कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर्णिका

karṇikāस्त्री · fem.

In 17 kośas: 34 synonym verses, 10 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.655 · p. 28
वालपाश्या पारितथ्या कर्णिका कर्णभूषणम् ॥ ६५५ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1165 · p. 45
सौगन्धिकं तु कह्लारं बीजकोशो वराटकः ।कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ॥ ११६५ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1224 · p. 47
अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् ॥ १२२४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.66
श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका ।जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.103
कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.219 · p. 27
कराग्रं पुष्करं प्रोक्तमङ्गुलिः कर्णिका मता ।पेचकः पुच्छमूलं तु पद्मं स्याद्विन्दुजालकम् ॥ २१९ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.556 · p. 63
ताडङ्कस्ताडपत्त्रं स्यात्कुण्डलं कर्णवेष्टनम् ।कर्णालङ्करणं सर्वं कर्णिकेत्यभिधीयते ॥ ५५६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.682 · p. 78
कर्णिका बीजकोशः स्यात्किञ्जल्कं केसरं स्मृतम् ।मृणालं स्याद्विसं कन्दो विसिनी नलिनी भवेत् ॥ ६८२ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.118 · p. 18
किञ्जल्के त्वकरुश्च स्यात्केसरः परिकीर्तितः ।पद्मोदरो वराटः स्याद्बिसकोशस्तु कर्णिका ॥ ११८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.256 · p. 48
पारिपाश्या पारितथ्या कर्णिका कर्णभूषणम् ।कर्णादर्शः कर्णवेष्टस्ताटङ्कः पुंसि कुण्डलम् ॥ २५६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.164 · p. 107
अस्याग्रं पुष्करं क्लीबेऽङ्गुलं स्यात्तस्य कर्णिका ।विषाणावस्त्रियां पुंसि दन्तौ ना स्कन्ध आसनम् ॥ १६४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.161 · p. 266
भद्रोग्रगन्धा सैवान्याऽप्यग्निमन्थः पुमानयम् ।अरण्यकेतुस्तर्कारी कर्णिका विजया जया ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.11 · p. 111
सौगन्धिक-कह्लारे हल्लकमपि रक्तसंध्यकं तुल्यम् ।स्त्री कर्णिका न तु पुमान्नाजा(न्नब्ज?)नालं सरोजस्य ॥ ११ ॥
आर्या
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.13 · p. 112
वराटको बीजकोशः कर्णिका केसरः पुनः ।न स्त्री केशर-किञ्जल्कौ दलं संवर्तिका नवम् ।पद्माक्षं पद्मबीजं स्यात्का[71b]लोड्यं(?) पद्मकर्कटी ।जलालुकं पद्ममूलं शृङ्गाटं जलकण्टकः ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 160
सिन्दूरी तु त्रिसंध्या स्याद्रक्तपुष्पा सुकोमला ।तरणी रामतरणी कर्णिका चारुकेसरा ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 204
पोटा चेटा तथा कुट्टहारिका कुट्टिनी पुनः ।चुण्टी चुन्दी शम्भली स्यात्कर्णिका माधवी च सा ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.69 · p. 224
न स्त्री किरीट-कोटीरोष्णीषाणि मुकुटं तथा ।मकुटं नरि मौलिः स्यात्पत्रपाश्या ललाटिका ॥[91b]बालपाश्या पारितथ्या शङ्खचर्चापि सा मता ।कर्णपूरोऽवतंसोऽस्त्री कर्णिका कर्णभूषणम् ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.200 · p. 253
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.33 · p. 20
त्रिदिवोद्भवा च पृथ्वीका कर्णिका त्रिपुटा पुटा ।कर्पूरे स्याद्घनसारो हिमाह्वो हिमवालुका ॥ ३३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 न (wrong syllable)
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.244 · p. 134
कुमार्यां कर्णिका चारुकेसरा भृङ्गसम्मता ।तरणी रामतरणी गन्धाढ्या कन्यका सहा ॥ २४४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.84 · p. 62
कैरवं गर्दभाख्यं च पद्मनाले च कर्णिका ।वराटको बी[35]जकोशो मृणाले बिसतन्तुले ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.306 · p. 139
पारितथ्या बालपाश्या कर्णिका कर्णभूषणम् ।ताडपत्रे तु ताडङ्कः कर्णवेष्टककुण्डले ॥ ३०६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.161 · p. 46
कर्णपत्रे कर्णिका स्यात्कुण्डले कुण्डमिष्यते ।प्रालम्बिका तु ग्रैवेये ललन्ती च ललन्तिका ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1064 · p. 164
कथ्यते कर्णिका किल कोविदैः कर्णभूषणम् ॥ १०६४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.212 · p. 347
कर्णिका बीजकोशश्च वराटकोऽपि कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2215 · p. 363
शुण्डाग्रं पुष्करं ज्ञेयं कर्णिका तु गजाङ्गुलिः ।विषाणौ गजदन्तौ स्तां स्कन्ध आसनमुच्यते ॥ २२१५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.339 · p. 104
ललाटिका पत्रपाथ्या स्वर्णादि (भाल)भूषणे ।तालपत्रं कर्णिका च तथा ताडङ्किकापि च ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (syllables merged)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1160 · p. 143
कोटीरो ना किरीटोऽस्त्री मौलिर्ना मकुटं न ना ।कर्णिका कुण्डलं तालपत्रं ताटङ्कमस्त्रियाम् ॥ ११६० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1538 · p. 186
जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ।पाशी तु कर्णिका रज्जूर्वरत्रा तन्त्रिका वटी ॥ १५३८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.71 · p. 109
स्थूलहस्तः फलीहस्तः पृथुहस्त इति क्रमात् ।उपर्येते गजांगुल्याः प्रदेशाःसा तु कर्णिका ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.64 · p. 128
पलालोऽस्त्री कर्णिका स्त्री पूलोऽस्त्री तृणपञ्चिका ।कडङ्गरो बुसोऽथ स्यात् कणिशं धान्यमञ्जरी ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.30 · p. 138
रज्जुःसा बन्धनी तन्त्री त्वल्पा पाशस्तु कर्णिका ।गुणो वराटो रज्जुः स्त्री न ना शुल्बा वटी त्रयी ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.46 · p. 157
कर्णिका कर्णिकं चाथ पद्माक्षं पद्मकर्कटी ।हठः कुंभी वारिपर्णी किंचोलस्त्वंगलोड्यकः ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.133 · p. 169
अलंकारस्त्वाभरणं भूषणं मण्डनं पुनः ।विभूषणं परिष्कारः कर्णिका कर्णभूषणम् ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.16
कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ।वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कश्लोकः Dharaṇikośa 1.3.13 · p. 16
कर्णिकां श्रवणभूषणमाहुर्हस्तिहस्तशिखरमङ्गुलिकां च ।बीजकोषं निरूहस्य कर्णिकां [कर्णिका] क्रमुक्रः वृक्षफलं च ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.10 · p. 151
काञ्चीरसालारसनासु सद्भिःकोषप्रवीणै रसिकोपदिष्टा ।स्यात्कर्णिका कर्णविभूषणेभ-शुण्डाग्रपाथोरुहबीजकोशे ॥ १० ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.16 · p. 2
करिहस्ताङ्गुलौ पद्मबीजकोश्या च भूषणे ।कर्णस्य मध्यमाङ्गुल्यामपि कश्चिदभाषत ॥ १६ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.398 · p. 81
मक्षिकायां कषीका स्यात् कर्णिका तु वनस्पतेः ।बीजे स्त्री स्यात् तथा भिन्नतण्डुलावयवेऽत्र तु ॥ ३९८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.43 · p. 179
कलङ्कोऽङ्केऽपवादे स्यात् कालायसमलेऽपि च ।कर्णिका करिहस्ताग्रे हस्तमध्याङ्गुलावपि ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.44 · p. 179
गुवाकादिछटांशे च पद्मान्तःकर्णभूषणे ।कर्णिका स्यादग्निमन्थे यात्यन्तसुखवस्तुनि ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.136 · p. 185
वसुकं वौमके ना तु शिवमल्ल्यर्कपर्णयोः ।कर्णिका काञ्चनोत्कर्षे वर्णको मण्डले पुमान् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2058 · p. 250
वारवाणेऽहिनिर्मोके कर्णिका कर्णभूषणे ।करिहस्ताङ्गुलौ पद्मबीजे कमलमम्बुजे ॥ २०५८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.8 · p. 94
कुसुम्भे दाडिमे पक्षिभेदे च करकः पुमान् ।करमध्याङ्गुलौ च स्यात्कर्णिका च द्रुमान्तरे ॥ ८ ॥
अनुष्टुप्

कर्णिका as a meaning in nānārtha verses