श्रोत्र
śrotraक्ली · neut.In 16 kośas: 23 synonym verses, 8 as a meaning of another word.
भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः ।शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः ॥ ५७३ ॥कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderक्लीneut.
स्त्री गोधिरलिकालीकललाटानि श्रुतिः स्त्रियाम् ।पिज्जूषश्रवणावस्त्री क्लीबे श्रोत्रं श्रवः पुनः ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दाधिष्ठानपर्यायो ध्वनिपर्यायतो ग्रहः ।श्रोत्रं स्यादपि च क्लीबे श्रोतः श्रवसमित्यपि ॥ १४३ ॥
अनुष्टुप्
genderक्लीneut.
संस्कारकर्ता स गुरुः श्रोत्रियच्छान्दसौ समौ ।श्रोत्रं क्लीब उपाध्यायोऽध्यापको ब्राह्मणायनः ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
हृषीकं त्वक्षं विषयस्रोतः करणमिन्द्रियम् ।खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
चित्तं नेत्रं रसना श्रोत्रं त्वग्गन्धज्ञाधीन्द्रियं चैतत् ।पाणिः पादः पायुरुपस्थो वागिति कर्मेन्द्रियगण उक्तः ॥ २५ ॥
metre not recognised
genderक्लीneut.
करणं मूर्तिमत्क्षेत्रं गात्रं संहननं वपुः ।श्रोत्रं वर्षाङ्गुबेरं च पुद्गलं च कलेवरम् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दाधिष्ठान-पैञ्जूष-श्रवः-श्रोत्र-महारवम् ।पालिस्तु कर्णलतिका वेष्टनं कर्णशष्कुली ।कर्णमूलं कर्णजाहं यन्मूलं पादजाहकम् ॥ ६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वक्त्रं लपनमास्यं च वदनं मुखमाननम् ।श्रवणं श्रोत्रं श्रवश्चापि कर्णं चैव श्रुतिं विदुः ॥ ९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
ललाटेऽमिकभाले तु गोध्यलीके समे उभे ।श्रोत्रं कर्णः श्रुतिः शब्दाधिष्ठानं श्रवसा सह ॥ २३८ ॥
अनुष्टुप्
genderक्लीneut.
जूटीबन्धः केशगुच्छो धम्मिलः कबरी कचा ।कर्णः श्रवः श्रुतिः श्रोत्रं श्रवणं शाब्दिकेन्द्रियम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः ।नक्रं तु नासिका नासा घ्राणं घोणा च शिङ्घिनी ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
कर्णः श्रोत्रं महानादः श्रवणं च श्रुतिः श्रवः ।शब्दध्वनिग्रहौ चैव शब्दाधिष्ठानमित्यपि ॥ ९१८ ॥
अनुष्टुप्
genderक्लीneut.
कर्णः शब्दग्रहः श्रोत्रं स्त्री श्रूतिः श्रवणं श्रवः ।शब्दाधिष्ठानं श्रौतञ्च पैञ्जुषः श्रोत इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
अथ श्रोत्रियता श्रोत्रं द्वयं श्रोत्रियधर्मके ।यजनं याजनं दानाध्ययनञ्च प्रतिग्रहः ॥
अनुष्टुप्
genderक्लीneut.
कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् ।नेत्रेक्ष्यऽक्ष्णं दृशि-दृशे दृग्लोचन-विलोचने ॥ १५८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
श्रवणं तु श्रवः श्रोत्रं कर्णः शब्दग्रहः श्रुतिः ।शष्कुली कर्णवेष्टः स्यात् कर्णजाहस्तदन्तिकम् ॥ १०८३ ॥
अनुष्टुप्
genderक्लीneut.
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।उटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
अमरेशो दक्षकर्ण उग्रश्चेति तमोहनः ।विश्वकर्मा तथा श्रोत्रं बभ्रुः कालः प्रकीर्त्तितः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
ऊ-रर्घीशो महेशश्च ऊकारः श्रोत्रमेव च ।प्रजेशः सर्वश्रोत्रश्च ऊकारो नवभैरवः ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्व (wrong syllable)
genderक्लीneut.
पैण्डूषोऽस्त्री श्रुतिः श्रोत्रं श्रोतश्च श्रवणं श्रवः ।पालिस्तु कर्णलतिका वेष्टनं कर्णशष्कुली ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
श्रोत्र as a meaning in nānārtha verses
- कोषकल्पतरु श्रवणयाम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ Koṣakalpataru 6.15.26
- कोषकल्पतरु श्रुतिश्रुतिस्तु वेदे निनदे ग्रहे च श्रोत्रे च वार्तासु च संप्रदिष्टा । रतिः स्मरस्त्रीसुरतानुरागे- ष्वथानुभूतार्थमतिः स्मृतिः स्यात् ॥ ५० ॥ Koṣakalpataru 6.16.50
- कोषकल्पतरु मात्रग्रन्थे निदेशे च वदन्ति शास्त्रं मात्रं तु कार्त्स्न्ये च धृतौ द्वयोनम् । स्त्री त्वक्षरस्यावयवे तथाल्पे परिच्छदश्रोत्रविभूषयोश्च ॥ ३२ ॥ Koṣakalpataru 6.27.32
- नानार्थार्णवसंक्षेप श्रुतिश्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च । गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ १०९ ॥ Nānārthārṇavasaṃkṣepa 2.1.109
- नानार्थार्णवसंक्षेप श्रवस्शोषे गदे श्रवस्त्वन्ने यशः श्रोत्रबलेषु च । धने शास्त्रं तु विद्यायामाज्ञायां श्वात्रवाक् पुनः ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 2.3.63
- नानार्थार्णवसंक्षेप श्रवणश्रवणं स्याच्छृणोत्यर्थे श्रोत्रे चाथ नृलिङ्गकः । विष्णुदेवतनक्षत्रे तद्युक्ते कालमात्रके ॥ १७८९ ॥ Nānārthārṇavasaṃkṣepa 4.1789
- शब्दरत्नाकर कर्णकर्णः श्रोत्रे रविसुतेऽरित्रभेदे नियामके । लूनश्रोत्रवृषे कल्यस्त्रिषु दक्षे निरामये ॥ १८८६ ॥ Śabdaratnākara 4.1.1886
- तन्त्राभिधान णद्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधि(ध)नी मता । त्रिनेत्रो मानुषी व्योम दक्षपादाङ्गुलेर्न(र्मु)खम् । राघवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥ १०१ ॥ Tantrābhidhāna 2.32.101