्कुमे ॥ ८ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.132 · p. 54
निषादाद्द्रमिडीजाते कर्णस्तु श्रवणे पुमान् ।नावः पृष्ठस्थितारित्रे राधातनयभूभुजि ॥ १३२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.133 · p. 54
क्षेत्रभेदेऽप्यथ त्रि स्थाच्छ्रोत्रहीनपशावपि ।क्षोदिष्ठेऽप्यथ कर्णी स्त्री पशूनां बन्धनार्थके ॥ १३३ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.99 · p. 174
कर्णोऽर्कजे श्रुतौ काञ्ची रक्तिका मेखला पुरी ।काण्डो नालेऽधमे बाणे स्तम्बे वर्गे जलेऽपि च ॥ ९९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.4 · p. 207
ऊर्णा स्यादन्तरावर्ते भ्रुसोर्मेषादिलोमनि ।कर्णः स्यात्तु पृथापुत्रे श्रवणे काञ्चनी(?) त्रिषु(?) ॥क्षण पर्वण्युत्सवे च कालमानेऽपि न द्वयोः ।कणा तु जीवके चाल्पपिप्पलीमक्षिकासु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1886 · p. 230
कर्णः श्रोत्रे रविसुतेऽरित्रभेदे नियामके ।लूनश्रोत्रवृषे कल्यस्त्रिषु दक्षे निरामये ॥ १८८६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.124 · p. 133
पिप्पली द्रौपदी कृष्णा हस्तसूत्रेपि कङ्कणम् ।श्रुतिराधेययोः कर्णः पिप्पल्यां जीरके कणा ॥ १२४ ॥
अनुष्टुप्

कर्ण as a meaning in nānārtha verses